अध्यायः 028
कृष्णेन युधिष्ठिरम् प्रति सृञ्जयाय नारदोक्तषोडशराजोपाख्यानकथनम् ॥ 1 ॥
वैशम्पायन उवाच 001
अव्याहरति राजेन्द्रे धर्मपुत्रे युधिष्ठिरे । 001a
गुडाकेशो हृषीकेशमभ्यभाषत पाण्डवः ॥ 001c
अर्जुन उवाच 002
ज्ञातिशोकाभिसन्तप्तो धर्मपुत्रः परन्तपः । 002a
एष शोकार्णवे मग्नस्तमाश्वासय माधव ॥ 002c
सर्वे स्म ते संशयिताः पुनरेव जनार्दन । 003a
अस्य शोकं महाप्राज्ञ प्रणाशयितुमर्हसि ॥ 003c
वैशम्पायन उवाच 004
एवमुक्तस्तु गोविन्दो विजयेन महात्मना । 004a
पर्यवर्तत राजानं पुण्डरीकेक्षणोऽच्युतः ॥ 004c
अनतिक्रमणीयो हि धर्मराजस्य केशवः । 005a
बाल्यात्प्रभृति गोविन्दः प्रीत्या चाभ्यधिकोर्जुनात् ॥ 005c
सम्प्रगृह्य महाबाहुर्भुजं चन्दनभूषितम् । 006a
शैलस्तम्भोपमं शौरिरुवाचाभिविनोदयन् ॥ 006c
शुशुभे वदनं तस्य सुदंष्ट्रं चारुलोचनम् । 007a
व्याकोचमिव विस्पष्टं पद्मं सूर्यविबोधितम् ॥ 007c
वासुदेव उवाच 008
मा कृथाः पुरुषव्याघ्र शोकं त्वं गात्रशोषणम् । 008a
न हि ते सुलभा भूयो ये हताऽस्मिन्रणाजिरे ॥ 008c
स्वप्नलब्धा यथा लाभा वितथाः प्रतिबोधने । 009a
तथा ते क्षत्रिया राजन्ये व्यतीता महारणे ॥ 009c
सर्वे ह्यभिमुखाः शूरा निहता रणशोभिनः । 010a
नैषां कश्चित्पृष्ठतो वा पलायन्वा निपातितः ॥ 010c
सर्वे त्यक्त्वाऽऽत्मनः प्राणान्युद्ध्वा वीरा महामृधे । 011a
शस्त्रपूता दिवं प्राप्ता न ताञ्छोचितुमर्हसि ॥ 011c
क्षत्रधर्मरताः शूरा वेदवेदाङ्गपारगाः । 012a
प्राप्ता वीरगतिं पुण्यां तान्न शोचितुमर्हसि । 012c
मृतान्महानुभावांस्त्वं श्रुत्वैव पृथिवीपतीन् ॥ 012e
अत्रैवोदाहरन्तीममितिहासं पुरातनम् । 013a
सृञ्जयं पुत्रशोकार्तं यथाऽयं नारदोऽब्रवीत् ॥ 013c
नारद उवाच 014
सुखदुःखैरहं त्वं च प्रजाः सर्वाश्च सृञ्जय । 014a
अविमुक्ता मरिष्यामस्तत्र का परिदेवना ॥ 014c
महाभाग्यं पुरा राज्ञां कीर्त्यमानं मया शृणु । 015a
गच्छावधानं नृपते ततो दुःखं प्रहास्यसि ॥ 015c
मृतान्महानुभावांस्त्वं श्रुत्वैव पृथिवीपतीन् । 016a
शममानय सन्तापं शृणु विस्तरशश्च मे । 016c
क्रूरग्रहाभिशमनमायुर्वर्धनमुत्तमम् ॥ 016e
अग्रिमाणां क्षितिभुजामुदारं च मनोहरम् । 017a
आविक्षितं मरुत्तं च मृतं सृञ्जय शुश्रुम ॥ 017c
यस्य सेन्द्राः सवरुणा बृहस्पतिपुरोगमाः । 018a
देवा विश्वसृजो राज्ञो यज्ञमीयुर्महात्मनः ॥ 018c
यः स्पर्धामानयच्छक्रं देवराजं पुरन्दरम् । 019a
शक्रप्रियैषी यं विद्वान्प्रत्याचष्ट बृहस्पतिः ॥ 019c
संवर्तो याजयामास यं पीडार्थं बृहस्पतेः ॥ 020ac
यस्मिन्प्रशासति महीं नृपतौ राजसत्तम । 021a
अकृष्टपच्या पृथिवी विबभौ सस्यमालिनी ॥ 021c
