अध्यायः 033 व्यासेन युधिष्ठिरम् प्रति प्रायश्चित्तप्रयोजकपापकर्मणाम् प्रायश्चित्तानाञ्च कथनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
कानि कृत्वेह कर्माणि प्रायश्चित्तीयते नरः । 001a
किं कृत्वा मुच्यते तत्र तन्मे ब्रूहि पितामह ॥ 001c
व्यास उवाच 002
अकुर्वन्विहितं कर्म प्रतिषिद्धानि चाचरन् । 002a
प्रायश्चित्तीयते ह्येवं नरो मिथ्याऽनुवर्तयन् ॥ 002c
सूर्येणाभ्युदितो यश्च ब्रह्मचारी भवत्युत । 003a
तथा सूर्याभिनिर्मुक्तः कुनखी श्यावदन्नपि ॥ 003c
परिवित्तिः परिवेत्ता ब्रह्मेज्यायाश्च दूषकः । 004a
दिधिषूपतिस्तथा यः स्यादग्रेदिधिषुरेव च ॥ 004c
अवकीर्णी भवेद्यश्च द्विजातिवधकस्तथा । 005a
अतीर्थे ब्राह्मणस्त्यागी तीर्थे चाप्रतिपादकः ॥ 005c
ग्रामयाजी च कौन्तेय मांसस्य परिविक्रयी । 006a
यश्चाग्नीनपविध्येत तथैव ब्रह्मविक्रयी ॥ 006c
शूद्रस्त्रीवधको यश्च पूर्वः पूर्वस्तु गर्हितः । 007a
वृथा पशुसमालम्भी वनदाहस्य कारकः ॥ 007c
अनृतेनोपवर्ती च प्रतिषेद्धा गुरोस्तथा । 008a
'स्वदत्तस्यापहर्ता च परदत्तनिरोधकः ॥ 008c
वाग्दत्तं च मनोदत्तं धारादत्तं च यो हरेत् । 009a
पाकभेदेन भोक्ता च भुञ्जानस्याप्यनादरः ॥ 009c
स्वजनैः कलहं चैव आश्रितानामरक्षणम् ।' 010a
एतान्येनांसि सर्वाणि व्युत्क्रान्तसमयश्च यः ॥ 010c
अकार्याणि तु वक्ष्यामि यानि तानि निबोध मे । 011a
लोकवेदविरुद्धानि तान्येकाग्रमनाः शृणु ॥ 011c
स्वधर्मस्य परित्यागः परधर्मस्य च क्रिया । 012a
अयाज्ययाजनं चैव तथाऽभक्ष्यस्य भक्षणम् ॥ 012c
शरणागतसन्त्यागो भृत्यस्याभरणं तथा । 013a
रसानां विक्रयश्चापि तिर्यग्योनिवधस्तथा ॥ 013c
आधानादीनि कर्माणि शक्तिमान्न करोति यः । 014a
अप्रयच्छंश्च सर्वाणि नित्यदेयानि भारत ॥ 014c
दक्षिणानामदानं च ब्राह्मणस्वाभिमर्शनम् । 015a
सर्वाण्येतान्यकार्याणि प्राहुर्धर्मविदो जनाः ॥ 015c
पित्रा विवदते पुत्रो यश्च स्याद्गुरुतल्पगः । 016a
अप्रजायन्नरव्याघ्र भवत्यधार्मिको नरः ॥ 016c
उक्तान्येतानि कर्माणि विस्तरेणेतरेण च ॥ 017ac
यानि कुर्वन्नकुर्वंश्च प्रायश्चित्तीयते नरः । 018a
एतान्येव तु कर्माणि क्रियमाणानि मानवैः । 018c
येषुयेषु निमित्तेषु न लिप्यन्तेऽथ ताञ्शृणु ॥ 018e
प्रगृह्य शस्त्रमायान्तमपि वेदान्तगं रणे । 019a
जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥ 019c
इति चाप्यत्र कौन्तेय मन्त्रो वेदेषु पठ्यते । 020a
वेदप्रमाणविहितं धर्मं च प्रब्रवीमि ते ॥ 020c
अपेतं ब्राह्मणं वृत्ताद्यो हन्यादाततायिनम् । 021a
न तेन ब्रह्महा स स्यान्मन्युस्तन्मन्युमृच्छति ॥ 021c
प्राणात्यये तथा ज्ञानादाचरन्मदिरामपि । 022a
आदेशितो धर्मपरैः पुनः संस्कारमर्हति ॥ 022c
एतत्ते सर्वमाख्यातं कौन्तेयाभक्ष्यभक्षणम् । 023a
प्रायश्चित्तविधानेन सर्वमेतेन शुद्ध्यति ॥ 023c
