अध्यायः 037
राजमार्गे नागरैः स्तूयमानस्य युधिष्ठिरस्य राजगृहमेत्य सभाप्रवेशः ॥ 1 ॥ तत्र युधिष्ठिरं निन्दतश्चार्वाकराक्षसस्य ब्राह्मणैर्हुङ्कारेण भस्मीकरणम् ॥ 2 ॥
वैशम्पायन उवाच 001
प्रवेशने तु पार्थानां जनानां पुरवासिनाम् । 001a
दिदृक्षूणां सहस्राणि समाजग्मुः सहस्रशः ॥ 001c
स राजमार्गः शुशुभे समलङ्कृतचत्वरः । 002a
यथा चन्द्रोदये राजन्वर्धमानो महोदधिः ॥ 002c
गृहाणि राजमार्गेषु रत्नवन्ति महान्ति च । 003a
प्राकम्पन्तीव भारेण स्त्रीणां पूर्णानि भारत ॥ 003c
ताः शनैरिव सव्रीडं प्रशशंसुर्युधिष्ठिरम् । 004a
भीमसेनार्जुनौ चैव माद्रीपुत्रौ च पाण्डवौ ॥ 004c
धन्या त्वमसि पाञ्चालि या त्वं पुरुषसत्तमान् । 005a
उपतिष्ठसि कल्याणि महर्षिमिव गौतमी ॥ 005c
तव कर्माण्यमोघानि व्रतचर्या च भामिनि । 006a
इति कृष्णां महाराज प्रशशंसुस्तदा स्त्रियः ॥ 006c
प्रशंसावचनैस्तासां मिथः शब्दैश्च भारत । 007a
प्रीतिजैश्च तदा शब्दैः पुरमासीत्समाकुलम् ॥ 007c
तमतीत्य यथायुक्तं राजमार्गं युधिष्ठिरः । 008a
अलङ्कृतं शोभमानमुपायाद्राजवेश्म ह ॥ 008c
ततः प्रकृतयः सर्वाः पौरा जानपदास्तदा । 009a
ऊचुः कर्णसुखा वाचः समुपेत्य ततस्ततः ॥ 009c
दिष्ट्या जयसि राजेन्द्र शत्रूञ्छत्रुनिषूदन । 010a
दिष्ट्या राज्यं पुनः प्राप्तं धर्मेण च बलेन च ॥ 010c
भव नस्त्वं महाराज राजेह शरदां शतम् । 011a
प्रजाः पालय धर्मेण यथेन्द्रस्त्रिदिवं तथा ॥ 011c
एवं राजकुलद्वारि मङ्गलैरभिपूजितः । 012a
आशीर्वादान्द्विजैरुक्तान्प्रतिगृह्य समन्ततः ॥ 012c
प्रविश्य भवनं राजा देवराजगृहोपमम् । 013a
श्रुत्वा विजयसंयुक्तं रथात्पश्चादवातरत् ॥ 013c
प्रविश्याभ्यन्तरं श्रीमान्दैवतान्यभिगम्य च । 014a
पूजयामास रत्नैश्च गन्धमाल्यैश्च सर्वशः ॥ 014c
निश्चक्राम ततः श्रीमान्पुनरेव महायशाः । 015a
ददर्श ब्राह्मणांश्चैव सोऽभिरूपानवस्थितान् ॥ 015c
स संवृतस्तदा विप्रैराशीर्वादविवक्षुभिः । 016a
शुशुभे विमलश्चन्द्रस्तारागणवृतो यथा ॥ 016c
तांस्तु वै पूजयामास कौन्तेयो विधिवद्द्विजान् । 017a
सुमनोमोदकै रत्नैर्हिरण्येन च भूरिणा । 017c
गोभिर्वस्त्रैश्च राजेन्द्र विविधैश्च किमिच्छकैः ॥ 017e
धौम्यं गुरुं पुरस्कृत्य ज्येष्ठं पितरमेव च । 018a
'प्रविवेश सभां राजा सुधर्मां वासवो यथा ॥' 018c
ततः पुण्याहघोषोऽभूद्दिवं स्तब्ध्वेव भारत । 019a
सुहृदां प्रीतिजननः पुण्यः श्रुतिसुखावहः ॥ 019c
हंसवन्नेदुषां राजन्द्विजानां तत्र भारती । 020a
शुश्रुवे वेदविदुषां पुष्कलार्थपदाक्षरा ॥ 020c
ततो दुन्दुभिनिर्घोषः शङ्खानां च मनोरमः । 021a
जयं प्रवदतां तत्र स्वनः प्रादुरभून्नृप ॥ 021c