आविक्षितस्य वै सत्रे विश्वेदेवाः सभासदः । 022a
मरुतः परिवेष्टारः साध्याश्चासन्महात्मनः ॥ 022c
मरुद्गणा मरुत्तस्य यत्सोममपिबंस्ततः । 023a
देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः ॥ 023c
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 024a
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ 024c
सुहोत्रं च द्वैतिथिनं मृतं सृञ्जय शुश्रुम । 025a
यस्मै हिरण्यं ववृषे मघवा परिवत्सरम् ॥ 025c
सत्यनामा वसुमती यं प्राप्यासीज्जनाधिपम् । 026a
हिरण्यमवहन्नद्यस्तस्मिञ्जनपदेश्वरे ॥ 026c
मत्स्यान्कर्कटकान्नक्रान्मकराञ्छिंशुकानपि । 027a
नदीष्ववासृजद्राजन्मघवा लोकपूजितः ॥ 027c
हैरण्यान्पातितान्दृष्ट्वा मत्स्यान्मकरकच्छपान् । 028a
सहस्रशोऽथ शतशस्ततोऽस्मयत वैतिथिः ॥ 028c
तद्धिरण्यमपर्यन्तमावृतं कुरुजाङ्गले । 029a
ईजानो वितते यज्ञे ब्राह्मणेभ्यः समार्पयत् ॥ 029c
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 030a
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः । 030c
अदक्षिणमयज्वानं श्वैत्य संशाम्य माशुचः ॥ 030e
अङ्गं बृहद्रथं चैव मृतं सृञ्जय शुश्रुम । 031a
यः सहस्रं सहस्राणां श्वेतानश्वानवासृजात् ॥ 031c
सहस्रं च सहस्राणां कन्या हेमपरिष्कृताः । 032a
ईजानो वितते यज्ञे दक्षिणामत्यकालयत् ॥ 032c
यः सहस्रं सहस्राणां गजानां पझमालिनाम् । 033a
ईजानो वितते यज्ञे दक्षिणामत्यकालयत् ॥ 033c
शतं शतसहस्राणि वृषाणां हेममालिनाम् । 034a
गवां सहस्रानुचरं दक्षिणामत्यकालयत् ॥ 034c
अङ्गस्य यजमानस्य तदा विष्णुपदे गिरौ । 035a
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ॥ 035c
यस्य यज्ञेषु राजेन्द्र शतसङ्ख्येषु वै पुरा । 036a
देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः ॥ 036c
न जातो जनिता नान्यः पुमान्यः सम्प्रदास्यति । 037a
यदङ्गः प्रददौ वित्तं सोमसंस्थासु सप्तसु ॥ 037c
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 038a
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ 038c
शिबिमौशीनरं चैव मृतं सृञ्जय शुश्रुम । 039a
य इमां पृथिवीं सर्वां चर्मवत्समवेष्टयत् ॥ 039c
महता रथघोषेण पृथिवीमनुनादयन् । 040a
एकच्छत्रां महीं चक्रे जैत्रेणैकरथेन यः ॥ 040c
यावदस्य गवाश्वं स्यादारण्यैः पशुभिः सह । 041a
तावतीः प्रददौ गाः स शिबिरौशीनरोऽध्वरे ॥ 041c
न वोढारं धुरं तस्य कञ्चिन्मेने प्रजापतिः । 042a
न भूतं न भविष्यं च सर्वराजसु सृञ्जय । 042c
अन्यत्रौशीनराच्छैब्याद्राजर्षेरिन्द्रविक्रमात् ॥ 042e
