अध्यायः 031
व्यासयुधिष्ठिरसंवादः ॥ 1 ॥
वैशम्पायन उवाच 001
तूष्णीम्भूतं तु राजानं शोचमानं युधिष्ठिरम् । 001a
तपस्वी धर्मतत्त्वज्ञः कृष्णद्वैपायनोऽब्रवीत् ॥ 001c
व्यास उवाच 002
प्रजानां पालनं धर्मो राज्ञां राजीवलोचन । 002a
धर्मः प्रमाणं लोकस्य नित्यं धर्मोऽनुवर्त्यताम् ॥ 002c
अनुतिष्ठस्व तद्राजन्पितृपैतामहं पदम् । 003a
ब्राह्मणेषु तु यो धर्मः स नित्यो वेदनिश्चितः ॥ 003c
तत्प्रमाणं प्रमाणानां शाश्वतं भरतर्षभ । 004a
तस्य धर्मस्य कृत्स्नस्य क्षत्रियः परिरक्षिता ॥ 004c
तथा यः प्रतिहन्त्यस्य शासनं विषये नरः । 005a
स बाहुभ्यां विनिग्राह्यो लोकयात्राविघातकः ॥ 005c
प्रमाणमप्रमाणं यः कुर्यान्मोहवशं गतः । 006a
भृत्यो वा यदि वा पुत्रस्तपस्वी वाऽथ कश्चन ॥ 006c
पापान्सर्वैरुपायैस्तान्नियच्छेच्छातयीत वा । 007a
अतोऽन्यथा वर्तमानो राजा प्राप्नोति किल्बिषम् ॥ 007c
धर्मं विनश्यमानं हि यो न रक्षेत्स धर्महा । 008a
ते त्वया धर्महन्तारो निहताः सपदानुगाः ॥ 008c
स्वधर्मे वर्तमानस्त्वं किन्नु शोचसि पाण्डव । 009a
राजा हि हन्याद्दद्याच्च प्रजा रक्षेच्च धर्मतः ॥ 009c
युधिष्ठिर उवाच 010
न तेऽतिशङ्के वचनं यद्ब्रवीषि तपोधन । 010a
अपरोक्षो हि ते धर्मः सर्वधर्मविदां वर ॥ 010c
मया त्ववध्या बहवो घातिता राज्यकारणात् । 011a
तानि कर्माणि मे ब्रह्मन्दहन्ति च पचन्ति च ॥ 011c
व्यास उवाच 012
ईश्वरो वा भवेत्कर्ता पुरुषो वाऽपि भारत । 012a
हठो वा वर्तते लोके कर्मजं वा फलं स्मृतम् ॥ 012c
ईश्वरेण नियुक्तो हि साध्वसाधु च भारत । 013a
कुरुते पुरुषः कर्म फलमीश्वरगामि तत् ॥ 013c
यथाहि पुरुषश्छिन्द्याद्वृक्षं परशुना वने । 014a
छेत्तुरेव भवेत्पापं परशोर्न कथञ्चन ॥ 014c
अथवा तदुपादानात्प्राप्नुयात्कर्मणः फलम् । 015a
दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते ॥ 015c
न चैतदिष्टं कौन्तेय यदन्येन कृतं फलम् । 016a
प्राप्नुयादिति तस्माच्च ईश्वरे तन्निवेशय ॥ 016c
अथापि पुरुषः कर्ता कर्मणोः शुभपापयोः । 017a
न परो विद्यते तस्मादेवमप्यशुभं कुतः ॥ 017c
न हि कश्चित्क्वचिद्राजन्दिष्टं प्रतिनिवर्तते । 018a
दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते ॥ 018c
यदि वा मन्यसे राजन्हतमेकं प्रतिष्ठितम् । 019a
एवमप्यशुभं कर्म न भूतं न भविष्यति ॥ 019c
अथाभिपत्तिर्लोकस्य कर्तव्या पुण्यपापयोः । 020a
अभिपन्नमिदं लोके राज्ञामुद्यतदण्डनम् ॥ 020c
तथापि लोके कर्माणि समावर्तन्ति भारत । 021a
शुभाशुभफलं चैते प्राप्नुवन्तीति मे मतिः ॥ 021c
एवं पश्य शुभादेशं कर्मणस्तत्फलं ध्रुवम् । 022a
त्यज त्वं राजशार्दूल मैवं शोके मनः कृथा ॥ 022c
स्वधर्मे वर्तमानस्य सापवादेऽपि भारत । 023a
एवमात्मपरित्यागस्तव राजन्न शोभनः ॥ 023c