निःशब्दे च स्थिते तत्र ततो विप्रजने पुनः । 022a
राजानं ब्राह्मणच्छद्मा चार्वाको राक्षसोऽब्रवीत् ॥ 022c
तत्र दुर्योधनसखा भिक्षुरूपेण संवृतः । 023a
साङ्ख्यः शिखी त्रिदण्डी च धृष्टो विगतसाध्वसः ॥ 023c
वृतः सर्वैस्तथा विप्रैराशीर्वादविवक्षुभिः । 024a
परस्सहस्रै राजेन्द्र तपोनियमसंस्थितैः ॥ 024c
सुदुष्टः पापमाशंसुः पाण्डवानां महात्मनाम् । 025a
अनामन्त्र्यैव तान्विप्रांस्तमुवाच महीपतिम् ॥ 025c
चार्वाक उवाच 026
इमे प्राहुर्द्विजाः सर्वे समारोप्य वचो मयि । 026a
धिग्भवन्तं कुनृपतिं ज्ञातिघातिनमस्तु वै ॥ 026c
किं ते राज्येन कौन्तेय कृत्वेमं ज्ञातिसङ्क्षयम् । 027a
घातयित्वा गुरूंश्चैव मृतं श्रेयो न जीवितम् ॥ 027c
इति ते वै द्विजाः श्रुत्वा तस्य दुष्टस्य रक्षसः । 028a
विव्यथुश्चुक्रुशुश्चैव तस्य वाक्यप्रधर्षिताः ॥ 028c
ततस्ते ब्राह्मणाः सर्वे स च राजा युधिष्ठिरः । 029a
व्रीडिताः परमोद्विग्रास्तूष्णीमासन्विशाम्पते ॥ 029c
युधिष्ठिर उवाच 030
प्रसीदन्तु भवन्तो मे प्रणतस्याभियाचतः । 030a
प्रत्यासन्नव्यसनिनं न मां धिक्कर्तुमर्हथ ॥ 030c
वैशम्पायन उवाच 031
ततो राजन्ब्राह्माणास्ते सर्व एव विशाम्पते । 031a
ऊचुर्नैष द्विजोऽस्माकमन्यस्तु तव पार्थिव ॥ 031c
जज्ञुश्चैनं महात्मानस्ततस्तं ज्ञानचक्षुषा । 032a
ब्राह्मणा वेदविद्वांसस्तपोभिर्विमलीकृताः ॥ 032c
ब्राह्मणा ऊचुः 033
एष दुर्योधनसखा विश्रुतो ब्रह्मराक्षसः । 033a
परिव्राजकरूपेण हितं तस्य चिकीर्षति ॥ 033c
न वयं ब्रूम धर्मात्मन्व्येतु ते भयमीदृशम् । 034a
उपतिष्ठतु कल्याणं भवन्तं भ्रातृभिः सह ॥ 034c
वैशम्पायन उवाच 035
ततस्ते ब्राह्मणाः सर्वे हुङ्कारैः क्रोधमूर्च्छिताः । 035a
निर्भर्त्सयन्तः शुचयो निजघ्नुः पापराक्षसम् ॥ 035c
स पपात विनिर्दग्धस्तेजसा ब्रह्मवादिनाम् । 036a
महेन्द्राशनिनिर्दग्धः पादपोऽङ्कुरवानिव ॥ 036c
पूजिताश्च ययुर्विप्रा राजानमभिनन्द्य तम् । 037a
राजा च हर्षमापेदे पाण्डवः ससुहृज्जनः ॥ 037c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्तत्रिंशोऽध्यायः ॥ 37 ॥
12-37-3 स्त्रीणां स्त्रीभिः ॥ 12-37-15 अभिरूपान्मङ्गलद्रव्यपाणीन् ॥ 12-37-17 किमिच्छसि किमिच्छसीति पृच्छद्भिर्भृत्यैर्विविधैर्गोवस्त्रादिद्रव्यैर्निमन्त्रयद्भिरित्यर्थः ॥ 12-37-19 स्तब्ध्वा व्याप्य ॥ 12-37-23 साक्षः शिखीति झ. पाठः ॥ 12-37-30 प्रत्यासन्नाः समीपस्थाः व्यसनिनश्चिरदुःखिनो भ्रात्रादयो यस्य तम् । भ्रात्रादिदुःखपरिहारार्थं ममेदं राज्यकरणं नतु स्वसुखार्थमित्यर्थः ॥ 12-37-32 जज्ञुर्ज्ञातवन्तः ॥ 12-37-33 चार्वाको नाम राक्षसः इति झ. पाठः ॥