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 043a
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ 043c
अदक्षिणमयज्वानं पुत्रं संस्मृत्य मा शुचः ॥ 044ac
भरतं चैव दौष्यन्तिं मृतं सृञ्जय शुश्रुम । 045a
शाकुन्तलं महात्मानं भूरिद्रविणतेजसम् ॥ 045c
योऽबध्नात्त्रिशतं चाश्वान्देवेभ्यो यमुनामनु । 046a
सरस्वतीं विंशतिं च गङ्गामनु चतुर्दश ॥ 046c
अश्वमेधसहस्रेण राजसूयशतेन च । 047a
इष्टवान्स महातेजा दौष्यन्तिर्भरतः पुरा ॥ 047c
भरतस्य महत्कर्म सवराजसु पार्थिवाः । 048a
स्वं मर्त्या इव बाहुभ्यां नानुगन्तुमशक्नुवन् ॥ 048c
परं सहस्राद्योऽबध्नाद्धयान्वेदीर्वितत्य च । 049a
सहस्रं यत्र पद्मानां कण्वाय भरतो ददौ ॥ 049c
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 050a
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ 050c
रामं दाशरथिं चैव मृतं सृञ्जय शुश्रुम । 051a
योऽन्वकम्पत वै नित्यं प्रजाः पुत्रानिवौरसान् ॥ 051c
नाधनो यस्य विषये नानर्थः कस्यचिद्भवेत् । 052a
सर्वस्यासीत्पितृसमो रामो राज्यं यदन्वशात् ॥ 052c
कालवर्षी च पर्जन्यः सस्यानि समपादयत् । 053a
नित्यं सुभिक्षमेवासीद्रामे राज्यं प्रशासति ॥ 053c
प्राणिनो नाप्सु मज्जन्ति नानर्थे पावकोऽदहत् । 054a
न व्यालतो भयं चासीद्रामे राज्यं प्रशासति ॥ 054c
आसन्वर्षसहस्रिण्यस्तथा वर्षसहस्रकाः । 055a
अरोगाः सर्वसिद्धार्था रामे राज्यं प्रशासति ॥ 055c
नान्योन्येन विवादोऽभूत्स्त्रीणामपि कुतो नृणाम् । 056a
धर्मनित्याः प्रजाश्चासन्रामे राज्यं प्रशासति ॥ 056c
सन्तुष्टाः सर्वसिद्धार्था निर्भयाः स्वैरचारिणः । 057a
नराः सत्यव्रताश्चासन्रामे राज्यं प्रशासति ॥ 057c
नित्यपुष्पफलाश्चैव पादपा निरुपद्रवाः । 058a
सर्वा द्रोणदुघा गावो रामे राज्यं प्रशासति ॥ 058c
स चतुर्दश वर्षाणि वने प्रोष्य महातपाः । 059a
दशाश्वमेधाञ्जारूथ्यानाजहार निरर्गलान् ॥ 059c
युवा श्यामो लोहिताक्षो मातङ्ग इव यूथपः । 060a
आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ॥ 060c
दशवर्षसहस्राणि दशवर्षशतानि च । 061a
अयोध्याधिपतिर्भूत्वा रामो राज्यमकारयत् ॥ 061c
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 062a
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः । 062c
अयज्वानमदक्षिण्यं मा पुत्रमनुतप्यथाः ॥ 062e
भगीरथं च राजानं मृतं सृञ्जय शुश्रुम । 063a
यस्येन्द्रो वितते यज्ञे सोमं पीत्वा मदोत्कटः ॥ 063c
असुराणां सहस्राणि बहूनि सुरसत्तमः । 064a
अजयद्बाहुवीर्येण भगवान्पाकशासनः ॥ 064c
यः सहस्रं सहस्राणां कन्या हेमविभूषिताः । 065a