विहितानि हि कौन्तेय प्रायश्चित्तानि कर्मणाम् । 024a
शरीरवांस्तानि कुर्यादशरीरः पराभवेत् ॥ 024c
तद्राजञ्जीवमानस्त्वं प्रायश्चित्तं करिष्यसि । 025a
प्रायश्चित्तमकृत्वा तु प्रेत्य तप्ताऽसि भारत ॥ 025c
युधिष्ठिर उवाच 026
हताः पुत्राश्च पौत्राश्च भ्रातरः पितरस्तथा । 026a
श्वशुरा गुरवश्चैव मातुलाश्च पितामहाः ॥ 026c
क्षत्रियाश्च महात्मानः सम्बन्धिसुहृदस्तथा । 027a
वयस्या भागिनेयाश्च ज्ञातयश्च पितामह ॥ 027c
बहवश्च मनुष्येन्द्रा नानादेशसमागताः । 028a
घातिता राज्यलुब्धेन मयैकेन पितामह ॥ 028c
तांस्तादृशानहं हत्वा धर्मनित्यान्महीक्षितः । 029a
असकृत्सोमपान्वीरान्किं प्राप्स्यामि तपोधन ॥ 029c
दह्याम्यनिशमद्यापि चिन्तयानः पुनः पुनः । 030a
हीनां पार्थिवसिंहैस्तैः श्रीमद्भिः पृथिवीमिमाम् ॥ 030c
दृष्ट्वा ज्ञातिवधं घोरं हतांश्च शतशः परान् । 031a
कोटिशश्च नरानन्यान्परितप्ये पितामह ॥ 031c
का नु तासां वरस्त्रीणामवस्थाऽद्य भविष्यति । 032a
विहीनानां तु तनयैः पतिभिर्भ्रातृभिस्तथा ॥ 032c
अस्मानन्तकरान्घोरान्पाण्डवान्वृष्णिसंहतान् । 033a
आक्रोशन्त्यः कृशा दीनाः प्रपतिष्यन्ति भूतले ॥ 033c
अपश्यन्त्यः पितॄन्भ्रातॄन्पतीन्पुत्रांश्च योषितः । 034a
त्यक्त्वा प्राणान्स्त्रियः सर्वा गमिष्यन्ति यमक्षयम् ॥ 034c
वत्सलत्वाद्द्विजश्रेष्ठ तत्र मे नास्ति संशयः । 035a
व्यक्तं सौक्ष्म्याच्च धर्मस्य प्राप्स्यामः स्त्रीवधं वयम् ॥ 035c
ते वयं सुहृदो हत्वा कृत्वा पापमनन्तकम् । 036a
नकरे निपतिष्यामो ह्यधःशिरस एव ह ॥ 036c
शरीराणि विमोक्ष्यामस्तपसोग्रेण सत्तम । 037a
आश्रमाणां विशेषं त्वमथाचक्ष्व पितामह ॥ 037c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकत्रिंशोऽध्यायः ॥ 31 ॥
12-31-7 शातयीत मारेयत् ॥ 12-31-11 मे माम् ॥ 12-31-12 नापरो वर्तते लोके कर्मजं वा फलं नृषु । इति ड. थ. पाठः ॥ 12-31-15 प्राप्नुयात् परशोरुपादाता । एवं तर्हि येन परशोर्दण्डः शस्त्रं परशुश्च कृतस्तमेव पापं कर्तृ प्राप्नुयात्तस्य प्रथमप्रयोज्यत्वात् । पुरुषे उपादातरि तन्न विद्यते तस्य जघन्यत्वात् ॥ 12-31-16 यदि चैतन्नेष्टं एतत्किं यदन्येन प्रहर्त्रा कृतं पापं तस्य फलं शस्त्रकर्ता आप्नुयादिति । तर्हि जघन्यप्रयोज्ये त्वय्यपि पापाभावादीश्वरे एव तन्निवेशय ॥ 12-31-18 यतः कश्चिदपि दिष्टं प्रत्यदृष्टस्य प्रतिकूलो भूत्वावश्यम्भाविनः कर्मणः सकाशान्न निवर्तते । दैवस्य दुर्लङ्घ्यत्वादिति भावः ॥ 12-31-20 पुण्यपापयोः सुखदुःखयोः अभिपत्तिरुपपत्तिः कर्तव्या साच धर्माधर्मावन्तरेण न घटते तौच शास्त्रैकगम्याविति चेद्राज्ञामुद्यतदण्डनमुद्धतदमनं लोके शास्त्रे चोपपन्नतरमित्यर्थः ॥ 12-31-23 सापवादे निन्द्येऽपि ॥