अध्यायः 036
व्यासेन भीष्ममुखाद्राजधर्मादिश्रवणे आदिष्टस्य युधिष्ठिरस्य कृष्णाद्याज्ञया धृतराष्ट्रादिभिः सह कुरुनगरप्रवेशः ॥ 1 ॥
युधिष्ठिर उवाच 001
श्रोतुमिच्छामि भगवन्विस्तरेण महामुने । 001a
राजधर्मान्द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान् ॥ 001c
आपत्सु च यथा नीतिः प्रणेतव्या द्विजोत्तम । 002a
धर्म्यमालम्ब्य पन्थानं विजयेयं कथं महीम् ॥ 002c
प्रायश्चित्तकथा ह्येषा भक्ष्याभक्ष्यसमन्विता । 003a
कौतूहलानुप्रवणा हर्षं जनयतीव मे ॥ 003c
धर्मचर्या च राज्यं च नित्यमेव विरुध्यते । 004a
एवं मुह्यति मे चेतश्चिन्तयानस्य नित्यशः ॥ 004c
वैशम्पायन उवाच 005
तमुवाच महाराज व्यासो वेदविदां वरः । 005a
नारदं समभिप्रेक्ष्य सर्वं जानन्पुरातनम् ॥ 005c
श्रोतुमिच्छसि चेद्धर्मं निखिलेन नराधिप । 006a
प्रेहि भीष्मं महाबाहो वृद्धं कुरुपितामहम् ॥ 006c
स ते धर्मरहस्येषु संशयान्मनसि स्थितान् । 007a
छेत्ता भागीरथीपुत्रः सर्वज्ञः सर्वधर्मवित् ॥ 007c
जनयामास यं देवी दिव्या त्रिपथगा नदी । 008a
साक्षाद्ददर्श यो देवान्सर्वानिन्द्रपुरोगमान् ॥ 008c
बृहस्पतिपुरोगांस्तु देवर्षीनसकृत्प्रभुः । 009a
तोषयित्वोपचारेण राजनीतिमधीतवान् ॥ 009c
उशना वेद यच्छास्त्रं देवासुरगुरुर्द्विजः । 010a
स च धर्मं सवैयाख्यं प्राप्तवान्कुरुसत्तमः ॥ 010c
भार्गवाच्च्यवनाच्चापि वेदानङ्गोपबृंहितान् । 011a
प्रतिपेदे महाबुद्धिर्वसिष्ठाच्चरितव्रतः ॥ 011c
पितामहसुतं ज्येष्ठं कुमारं दीप्ततेजसम् । 012a
अध्यात्मगतितत्त्वज्ञमुपाशिक्षत यः पुरा ॥ 012c
मार्कण्डेयमुखात्कृत्स्नं यतिधर्ममवाप्तवान् । 013a
रामादस्त्राणि शक्राच्च प्राप्तवान्पुरुषर्षभः ॥ 013c
मृत्युरात्मेच्छया यस्य जातस्य मनुजेष्वपि । 014a
तथाऽनपत्यस्य सतः पुण्यलोकादिविश्रुताः ॥ 014c
यस्य ब्रह्मर्षयः पुण्या नित्यमासन्सभासदः । 015a
यस्य नाविदितं किञ्चिज्ज्ञानं ज्ञेयेषु दृश्यते ॥ 015c
स ते वक्ष्यति धर्मज्ञः सूक्ष्मधर्मार्थतत्त्ववित् । 016a
तमभ्येहि पुरा प्राणान्स विमुञ्चति धर्मवित् ॥ 016c
एवमुक्तस्तु कौन्तेयो दीर्घप्रज्ञो महामतिः । 017a
उवाच वदतां श्रेष्ठं व्यासं सत्यवतीसुतम् ॥ 017c
युधिष्ठिर उवाच 018
वैशसं सुमहत्कृत्वा ज्ञातीनां रोमहर्षणम् । 018a