ईजानो वितते यज्ञे दक्षिणामत्यकालयत् ॥ 065c
सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः । 066a
शतंशतं रथे नागाः पद्मिनो हेममालिनः ॥ 066c
सहस्रमश्वा एकैकं हस्तिनं पृष्ठतोऽन्वयुः । 067a
गवां सहस्रमश्वेऽश्वे सहस्रं गव्यजाविकम् ॥ 067c
उपह्वरे निवसतो यस्याङ्के निषसाद ह । 068a
गङ्गा भागीरथी तस्मादुर्वशी चाभवत्पुरा ॥ 068c
भूरिदक्षिणमिक्ष्वाकुं यजमानं भगीरथम् । 069a
त्रिलोकपथगा गङ्गा दुहितृत्वमुपेयुषी ॥ 069c
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 070a
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ 070c
दिलीपं च महात्मानं मृतं सृञ्जय शुश्रुम । 071a
यस्य कर्माणि भूरीणि कथयन्ति द्विजातयः ॥ 071c
य इमां वसुसम्पूर्णां वसुधां वसुधाधिपः । 072a
ददौ तस्मिन्महायज्ञे ब्राह्मणेभ्यः समाहितः ॥ 072c
यस्येह यजमानस्य यज्ञेयज्ञे पुरोहितः । 073a
सहस्रं वारणान्हैमान्दक्षिणामत्यकालयत् ॥ 073c
यस्य यज्ञे महानासीद्यूपः श्रीमान्हिरण्मयः । 074a
तं देवाः कर्म कुर्वाणाः शक्रज्येष्ठा उपासत ॥ 074c
चषाले यस्य सौवर्णे तस्मिन्यूपे हिरण्मये । 075a
ननृतुर्देवगन्धर्वाः षट्सहस्राणि सप्तधा ॥ 075c
अवादयत्तत्र वीणां मध्ये विश्वावसुः स्वयम् । 076a
सर्वभूतान्यमन्यन्त मम वादयतीत्ययम् ॥ 076c
एतद्राज्ञो दिलीपस्य राजानो नानुचक्रिरे । 077a
यस्येभा हेमसञ्छन्नाः पथि मत्ताः स्म शेरते ॥ 077c
राजानं शतधन्वानं दिलीपं सत्यवादिनम् । 078a
येऽपश्यन्सुमहात्मानं तेऽपि स्वर्गजितो नराः ॥ 078c
त्रयः शब्दा न जीर्यन्ते दिलीपस्य निवेशने । 079a
स्वाध्यायशब्दः ज्याशब्दः शब्दो वै दीयतामिति ॥ 079c
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 080a
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ 080c
मान्धातारं यौवनाश्वं मृतं सृञ्जय शुश्रुम । 081a
यं देवा मरुतो गर्भं पितुः पार्श्वादपाहरन् ॥ 081c
समृद्धो युवनाश्वस्य जठरे यो महात्मनः । 082a
पृषदाज्योद्भवः श्रीमांस्त्रिलोकविजयी नृपः ॥ 082c
यं दृष्ट्वा पितुरुत्सङ्गे शयानं देवरूपिणम् । 083a
अन्योन्यमब्रुवन्देवाः कमयं धास्यतीति वै ॥ 083c
मामेव धास्यतीत्येवमिन्द्रोऽथाभ्युपपद्यत । 084a
मान्धातेति ततस्तस्य नाम चक्रे शतक्रतुः ॥ 084c
ततस्तु पयसो धारां पुष्टिहेतोर्महात्मनः । 085a
तस्यास्ये यौवनाश्वस्य पाणिरिन्द्रस्य चास्रवत् ॥ 085c
तं पिबन्पाणिमिन्द्रस्य शतमह्ना व्यवर्धत । 086a
स आसीद्द्वादशसमो द्वादशाहेन पार्थिवः ॥ 086c
तमिमं पृथिवी सर्वा एकाह्ना समपद्यत । 087a
धर्मात्मानं महात्मानं शूरमिन्द्रसमं युधि ॥ 087c