गुरुतल्पं हि गुर्वर्थं न दूषयति मानवम् । 024a
उद्दालकः श्वेतकेतुं जनयामास शिष्यतः ॥ 024c
स्तेयं कुर्वंश्च गुर्वर्थमापत्सु न निषिध्यते । 025a
बहुशः कामकारेण न चेद्यः सम्प्रवर्तते ॥ 025c
अन्यत्र ब्राह्मणस्वेभ्य आददानो न दुष्यति । 026a
स्वयमप्राशिता यश्च न स पापेन लिप्यते ॥ 026c
प्राणत्राणेऽनृतं वाच्यमात्मनो वा परस्य च । 027a
गुर्वर्थे स्त्रीषु चैव स्याद्विवाहकरणेषु च ॥ 027c
नावर्तते व्रतं स्वप्ने शुक्रमोक्षे कथञ्चन । 028a
आज्यहोमः समिद्धेऽग्नौ प्रायश्चित्तं विधीयते ॥ 028c
पारिवित्त्यं तु पतिते नास्ति प्रव्रजिते तथा । 029a
भिक्षिते पारदार्यं च तद्धर्मस्य न दूषकम् ॥ 029c
वृथा पशुसमालम्भं नैव कुर्यान्न कारयेत् । 030a
अनुग्रहः पशूनां हि संस्कारो विधिनोदितः ॥ 030c
अनर्हे ब्राह्मणे दत्तमज्ञानात्तन्न दूषकम् । 031a
सत्काराणां तथा तीर्थे नित्यं वा प्रतिपादनम् ॥ 031c
स्त्रियास्तथापचारिण्या निष्कृतिः स्याददूषिका । 032a
अपि सा पूयते तेन न तु भर्ता प्रदुष्यति ॥ 032c
तत्त्वं ज्ञात्वा तु सोमस्य विक्रयः स्याददोषवान् । 033a
असमर्थस्य भृत्यस्य विसर्गः स्याददोषवान् ॥ 033c
वनदाहो गवामर्थे क्रियमाणो न दूषकः । 034a
उक्तान्येतानि कर्माणि यानि कुर्वन्न दुष्यति ॥ 034c
प्रायश्चित्तानि वक्ष्यामि विस्तरेणैव भारत । 035a
'यानि कृत्वा नरः पूतो भविष्यति नराधिप ॥' 035c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्रयस्त्रिंशोऽध्यायः ॥ 33 ॥

12-33-1 प्रायश्चित्तीयते प्रायश्चित्तेऽधिक्रियते ॥ 12-33-2 मिथ्यानुवर्तयन्कापट्यं चरन् ॥ 12-33-4 अनूढे ज्येष्ठे ऊढवान् कनिष्ठः परिवेत्ता । परिवित्तिः पूर्वजः । ज्येष्ठायामनूढायां कनिष्ठामूढवानग्रेदिधिषुः । दिधिषूपतिस्तु कनिष्ठाविवाहोत्तरं ज्येष्ठामूढवान् ॥ 12-33-5 अवकीर्णी नष्टव्रतः । अतीर्थे अपात्रे त्यागी दाता ॥ 12-33-6 अपविध्येत त्यजेत् । ब्रह्मविक्रयी भृतकाध्यापकः ॥ 12-33-14 नित्यदेयानि गोग्रासादीनि ॥ 12-33-16 अप्रजायन् धर्मपत्न्यां काले मैथुनमकुर्वन् ॥ 12-33-17 इतरेण सङ्क्षेपेण ॥ 12-33-19 जिघांसी हन्तुमिच्छावान् । इयात् गच्छेत् ॥ 12-33-20 मन्त्रो मन्युरकार्षीन्नमोनम इत्यादिर्मन्यवे स्वाहेत्यन्तः ॥ 12-33-21 मन्युः क्रोधः तन्मन्युं शत्रोः क्रोधं प्रति ऋच्छति गच्छति । क्रोध एव तं प्रतीपीभूय परशरीरद्वारा हन्तीत्यर्थः ॥ 12-33-22 आदेशित उपदिष्टः ॥ 12-33-24 गुर्वर्थं गुर्वाज्ञया ॥ 12-33-26 स्वय प्रकाशितो यश्च इति ट. ड. थ. पाठः ॥ 12-33-28 व्रतं नावर्तते पुनरुपनयनं न कर्तव्यमित्यर्थः । आज्यहोमः पुनर्मामैत्विन्द्रियमिति मन्त्रेण ॥ 12-33-29 पतिते ज्येष्ठभ्रातरि । भिक्षिते धर्मार्थमपि रेतः सिञ्चेति स्त्रिया प्रार्थिते सति ॥ 12-33-30 पशूनामनुग्रहः अहिंसनं संस्कारः पावित्र्यमित्यन्वयः ॥