आगस्कृत्सर्वलोकस्य पृथिवीनाशकारकः ॥ 018c
घातयित्वा तमेवाजौ छलेनाजिह्मयोधिनम् । 019a
उपसम्प्रष्टुमर्हामि तमहं केन हेतुना ॥ 019c
वैशम्पायन उवाच 020
ततस्तं नृपतिश्रेष्ठं चातुर्वर्ण्यहितेप्सया । 020a
पुनरेव महाबाहुर्यदुश्रेष्ठोऽब्रवीद्वचः ॥ 020c
वासुदेव उवाच 021
नेदानीमतिनिर्बन्धं शोके त्वं कर्तुमर्हसि । 021a
यदाह भगवान्व्यासस्तत्कुरुष्व नृपोत्तम ॥ 021c
ब्राह्मणास्त्वां महाबाहो भ्रातरश्च महौजसः । 022a
पर्जन्यमिव घर्मान्ते नाथमाना उपासते ॥ 022c
हतशिष्टाश्च राजानः कृत्स्नं चैव समागतम् । 023a
चातुर्वर्ण्यं महाराज राष्ट्रं ते कुरुजाङ्गलम् ॥ 023c
प्रियार्थमपि चैतेषां ब्राह्मणानां महात्मनाम् । 024a
नियोगादस्य च गुरोर्व्यासस्यामिततेजसः ॥ 024c
सुहृदामस्मदादीनां द्रौपद्यांश्च परन्तप । 025a
कुरु प्रियममित्रघ्न लोकस्य च हितं कुरु ॥ 025c
वैशम्पायन उवाच 026
एवमुक्तः स कृष्णेन राजा राजीवलोचनः । 026a
हितार्थं सर्वलोकस्य समुत्तस्थौ महामनाः ॥ 026c
सोऽनुनीतो नरव्याघ्र विष्टरश्रवसा स्वयम् । 027a
द्वैपायनेन च तथा देवस्थानेन जिष्णुना ॥ 027c
एतैश्चान्यैश्च बहुभिरनुनीतो युधिष्ठिरः । 028a
व्यजहान्मानसं दुःखं सन्तापं च महायशाः ॥ 028c
श्रुतवाक्यः श्रुतनिधिः श्रुतश्राव्यविशारदः । 029a
व्यवस्य मनसा शान्तिमगच्छत्पाण्डुनन्दनः ॥ 029c
स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः । 030a
धृतराष्ट्रं पुरस्कृत्य स्वपुरं प्रविवेश ह ॥ 030c
प्रविविक्षुः स धर्मज्ञः कुन्तीपुत्रो युधिष्ठिरः । 031a
अर्चयामास देवांश्च ब्राह्मणांश्च सहस्रशः ॥ 031c
ततो नवं रथं शुभ्रं कम्बलाजिनसंवृतम् । 032a
युक्तं षोडशभिस्त्वश्वैः पाण्डुरैः शुभलक्षणैः ॥ 032c
मन्त्रैरभ्यर्चितं पुण्यैः स्तूयमानश्च वन्दिभिः । 033a
आरुरोह यथा देवः सोमोऽमृतमयं रथम् ॥ 033c
जग्राह रश्मीन्कौन्तेयो भीमो भीमपराक्रमः । 034a
अर्जुनः पाण्डुरं छत्रं धारयामास भानुमत् ॥ 034c
ध्रियमाणं च तच्छत्रं पाण्डुरं राजमूर्धनि । 035a
शुशुभे तारकाराजः सिताभ्र इव चाम्बरे ॥ 035c
चामरव्यजने त्वस्य वीरौ जगृहतुस्तदा । 036a
चन्द्ररश्मिप्रयभे शुभ्रे माद्रीपुत्रावलङ्कृते ॥ 036c
ते पञ्च रथमास्थाय भ्रातरः समलङ्कृताः । 037a