यश्चाङ्गारं तु नृपतिं मरुत्तमसितं गयम् । 088a
अङ्गं बृहद्रथं चैव मान्धाता समरेऽजयत् ॥ 088c
यौवनाश्वो यदाङ्गारं समरे प्रत्ययुध्यत । 089a
विस्फारैर्धनुषो देवा द्यौरभेदीति मेनिरे ॥ 089c
यत्र सूर्य उदेति स्म यत्र च प्रतितिष्ठति । 090a
सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥ 090c
अश्वमेधशतेनेष्ट्वा राजसूयशतेन च । 091a
अददद्रोहितान्मत्स्यान्ब्राह्मणेभ्यो विशाम्पते ॥ 091c
हैरण्यान्योजनोत्सेधानायतान्दशयोजनम् । 092a
अतिरिक्तान्द्विजातिभ्यो व्यभजंस्त्वितरे जनाः ॥ 092c
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 093a
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ 093c
ययातिं नाहुषं चैव मृतं सृञ्जय शुश्रुम । 094a
य इमां पृथिवीं कृत्स्नां विजित्य सहसागराम् ॥ 094c
शम्यापातेनाभ्यतीयाद्वेदीभिश्चित्रयन्महीम् । 095a
ईजानः क्रतुभिर्मुख्यैः पर्यगच्छद्वसुन्धराम् ॥ 095c
इष्ट्वा क्रतुसहस्रेण वाजपेयशतेन च । 096a
तर्पयामास विप्रेन्द्रांस्त्रिभिः काञ्चनपर्वतैः ॥ 096c
व्यूढेनासुरयुद्धेन हत्वा दैतेयदानवान् । 097a
व्यभजत्पृथिवीं कृत्स्नां ययातिर्नहुषात्मजः ॥ 097c
अन्त्येषु पुत्रान्निक्षिप्य यदुद्रुह्युपुरोगमान् । 098a
पुरुं राज्येऽभिषिच्याथ सदारः प्राविशद्वनम् ॥ 098c
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 099a
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ 099c
अम्बरीषं च नाभागं मृतं सृञ्जय शुश्रुम । 100a
यं प्रजा वव्रिरे पुण्यं गोप्तारं नृपसत्तमम् ॥ 100c
यः सहस्रं सहस्राणां राज्ञामयुतयाजिनाम् । 101a
ईजानो वितते यज्ञे ब्राह्मणेभ्यस्त्वमन्यत ॥ 101c
नैतत्पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे । 102a
इत्यम्बरीषं नाभागिमन्वमोदन्त दक्षिणाः ॥ 102c
शतं राजसहस्राणि शतं राजशतानि च । 103a
सर्वेऽश्वमेधैरीजानास्तेऽन्वयुर्दक्षिणायनम् ॥ 103c
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 104a
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ 104c
शशबिन्दुं चैत्ररथं मृतं शुश्रुम सृञ्जय । 105a
यस्य भार्यासहस्राणां शतमासीन्महात्मनः ॥ 105c
सहस्रं तु सहस्राणां यस्यासञ्शाशबिन्दवाः । 106a
हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः ॥ 106c
शतं कन्या राजपुत्रमेकैकं पृथगन्वयुः । 107a
कन्याङ्कन्यां शतं नागा नागन्नागं शतं रथाः ॥ 107c
रथेरथे शतं चाश्वा देशजा हेममालिनः । 108a
अश्वेअश्वे शतं गावो गाङ्गां तद्वदजाविकम् ॥ 108c
एतद्धनमपर्यन्तमश्वमेधे महामखे । 109a
शशबिन्दुर्महाराज ब्राह्मणेभ्यो ह्यमन्यत ॥ 109c
