अध्यायः 035 व्यासेन युधिष्ठिरम् प्रति भक्ष्याभक्ष्यपात्रापात्रविवेचनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
किं भक्ष्यं चाप्यभक्ष्यं च किञ्च देयं प्रशस्यते । 001a
किञ्च पात्रमपात्रं वा तन्मे ब्रूहि पितामह ॥ 001c
व्यास उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
सिद्धानां चैव संवादं मनोश्चैव प्रजापतेः ॥ 002c
ऋषयस्तु व्रतपराः समागम्य पुरा विभुम् । 003a
धर्मं पप्रच्छुरासीनमादिकाले प्रजापतिम् ॥ 003c
कथं मन्त्रं कथं दानं गम्यागम्याः कथं स्त्रियः । 004a
कार्याकार्यं च यत्सर्वं शंस वै त्वं प्रजापते ॥ 004c
तैरेवमुक्तो भगवान्मनुः स्वायम्भुवोऽब्रवीत् । 005a
शुश्रूषध्वं यथावृत्तं धर्मं व्याससमासतः ॥ 005c
अनादेशे जपो होम उपवासस्तथैव च । 006a
आत्मज्ञानं पुण्यनद्यो यत्र प्रायश्च तत्पराः ॥ 006c
अनादिष्टं तथैतानि पुण्यानि धरणीभृतः । 007a
सुवर्णप्राशनमपि रत्नादिस्नानमेव च ॥ 007c
देवस्थानाभिगमनमाज्यप्राशनमेव च । 008a
एतानि मेध्यं पुरुषं कुर्वन्त्याशु न संशयः ॥ 008c
न गर्वेण भवेत्प्राज्ञः कदाचिदपि मानवः । 009a
दीर्घमायुरथेच्छन्हि त्रिरात्रं चोष्णपो भवेत् ॥ 009c
अदत्तस्यानुपादानं दानमध्ययनं तपः । 010a
अहिंसा सत्यमक्रोधं क्षमा धर्मस्य लक्षणम् ॥ 010c
स एव धर्मः सोऽधर्मो देशकाले प्रतिष्ठितः । 011a
आदानमनृतं हिंसा धर्मो ह्यात्यन्तिकः स्मृतः ॥ 011c
द्विविधौ चाप्युभावेतौ धर्माधर्मौ विजानताम् । 012a
अप्रवृत्तिः प्रवृत्तिश्च द्वैविध्यं लोकवेदयोः ॥ 012c
अप्रवृत्तेरमर्त्यत्वं मर्त्यत्वं कर्मणः फलम् । 013a
अशुभस्याशुभं विद्याच्छुभस्य शुभमेव च । 013c
एतयोश्चोभयोः स्यातां शुभाशुभतया तथा ॥ 013e
दैवं च दैवसंयुक्तं प्राणश्च प्रलयस्तथा । 014a
अप्रेक्षापूर्वकरणादशुभानां शुभं फलम् ॥ 014c
ऊर्ध्वं भवति सन्देहादिहादिष्टार्थमेव च । 015a
अप्रेक्षापूर्वकरणात्प्रायश्चित्तं विधीयते ॥ 015c
क्रोधमोहकृते चैव दृष्टान्तागमहेतुभिः । 016a
शरीराणामुपक्लेशो मनसश्च प्रियाप्रिये । 016c
तदौषधैश्च मन्त्रैश्च प्रायश्चित्तैश्च शाम्यति ॥ 016e
उपवासेनैकरात्रं दण्डोत्सर्गे नराधिपः । 017a
विशुद्ध्येदात्मशुद्ध्यर्थं त्रिरात्रं तु पुरोहितः ॥ 017c
क्षयं शोकं प्रकुर्वाणो न म्रियेत यदा नरः । 018a
शस्त्रादिभिरुपाविष्टस्त्रिरात्रं तत्र निर्दिशेत् ॥ 018c
