अध्यायः 030 नारदेन युधिष्ठिरम् प्रति सुवर्णष्ठीविचरितवर्णनम् ॥ 1 ॥ वैशम्पायन उवाच 001
ततो राजा पाण्डुसुतो नारदं प्रत्यभाषत । 001a
भगवञ्छ्रोतुमिच्छामि सुवर्णष्ठीविसम्भवम् ॥ 001c
एवमुक्तस्तु स मुनिर्धर्मराजेन नारदः । 002a
आचचक्षे यथावृत्तं सुवर्णष्ठीविनं प्रति ॥ 002c
नारद उवाच 003
एवमेतन्महाबाहो यथाऽयं केशवोऽब्रवीत् । 003a
कार्यस्यास्य तु यच्छेषं तत्ते वक्ष्यामि पृच्छतः ॥ 003c
अहं च पर्वतश्चैव स्वस्रीयो मे महामुनिः । 004a
वस्तुकामावभिगतौ सृञ्जयं जयतां वरम् ॥ 004c
तत्रावां पूजितौ तेन विधिदृष्टेन कर्मणा । 005a
सर्वकामैः सुविहितौ निवसावोऽस्य वेश्मनि ॥ 005c
व्यतिक्रान्तासु वर्षासु समये गमनस्य च । 006a
पर्वतो मामुवाचेदं काले वचनमर्थवत् ॥ 006c
आवामस्य नरेन्द्रस्य गृहे परमपूजितौ । 007a
उषितौ समये ब्रह्मंस्तद्विचिन्तय साम्प्रतम् ॥ 007c
ततोऽहमब्रुवं राजन्पर्वतं शुभदर्शनम् । 008a
सर्वमेतत्त्वयि विभो भागिनेयोपपद्यते ॥ 008c
वरेण च्छन्द्यतां राजा लभतां यद्यदिच्छति । 009a
आवयोस्तपसा सिद्धिं प्राप्नोतु यदि मन्यसे ॥ 009c
तत आहूय राजानं सृञ्जयं जयतां वरम् । 010a
पर्वतोऽनुमतो वाक्यमुवाच कुरुपुङ्गव ॥ 010c
प्रीतौ स्वो नृप सत्कारैर्भवदार्जवसम्भृतैः । 011a
आवाभ्यामभ्यनुज्ञातो वरं नृवर चिन्तय ॥ 011c
देवानामविहिंसायां न भवेन्मानुषे क्षमम् । 012a
तद्गृहाण महाराज पूजार्हो नौ मतो भवान् ॥ 012c
सृञ्जय उवाच 013
प्रीतौ भवन्तौ यदि मे कृतमेतावता मम । 013a
एष एव परो लाभो निर्वृत्तो मे महाफलः ॥ 013c
तमेवंवादिनं भूयः पर्वतः प्रत्यभाषत । 014a
शृणु राजन्सुसङ्कल्पं यत्ते हृदि चिरं स्थितम् ॥ 014c
अभीप्ससि सुतं वीरं वीर्यवन्तं दृढव्रतम् । 015a
आयुष्मतं महाभागं देवराजसमद्युतिम् ॥ 015c
भविष्यत्येष ते कामो न त्वायुष्मान्भविष्यति । 016a
देवराजाभिभूत्यर्थं सङ्कल्पो ह्येष ते हृदि ॥ 016c
सुवर्णष्ठीवनाच्चैव स्वर्णष्ठीवी भविष्यति । 017a
रक्ष्यश्च देवराजात्स देवराजसमद्युतिः ॥ 017c
तच्छ्रुत्वा सृञ्जयो वाक्यं पर्वतस्य महात्मनः । 018a
प्रसादयामास तदा नैतदेवं भवेदिति ॥ 018c
आयुष्मान्मे भवेत्पुत्रो भवतोस्तपसा मुने । 019a
न च तं पर्वतः किञ्चिदुवाचेन्द्रव्यपेक्षया ॥ 019c
तमहं नृपतिं दीनमब्रवं पुनरेव च । 020a
स्मर्तव्योऽस्मि महाराज दर्शयिष्यामि ते सुतम् ॥ 020c
अहं ते दयितं पुत्रं प्रेतराजवशं गतम् । 021a
पुनर्दास्यामि तद्रूपं मा शुचः पृथिवीपते ॥ 021c
एवमुक्त्वा तु नृपतिं प्रयातौ स्वो यथेप्सितम् । 022a
सृञ्जयश्च यथाकामं प्रविवेश स्वमन्दिरम् ॥ 022c
सृञ्जयस्याथ राजर्षेः कस्मिंश्चित्कालपर्यये । 023a
जज्ञे पुत्रो महावीर्यस्तेजसा प्रज्वलन्निव ॥ 023c
ववृधे स यथाकालं सरसीव महोत्पलम् । 024a
बभूव काञ्चनष्ठीवी यथार्थं नाम तस्य तत् ॥ 024c
तदद्भुततमं लोके पप्रथे कुरुसत्तम । 025a