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 110a
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ 110c
गयं चाधूर्तरजसं मृतं शुश्रुम सृञ्जय । 111a
यः स वर्षशतं राजा हुतशिष्टाशनोऽभवत् ॥ 111c
यस्मै वह्निर्वरान्प्रादात्ततो वव्रे वरान्गयः । 112a
ददतो मे क्षयो मा भूद्धर्मे श्रद्धा च वर्धताम् ॥ 112c
मनो मे रमतां सत्ये त्वत्प्रसादाद्धुताशन । 113a
लेभे च कामांस्तान्सर्वान्पावकादिति नः श्रुतम् ॥ 113c
दर्शेन पूर्णमासेन चातुर्मास्यैः पुनः पुनः । 114a
अयजद्धयमेधेन सहस्रं परिवत्सरान् ॥ 114c
शतं गवां सहस्राणि शतमश्वशतानि च । 115a
उत्थायोत्थाय वै प्रादात्सहस्रं परिवत्सरान् ॥ 115c
तर्पयामास सोमेन देवान्वित्तैर्द्विजानपि । 116a
पितॄन्स्वधाभिः कामैश्च स्त्रियः स्वाः पुरुषर्षभ ॥ 116c
सौवर्णां पृथिवीं कृत्वा दशव्यामां द्विरायताम् । 117a
दक्षिणामददद्राजा वाजिमेधे महाक्रतौ ॥ 117c
यावत्यः सिकता राजन्गङ्गायां पुरुषर्षभ । 118a
तावतीरेव गाः प्रादादाधूर्तरजसो गयः ॥ 118c
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 119a
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ 119c
रन्तिदेवं च साङ्कृत्यं मृतं सृञ्जय शुश्रुम । 120a
सम्यगाराध्य यः शक्राद्वरं लेभे महातपाः ॥ 120c
अन्नं च नो बहु भवेदतिथींश्च लभेमहि । 121a
श्रद्धा च नो मा व्यगमन्मा च याचिष्म कञ्चन ॥ 121c
उपातिष्ठन्त पशवः स्वयं तं संशितव्रतम् । 122a
ग्राम्यारण्या महात्मानं रन्तिदेवं यशस्विनम् ॥ 122c
महानदी चर्मराशेरुत्क्लेदात्ससृजे यतः । 123a
ततश्चर्मण्वतीत्येवं विख्याता सा महानदी ॥ 123c
ब्राह्मणेभ्यो ददौ निष्कान्सदसि प्रतते नृपः । 124a
तुभ्यन्तुभ्यं निष्कमिति यदा क्रोशन्ति वै द्विजाः ॥ 124c
सहस्रं तुभ्यमित्युक्त्वा ब्राह्मणान्समप्रपद्य ते ॥ 125ac
अन्वाहार्योपकरणं द्रव्योपकरणं च यत् । 126a
घटाः पात्र्यः कटाहानि स्थाल्यश्च पिठराणि च । 126c
नासीत्किञ्चिदसौवर्णं रन्तिदेवस्य धीमतः ॥ 126e
साङ्कृते रन्तिदेवस्य यां रात्रिमवसन्गृहे । 127a
आलभ्यन्त शतं गावः सहस्राणि च विंशतिः ॥ 127c
तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः । 128a
सूपं भूयिष्ठमश्नीध्वं नाद्य मांसं यथा पुरा ॥ 128c
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 129a
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ 129c
सगरं च महात्मानं मृतं शुश्रुम सृञ्जय । 130a
ऐक्ष्वाकं पुरुषव्याघ्रमतिमानुषविक्रमम् ॥ 130c
षष्टिः पुत्रसहस्राणि यं यान्तमनुजग्मिरे । 131a