जातिश्रेण्यधिवासानां कुलधर्मांश्च शाश्वतान् । 019a
वर्जयन्ति च ये धर्मं तेषां धर्मो न विद्यते ॥ 019c
दश वा वेदशास्त्रज्ञास्त्रयो वा धर्मपाठकाः । 020a
यद्ब्रूयुः कार्य उत्पन्ने स धर्मो धर्मसंशये ॥ 020c
अनुष्णा मृत्तिका चैव तथा क्षुद्रपिपीलिकाः । 021a
श्लेष्मातकस्तथा विप्रैरभक्ष्यं विषमेव च ॥ 021c
अभक्ष्या ब्राह्मणैर्मत्स्याः शकलैर्ये विवर्जिताः । 022a
चतुष्पात्कच्छपादन्यो मण्डूका जलजाश्च ये ॥ 022c
भासा हंसाः सुपर्णाश्च चक्रवाकाः प्लवा बकाः । 023a
काको मद्गुश्च गृध्रश्च श्येनोलूकस्तथैव च ॥ 023c
क्रव्यादा दंष्ट्रिणः सर्वे चतुष्पात्पक्षिणश्च ये । 024a
येषां चोभयतो दन्ताश्चतुर्दंष्ट्राश्च सर्वशः ॥ 024c
एडकाश्च मृगोष्ट्राणां सूकराणां गवामपि । 025a
मानुषीणां खरीणां च न पिबेद्ब्राह्मणः पयः ॥ 025c
प्रेतान्नं सूतकान्नं च यच्च किञ्चिदनिर्दशम् । 026a
अभोज्यं चाप्यपेयं च धेनोर्दुग्धमनिर्दशम् ॥ 026c
राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् । 027a
आयुः सुवर्णकारान्नमवीरायाश्च योषितः ॥ 027c
विष्ठा वार्धुषिकस्यान्नं गणिकान्नमथेन्द्रियम् । 028a
मृष्यन्ति ये चोपपतिं स्त्रीजितान्नं च सर्वशः ॥ 028c
दीक्षितस्य कदर्यस्य क्रतुविक्रयिकस्य च । 029a
तक्ष्णश्चर्मावकर्तुश्च पुंश्चल्या रजकस्य च ॥ 029c
चिकित्सकस्य यच्चान्नमभोज्यं रक्षिणस्तथा । 030a
गणग्रामाभिशस्तानां रङ्गस्त्रीजीविनां तथा ॥ 030c
परिवित्तीनामपुंसां च बन्दिद्यूतविदां तथा । 031a
वामहस्ताहृतं चान्नं शुष्कं पर्युषितं च यत् ॥ 031c
सुरानुगतमुच्छिष्टमभोज्यं शेषितं च यत् । 032a
पिष्टमांसेक्षुशाकानामाविकाजापयस्तथा । 032c
सक्तु धाना करम्भाश्च नोपभोग्याश्चिरस्थिताः ॥ 032e
पायसं कृसरं मांसमपूपाश्च वृथा कृताः । 033a
अपेयाश्चाप्यभक्ष्याश्च ब्राह्मणैर्गृहमेधिभिः ॥ 033c
देवानृषीन्मनुष्यांश्च पितॄन्गृह्याश्च देवताः । 034a
पूजयित्वा ततः पश्चाद्गृहस्थो भोक्तुमर्हति ॥ 034c
यथा प्रव्रजितो भिक्षुस्तथैव स्वे गृहे वसेत् । 035a
एवंवृत्तः प्रियैर्दारैः संवसन्धर्ममाप्नुयात् ॥ 035c
न दद्याद्यशसे दानं न भयान्नोपकारिणे । 036a
न नृत्यगीतशीलेषु हासकेषु च धार्मिकः ॥ 036c
न मत्ते चैव नोन्मत्ते न स्तेने न च कुत्सके । 037a
न वाग्घीने विवर्णे वा नाङ्गहीने न वामने ॥ 037c