भूतानीव समस्तानि राजन्ददृशिरे तदा ॥ 037c
आस्थाय तु रथं शुभ्रं युक्तमश्वैर्मनोजवैः । 038a
अन्वयात्पृष्ठतो राजन्युयुत्सुः पाण्डवाग्रजम् ॥ 038c
रथं हेममयं शुभ्रं शैब्यसुग्रीवयोजितम् । 039a
सह सात्यकिना कृष्णः समास्थायान्वयात्कुरून् ॥ 039c
नरयानेन तु ज्येष्ठः पिता पार्थस्य भारत । 040a
अग्रतो धर्मराजस्य गान्धारीसहितो ययौ ॥ 040c
कुरुस्त्रियश्च ताः सर्वाः कुन्ती कृष्णा च माधवी । 041a
यानैरुच्चावचैर्जग्मुर्विदुरेण पुरस्कृताः ॥ 041c
ततो रथाश्च बहुला नागाश्वसमलङ्कृताः । 042a
पादाताश्च हयाश्चैव पृष्ठतः समनुव्रजन् ॥ 042c
ततो वैतालिकैः सूतैर्मागधैश्च सुभाषितैः । 043a
स्तूयमानो ययौ राजा नगरं नागसाह्वयम् ॥ 043c
तत्प्रयाणं माहबाहोर्बभूवाप्रतिमं भुवि । 044a
आकुलाकुलमुत्क्रुष्टं हृष्टपुष्टजनाकुलम् ॥ 044c
अभियाने तु पार्थस्य नरैर्नगरवासिभिः । 045a
नगरं राजमार्गाश्च यथावत्समलङ्कृताः ॥ 045c
पाण्डुरेण च माल्येन पताकाभिश्च मेदिनी । 046a
संस्कृतो राजमार्गोऽभूद्धूपनैश्च प्रधूपितः ॥ 046c
अथ चूर्णैश्च गन्धानां नानापुष्पप्रियङ्गुभिः । 047a
माल्यदामभिरासक्तै राजवेश्माभिसंवृतम् ॥ 047c
कुम्भाश्च नगरद्वारि वारिपूर्णा नवा दृढाः । 048a
सिताः सुमनसो गौराः स्थापितास्तत्र तत्र ह ॥ 048c
तथा स्वलङ्कृतं द्वारं नगरं पाण्डुनन्दनः । 049a
स्तूयमानः शुभैर्वाक्यैः प्रविवेश सुहृद्वृतः ॥ 049c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षट्त्रिंशोऽध्यायः ॥ 36 ॥
12-36-3 कौतूहलेन प्रसङ्गेनाऽनुप्रवणा अभिमुखा ॥ 12-36-6 प्रेहि प्रयाहि ॥ 12-36-10 यच्च देवगुरुर्द्विज इति झ. पाठः । सवैयाख्यं व्याख्यासहितम् ॥ 12-36-16 विमुञ्चति विमोक्ष्यति ततः पुरा ॥ 12-36-18 वैशसं विनाशम् ॥ 12-36-22 नाथमानाः याचमानाः । उपासत इत्युत्तरत्रापि योज्यम् ॥ 12-36-27 विष्टरश्रवसा विष्णुना ॥ 12-36-28 सन्तापं शारीरं तापम् ॥ 12-36-29 वाक्यानि वेदावयवाः । निधिस्तदर्थविचारग्रन्थो मीमांसा । श्रुतं श्राव्यं नीतिशास्त्रादि । व्यवस्य कर्तव्यमर्थं निश्चित्य ॥ 12-36-33 अमृतमयं देवतामयम् ॥ 12-36-38 युयुत्सुर्धृतराष्ट्रपुत्रः ॥ 12-36-46 मेदिनी समलङ्कृतेत्यनुषज्यते । धूपनैः अगरुप्रभृतिभिर्धूपद्रव्यैः ॥