नक्षत्रराजं वर्षान्ते व्यभ्रे ज्योतिर्गणा इव ॥ 131c
एकच्छत्रा मही यस्य प्रतापादभवत्पुरा । 132a
योऽश्वमेधसहस्रेण तर्पयामास देवताः ॥ 132c
यः प्रादात्कनकस्तम्भं प्रासादं सर्वकाञ्चनम् । 133a
पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसङ्कुलम् ॥ 133c
द्विजातिभ्योऽनुरूपेभ्यः कामांश्च विविधान्बहून् । 134a
यस्यादेशेन तद्वित्तं व्यभजन्त द्विजातयः ॥ 134c
खानयामास यः कोपात्पृथिवीं सागराङ्किताम् । 135a
यस्य नाम्ना समुद्रश्च सागरत्वमुपागतः ॥ 135c
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 136a
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ 136c
राजानं च पृथुं वैन्यं मृतं शुश्रुम सृञ्जय । 137a
यमभ्यषिञ्चन्सम्भूय महारण्ये महर्षयः ॥ 137c
प्रथयिष्यति वै लोकान्पृथुरित्येव शब्दितः । 138a
क्षताद्यो वै त्रायतीति स तस्मात्क्षत्रियः स्मृतः ॥ 138c
पृथुं वैन्यं प्रजा दृष्ट्वा रक्तास्मेति यदब्रुवन् । 139a
ततो राजेति नामास्य अनुरागादजायत ॥ 139c
अकृष्टपच्या पृथिवी पुटकेपुटके मधु । 140a
सर्वा द्रोणदुघा गावो वैन्यस्यासन्प्रशासतः ॥ 140c
अरोगाः सर्वसिद्धार्था मनुष्या अकुतोभयाः । 141a
यथाऽभिकाममवसन्क्षेत्रेषु च गृहेषु च ॥ 141c
आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः । 142a
शैलाश्चापाद्व्यदीर्यन्त ध्वजभङ्गश्च नाभवत् ॥ 142c
हैरण्यांस्त्रिनरोत्सेधान्पर्वतानेकविंशतिम् । 143a
ब्राह्मणेभ्यो ददौ राजा योश्वमेधे महामखे ॥ 143c
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 144a
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ 144c
किं वा तूष्णीं ध्यायसे सृञ्जय त्वं न मे राजन्वाचिममां शृणोषि । 145a
न चेन्मोघं विप्रलप्तं ममेदं पथ्यं मुमूर्षोरिव सुप्रयुक्तम् ॥ 145c
सृञ्जय उवाच 146
शृणोमि ते नारद वाचमेनां विचित्रार्थां स्रजमिव पुण्यगन्धाम् । 146a
राजर्षीणां पुण्यकृतां महात्मनां कीर्त्या युक्तानां शोकनिर्नाशनार्थाम् ॥ 146c
न ते मोघं विप्रलप्तं महर्षे दृष्ट्वैवाहं नारद त्वां विशोकः । 147a
शुश्रूषे ते वचनं ब्रह्मवादिन्न ते तृप्याम्यमृतस्येव पानात् ॥ 147c
अमोघदर्शिन्मम चेत्प्रसादं सन्तापदग्धस्य विभो प्रकुर्याः । 148a
सुतस्य सञ्जीवनमद्य मे स्यात्तव प्रसादात्सुतसङ्गमाप्नुयाम् ॥ 148c
नारद उवाच 149
यस्ते पुत्रः शयितोयं विजातः स्वर्णष्ठीवी यमदात्पर्वतस्ते । 149a
पुनस्तं ते पुत्रमहं ददामि हिरण्यनाभं वर्षसहस्रिणं च ॥ 149c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टाविंशोऽध्यायः ॥ 28 ॥