न दुर्जने दौष्कुले वा व्रतैर्यो वा न संस्कृतः । 038a
न श्रोत्रियमृते दानं ब्राह्मणे ब्रह्मवर्जिते ॥ 038c
असम्यक्चैव यद्दत्तमसम्यक् च प्रतिग्रहः । 039a
उभयं स्यादनर्थाय दातुरादातुरेव च ॥ 039c
यथा खदिरमालम्ब्य शिलां वाप्यर्णवं तरन् । 040a
मज्जेत मज्जतस्तद्वद्दाता यश्च प्रतिग्रही ॥ 040c
काष्ठैरार्द्रैर्यथा वह्निरुपस्तीर्णो न दीप्यते । 041a
तपःस्वाध्यायचारित्रैरेवं हीनः प्रतिग्रही ॥ 041c
कपाले यद्वदापः स्युः श्वदृतौ च यथा पयः । 042a
आश्रयस्थानदोषेण वृत्तहीने तथा श्रुतम् ॥ 042c
निर्मन्त्रो निर्वृतो यः स्यादशास्त्रज्ञोऽनसूयकः । 043a
अनुक्रोशात्प्रदातव्यं हीनेष्वव्रतिकेषु च ॥ 043c
न वै देयमनुक्रोशाद्दीनायापगुणाय तु । 044a
आप्ताचरित इत्येव धर्म इत्येव वा पुनः ॥ 044c
निष्कारणं स्मृतं दत्तं ब्राह्मणे ब्रह्मवर्जिते । 045a
न फलेत्पात्रदोषेण न चात्रास्ति विचारणा ॥ 045c
यथा दारुमयो हस्ती यथा चर्ममयो मृगः । 046a
ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः ॥ 046c
यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला । 047a
शकुनिर्वाप्यपक्षः स्यान्निर्मन्त्रो ब्राह्मणस्तथा ॥ 047c
ग्रामस्थानं यथा शून्यं यथा कूपश्च निर्जलः । 048a
यथा हुतमनग्नौ च तथैव स्यान्निराकृतौ ॥ 048c
देवतानां पितॄणां च हव्यकव्यविनाशकः । 049a
सर्वथाऽर्थहरो मूर्खो न लोकान्प्राप्तुमर्हति ॥ 049c
एतत्ते कथितं सर्वं यथावृत्तं युधिष्ठिर । 050a
समासेन महद्ध्येतच्छ्रोतव्यं नरतर्षभ ॥ 050c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चत्रिंशोऽध्यायः ॥ 35 ॥

12-35-3 प्रजापतिं मनुम् ॥ 12-35-4 कथं पात्रं दानमध्ययनं तप इति झ. पाठः । तत्र कथं केन प्रकारेण । अन्नमदनीयं किन्द्रव्यकं कर्तव्यमित्यर्थः ॥ 12-35-5 व्यासो विस्तरः ॥ 12-35-6 अनादेशे विशेषतोऽनुक्ते दोषे । यत्र देशे तत्पराः जपादिपराः प्रायः बहुशः सन्ति सोऽपि गङ्गादिवत्पावन इत्यर्थः ॥ 12-35-7 तथा जपादिवत् । पुण्यान्येतानि वक्ष्यमाणानि । धरणीभृतः पर्वता ब्रह्मगिरिप्रभृतयः । आदिपदात्सुवर्णस्नानादि । अनादिष्टं प्रायश्चित्तं सामान्यमित्यर्थः ॥ 12-35-9 गर्वेण युक्तो न भवेत् पूजां नावगणयेत् । अवगणने तु त्रिरात्रमुष्णपो भवेदिति तप्तकृच्छ्रं धर्मशास्त्रोक्तं कुर्यादित्यर्थः ॥ 