बुबुधे तच्च देवेन्द्रो वरदानं मनीषिणोः ॥ 025c
ततः स्वाभिभवाद्भीतो बृहस्पतिमते स्थितः । 026a
कुमारस्यान्तरप्रेक्षी नित्यमेवाभ्यवर्तत ॥ 026c
चोदयामास तद्वज्रं दिव्यास्त्रं मूर्तिमत्स्थितम् । 027a
व्याघ्रो भूत्वा जहीमं त्वं राजपुत्रमिति प्रभो ॥ 027c
प्रवृद्धः किल वीर्येण मामेषोऽभिभविष्यति । 028a
सृञ्जयस्य सुतो वज्र यथैनं पर्वतोऽब्रवीत् ॥ 028c
एवमुक्तस्तु शक्रेण वज्रः परपुरञ्जयः । 029a
कुमारमन्तरप्रेक्षी नित्यमेवान्वपद्यत ॥ 029c
सृञ्जयोऽपि सुतं प्राप्य देवराजसमद्युतिम् । 030a
हृष्टः सान्तःपुरो राजा वननित्यो बभूव ह ॥ 030c
ततो भागीरथीतीरे कदाचिन्निर्जने वने । 031a
धात्रीद्वितीयो बालः स क्रीडार्थं पर्यधावत ॥ 031c
पञ्चवर्षकदेशीयो बालो नागेन्द्रविक्रमः । 032a
सहसोत्पतितं व्याघ्रमाससाद महाबलम् ॥ 032c
स बालस्तेन निष्पिष्टो वेपमानो नृपात्मजः । 033a
व्यसुः पपात मेदिन्यां ततो धात्री विचुक्रुशे ॥ 033c
हत्वा तु राजपुत्रं स तत्रैवान्तरधीयत । 034a
शार्दूलो देवराजस्य माययान्तर्हितस्तदा ॥ 034c
धात्र्यास्तु निनदं श्रुत्वा रुदत्याः परमार्तवत् । 035a
अभ्यधावत तं देशं स्वयमेव महीपतिः ॥ 035c
स ददर्श शयानं तं गतासुं पीतशोणितम् । 036a
कुमारं विगतानन्दं निशाकरमिव च्युतम् ॥ 036c
स तमुत्सङ्गमारोप्य परिपीडितवक्षसम् । 037a
पुत्रं रुधिरसंसिक्तं पर्यदेवयदातुरः ॥ 037c
ततस्ता मातरस्तस्य रुदत्यः शोककर्शिताः । 038a
अभ्यधावन्त तं देशं यत्र राजा स सृञ्जयः ॥ 038c
ततः स राजा सस्मार मामेव गतमानसः । 039a
तदाऽहं चिन्तनं ज्ञात्वा गतवांस्तस्य दर्शनम् ॥ 039c
मयैतानि च वाक्यानि श्रावितः शोकलालसः । 040a
यानि ते यदुवीरेण कथितानि महीपते ॥ 040c
सञ्जीवितश्चापि पुनर्वासवानुमते तदा । 041a
भवितव्यं तथा तच्च न तच्छक्यमतोऽन्यथा ॥ 041c
तत ऊर्ध्वं कुमारस्तु स्वर्णष्ठीवी महायशाः । 042a
चित्तं प्रसादयामास पितुर्मातुश्च वीर्यवान् ॥ 042c
कारयामास राज्यं च पितरि स्वर्गते नृप । 043a
वर्षाणां शतमेकं च सहस्रं भीमविक्रमः ॥ 043c
तत ईजे महायज्ञैर्बहुभिर्भूरिदक्षिणैः । 044a
तर्पयामास देवांश्च पितॄंश्चैव महाद्युतिः ॥ 044c
उत्पाद्य च बहून्पुत्रान्कुलसन्तानकारिणः । 045a
कालेन महता राजन्कालधर्ममुपेयिवान् ॥ 045c
स त्वं राजेन्द्र सञ्जातं शोकमेकं निवर्तय । 046a
यथा त्वं केशवः प्राह व्यासश्च सुमहातपाः ॥ 046c
पितृपैतामहं राज्यमास्थाय धुरमुद्वह । 047a
इष्ट्वा पुण्यैर्महायज्ञैरिष्टं लोकमवाप्स्यसि ॥ 047c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्रिंशोऽध्यायः ॥ 30 ॥*

  • द्रोणपर्वणि स्वर्णष्ठीविचरितमन्यादृशमत्र पर्वणित्वन्यादृशम् । 12-30-7 साम्प्रतं कल्याणम् ॥ 12-30-12 न भवेन्मानुषक्षयमिति झ. पाठः । तत्र येन देवपीडा मनुष्यक्षयश्च न भवति तत्तादृशं वरं गृहाणेति भावः ॥ 12-30-16 देवराजविभूत्यर्थमिति ड. पाठः ॥