अध्यायः 029
कृष्णेन युधिष्ठिरम् प्रति नारदपर्वतोपाख्यानकथनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
स कथं काञ्चनष्ठीवी सृञ्जयस्य सुतोऽभवत् । 001a
पर्वतेन किमर्थं वा दत्तस्तेन ममार च ॥ 001c
यदा वर्षसहस्रायुस्तदा भवति मानवः । 002a
कथमप्राप्तकौमारः सृञ्जयस्य सुतो मृतः ॥ 002c
उताहो नाममात्रं वै सुवर्णष्ठीविनोऽभवत् । 003a
कथं वा काञ्चनष्ठीवीत्येतदिच्छामि वेदितुम् ॥ 003c
श्रीकृष्ण उवाच 004
अत्र ते वर्णयिष्यामि यथावृत्तं जनेश्वर । 004a
नारदः पर्वतश्चैव द्वावृषी लोकसत्तमौ ॥ 004c
मातुलो भागिनेयश्च देवलोकादिहागतौ । 005a
विहर्तुकामौ सम्प्रीत्या मानुषेषु पुरा विभो ॥ 005c
हविःपवित्रभोज्येन देवभोज्येन चैव हि । 006a
नारदो मातुलस्तत्र भागिनेयश्च पर्वतः ॥ 006c
तावुभौ तपसोपेताववनीतलचारिणौ । 007a
भुञ्जानौ मानुषान्भोगान्यथावत्पर्यधावताम् ॥ 007c
प्रीतिमन्तौ मुदा युक्तौ समयं चैव चक्रतुः । 008a
यो भवेद्धृदि सङ्कल्पः शुभो वा यदि वाऽशुभः ॥ 008c
अन्योन्यस्य च आख्येयो मृषा शापोऽन्यथा भवेत् । 009a
तौ तथेति प्रतिज्ञाय महर्षी लोकपूजितौ ॥ 009c
सृञ्जयं श्वैत्यमभ्येत्य राजानमिदमूचतुः । 010a
आवां भवति वत्स्यावः कञ्चित्कालं हिताय ते ॥ 010c
यथावत्पृथिवीपाल आवयोः प्रगुणीभव । 011a
तथेति कृत्वा राजा तौ सत्कृत्योपचचार ह ॥ 011c
ततः कदाचित्तौ राजा महात्मानौ तपोधनौ । 012a
अब्रवीत्परमप्रीतः सुतेयं देवरूपिणी ॥ 012c
एकैव मम कन्यैषा युवां परिचरिष्यति । 013a
दर्शनीयानवद्याङ्गी शीलवृत्तसमाहिता । 013c
सुकुमारी कुमारी च पद्मकिञ्जल्कसुप्रभा ॥ 013e
परमं सौम्यमित्युक्तं ताभ्यां राजा शशास ताम् । 014a
कन्ये विप्रावुपचर देववत्पितृवच्च ह ॥ 014c
सा तु कन्या तथेत्युक्त्वा पितरं धर्मचारिणी । 015a
यथानिदेशं राज्ञस्तौ सत्कृत्योपचचार ह ॥ 015c
तस्यास्तेनोपचारेण रूपेणाप्रतिमेन च । 016a
नारदं हृच्छयस्तूर्णं सहसैवाभ्यपद्यत ॥ 016c
ववृधे हि ततस्तस्य हृदि कामो महात्मनः । 017a
यथा शुक्लस्य पक्षस्य प्रवृत्तौ चन्द्रमाः शनैः ॥ 017c
न च तं भागिनेयाय पर्वताय महात्मने । 018a
शशंस मन्मथं तीव्रं व्रीडमानः स धर्मवित् ॥ 018c
तपसा चेङ्गितैश्चैव पर्वतोऽथ बुबोध तम् । 019a
कामार्तं नारदं क्रुद्धः शशापैनं ततो भृशम् ॥ 019c
कृत्वा समयमव्यग्रो भवान्वै सहितो मया । 020a
यो भवेद्धृदि सङ्कल्पः शुभो वा यदि वाऽशुभः ॥ 020c
अन्योन्यस्य स आख्येय इति तद्वै मृषा कृतम् । 021a
भवता वचनं ब्रह्मंस्तस्मादेष शपाम्यहम् ॥ 021c
न हि कामं प्रवर्तन्तं भवानाचष्ट मे पुरा । 022a
सुकुमार्यां कुमार्यां ते तस्मान्नैष क्षमाम्यहम् ॥ 022c
ब्रह्मचारी गुरुर्यस्मात्तपस्वी ब्राह्मणश्च सन् । 023a
अकार्षीः समयभ्रंशमावाभ्यां यः कृतो मिथः ॥ 023c