12-35-10 तप उपवासादि ॥ 12-35-11 आदानं स्तेयम् । प्राणात्ययादावधर्मस्यापि स्तेयादेर्धर्मत्वमित्यर्थः ॥ 12-35-12 वैदिक्यौ प्रवृत्त्यप्रवृत्ती मर्त्यात्वामृतत्वप्रदे । लौकिक्यौ तु ते शुभे चेच्छुभफले अशुभे चेदशुभफले इत्याह द्वाभ्यां द्विविधाविति ॥ 12-35-13 एतयोर्लौकिक्योः । फले अपि कारणानुरूपे इत्यर्थः ॥ 12-35-14 दैवयुक्तं शास्त्रीयं कर्म । प्राणो जीवनम् । एतेषां चतुर्णामप्रेक्षापूर्वं यत्किञ्चित्क्रियते तर्ह्यशुभानां नीचानामपि पुंसां तस्य फलं शुभं भवति ॥ 12-35-15 सत्यपि सन्देहे यल्लोकविगानपरिहारार्थं कृतं नित्यादि यच्च केवलं दृष्टार्थं कृतं श्येनादि तत्रोभयत्रापि ॥ 12-35-16 क्रोधादिना यन्मनसः प्रियमप्रियं कृतं तत्र दृष्टान्तागमहेतुभिः पूर्वोक्तैर्यावदेन इत्याद्यैः प्रमाणैर्देहस्य शोषणमुपवासादिकं प्रायश्चित्तं कर्तव्यम् । औषधैर्हविष्याशनैः । मन्त्रैश्च पवित्रजपैः । चादन्यदपि । तीर्थाटनश्रमादिभिस्तत्पापं शाम्यतीति सार्धम् ॥ 12-35-18 क्षयं पुत्रादिमरणनिमित्तमात्मवधार्थं प्रवृत्तो न म्रियेत चेत् त्रिरात्रमुपवासं चरेत् ॥ 12-35-19 जातिर्ब्राह्मणत्वादिः । श्रेणी गृहस्थादीनां पङ्क्तिः । अधिवासो जन्भभूमिः । जात्यादिधर्मांश्च ये वर्जयन्ति तेषां धर्मः प्रायश्चित्तादि स्वरूपो न विद्यते ॥ 12-35-20 पाठकाः शोधकाः । कार्ये प्रायश्चित्तनिमित्ते दोषे ॥ 12-35-25 एडका मेषी ॥ 12-35-26 अभोज्यं पायसाद्यन्तर्गतम् ॥ 12-35-27 अवीरायाः पतिपुत्रहीनायाः ॥ 12-35-28 इन्द्रियं शुक्रम् । गणिकादित्रयाणामन्नम् ॥ 12-35-29 दीक्षितस्य अग्नीषोमीयवपाहोमात्प्राङ् न भोक्तव्यम् । कदर्यो धनव्ययभयाद्भोगत्यागहीनः ॥ 12-35-30 रक्षिणो ग्रामपालकस्य सीमादिरक्षिणो वा ॥ 12-35-31 वाद्यमानाहृतं चान्नमिति ट. ड. थ. पाठः ॥ 12-35-32 शेषितं कुटुम्बायाऽदत्त्वात्मार्थं रक्षितम् । धाना भृष्टयवाः । करम्भा दधिसक्तवः ॥ 12-35-33 कृसरं तिलमिश्र ओदनः । वृथाकृताः देवताद्युद्देशं विना कृताः ॥ 12-35-36 हासकेषु परिहासपरेषु भाण्डेषु ॥ 12-35-37 वाग्घीने मूके मूर्खे वा ॥ 12-35-42 श्वदृतौ शुनकचर्ममये कोशे ॥ 12-35-43 अनुक्रोशाद्दयया ॥ 12-35-44 आप्तचरित इष्टकारीति बुद्ध्या धर्मबुद्ध्या वा निर्मन्त्रे न देयमित्याह नवा इति ॥ 12-35-45 निष्कारणं निष्फलम् ॥ 12-35-48 निराकृतौ मूर्खे ॥