शप्स्ये तस्मात्सुसङ्क्रुद्धो भवन्तं तं निबोध मे ॥ 024ac
सुकुमारी च ते भार्या भविष्यति न संशयः । 025a
वानरत्वं च ते कन्या विवाहात्प्रभृति प्रभो । 025c
सन्द्रक्ष्यन्ति नराश्चान्ये स्वरूपेण विनाकृतम् ॥ 025e
स तद्वाक्यं तु विज्ञाय नारदः पर्वतं तथा । 026a
अशपत्तमपि क्रोधाद्भागिनेयं स मातुलः ॥ 026c
तपसा ब्रह्मचर्येण सत्येन च दमेन च । 027a
युक्तोऽपि नित्यधर्मश्च न वै स्वर्गमवाप्स्यसि ॥ 027c
तौ तु शप्त्वा भृशं क्रुद्धौ परस्परममर्षणौ । 028a
प्रतिजग्मतुरन्योन्यं क्रुद्धाविव गजोत्तमौ ॥ 028c
पर्वतः पृथिवीं कृत्स्नां विचचार महामतिः । 029a
पूज्यमानो यथान्यायं तेजसा स्वेन भारत ॥ 029c
अथ तामलभत्कन्यां नारदः सृञ्जयात्मजाम् । 030a
धर्मेण विप्रप्रवरः सुकुमारीमनिन्दिताम् ॥ 030c
सा तु कन्या यथाशापं नारदं तं ददर्श ह । 031a
पाणिग्रहणमन्त्राणां नियोगादेव नारदम् ॥ 031c
सुकुमारी च देवर्षिं वानरप्रतिमाननम् । 032a
नैवावमन्यत तदा प्रीतिमत्येव चाभवत् ॥ 032c
उपतस्थे च भर्तारं न चान्यं मनसाऽप्यगात् । 033a
देवं मुनीं वा यक्षं वा पतित्वे पतिवत्सला ॥ 033c
ततः कदाचिद्भगवान्पर्वतोऽनुचचार ह । 034a
वनं विरहितं किञ्चित्तत्रापश्यत्स नारदम् ॥ 034c
ततोऽभिवाद्य प्रोवाच नारदं पर्वतस्तदा । 035a
भवान्प्रसादं कुरुतात्स्वर्गादेशाय ये प्रभो ॥ 035c
तमुवाच ततो दृष्ट्वा पर्वतं नारदस्तथा । 036a
कृताञ्जलिमुपासीनं दीनं दीनतरः स्वयम् ॥ 036c
त्वयाऽहं प्रथमं शप्तो वानरस्त्वं भविष्यसि । 037a
इत्युक्तेन मया पश्चाच्छप्तस्त्वमपि मत्सरात् ॥ 037c
अद्यप्रभृति वै वासं स्वर्गे नावाप्स्यसीति ह । 038a
तव नैतद्विसदृशं पुत्रस्थाने हि मे भवान् ॥ 038c
निवर्तयेतां तौ शापावन्योन्येन तदा मुनी ॥ 039ac
श्रीसमृद्धं तदा दृष्ट्वा नारदं देवरूपिणम् । 040a
सुकुमारी प्रदुद्राव परपुंसविशङ्कया ॥ 040c
तां पर्वतस्ततो दृष्ट्वा प्रद्रवन्तीमनिन्दिताम् । 041a
अब्रवीत्तव भर्तैष नात्र कार्या विचारणा ॥ 041c
ऋषिः परमधर्मात्मा नारदो भगवान्प्रभुः । 042a
तवैवाभेद्यहृदयो मा ते भूदत्र संशयः ॥ 042c
सानुनीता बहुविधं पर्वतेन महात्मना । 043a
शापदोषं च तं भर्तुः श्रुत्वा प्रकृतिमागता । 043c
पर्वतोऽथ ययौ स्वर्गं नारदोऽभ्यगमद्गृहान् ॥ 043e
वासुदेव उवाच 044
प्रत्यक्षकर्ता सर्वस्य नारदो भगवानृषिः । 044a
एष वक्ष्यति ते पृष्टो यथावृत्तं नरोत्तम ॥ 044c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनत्रिंशोऽध्यायः ॥ 29 ॥
12-29-6 हविः पवित्रभोज्येन शाल्यन्नेन देवभोज्येन घृतेन ताभ्यां विहर्तुकामाविति पूर्वेण सम्बन्धः ॥ 12-29-11 प्रगुणीभवानुकूलो भव ॥ 12-29-13 सुकुमारी नाम्ना ॥ 12-29-14 सौम्यमुत्तमम् ॥ 12-29-20 समयं कृत्वा भवानवसदिति शेषः ॥ 12-29-22 प्रवर्तन्तं प्रवर्तमानम् । ते त्वाम् ॥