12-28-3 ते वयम् ॥ 12-28-4 पर्यवर्तत अभिमुखोऽभूत् ॥ 12-28-6 भुजं राज्ञः । अभिविनादयन् इति ट. ड. थ. पाठः ॥ 12-28-7 व्याकोचं विकसितम् ॥ 12-28-8 हताः अस्मिन्सन्धिरार्षः ॥ 12-28-9 लाभाः अर्थाः ॥ 12-28-15 महाभाग्यं माहात्म्यम् ॥ 12-28-16 श्वैत्यमानय सन्तापमिति ट. ड. पाठः ॥ 12-28-19 यागं माकुर्विति प्रत्याचष्ट प्रत्याख्यातवान् ॥ 12-28-24 चतुर्भद्रतरः चत्वारि धर्मज्ञानवैराग्यैश्वर्याख्यानि भद्राणि यस्मिन्स चतुर्भद्रः । त्वया अवधिभूतेन त्वत्तोऽतिशयेन चतुर्भद्र इत्यर्थः ॥ 12-28-31 अवासृजत् यज्ञार्थमुत्सृष्टवान् ॥ 12-28-32 अत्यकालयत् दत्तवान् ॥ 12-28-55 वर्षसहस्रिण्यः स्त्रियः । वर्षसहस्रकाः पुरुषाः ॥ 12-28-58 द्रोणदुघाः द्रोणपरिमितं क्षीरं दुहन्ति ताः ॥ 12-28-59 जारूथ्यान् स्तुत्यान् । त्रिगुणदक्षिणानित्यन्ये । निरर्गलानवारितद्वारान् ॥ 12-28-66 चतुर्युजश्चतुरश्वाः ॥ 12-28-68 उपह्वरे समीपे । अङ्के ऊरौ निषसाद आसाञ्चक्रे । तस्माद्योगात्सा उर्वशी ऊरौ वासो यस्याः सा इति योगात् । ऊर्वसीत्यपेक्षिते ह्रस्वत्वं वर्णविपर्ययश्च पृषोदरादित्वात् ज्ञेयः ॥ 12-28-75 सप्तधा सप्तस्वरानुसारेणावादयदिति सम्बन्धः ॥ 12-28-76 मम पुरत इति शेषः । मां लक्षीकृत्येत्यर्थः ॥ 12-28-78 शतधन्वानं शतम् अनन्तान् सहते धनुर्यस्य तं शतधन्वानम् । मध्यमपदलोपी समासः ॥ 12-28-82 पृषदाज्यं दधिमिश्रमाज्यं कस्यचिदर्थे पुत्रोत्पादनाय निर्मितं तद्युवनाश्वेन पीतं तत् रेतोरुधिरयोगं विनापि तदुदरे गर्भोऽभवत् । स पितुः पार्श्वं भित्त्वा निःसारितो देवैरित्याख्यायिकार्थोऽत्र सूचितः ॥ 12-28-86 अह्ना एकेन शतं पलानि व्यवर्धत । द्वादशवर्षतुल्यः ॥ 12-28-89 अभेदि भिन्ना ॥ 12-28-91 मत्स्यान् हैरण्यानिति सम्बन्धः ॥ 12-28-95 शम्या स्थूलबुध्नः काष्ठदण्डः स बलवता क्षिप्तो यावद्दूरं पतेत्तावान्देशः शम्यापातः । तावतान्तरेण पुरःपुरो यज्ञवेदीं कुर्वाणो वसुन्धरां पर्यगच्छत् । परित्यज्य समुद्रतीरं प्राप्त इत्यर्थः ॥ 12-28-97 व्यभजत्पुत्रेभ्यो दत्तवान् ॥ 12-28-101 नृपान्दास्ये योजितवानित्यर्थः ॥ 12-28-102 दक्षिणाः दाक्ष्ययुक्ताः ॥ 12-28-103 सर्वे राजानोऽम्बरीषयज्ञेषु विप्रदास्यं कुर्वाणा अश्वमेधफलभागित्वात्तद्याजिनः सन्तः अम्बरीषमाहात्म्याद्दक्षिणायनम् अनुपश्चात् अयुर्गताः । उत्तरायणमार्गेण हिरण्यगर्भलोकप्राप्ता इत्यर्थः ॥ 12-28-106 शाशबिन्दवाः शशबिन्दोः पुत्राः ॥ 12-28-111 गयं चामूर्तरयसमिति झ. पाठः ॥ 12-28-115 शतमश्वतराणि चेति झ. पाठः ॥ 12-28-117 दशव्यामां पञ्चाशद्धस्तविस्तारां द्विरायतां शतहस्तदीर्घाम् ॥ 12-28-122 उपातिष्ठन्त पितृकार्ये मां नियोजयेति ॥ 12-28-123 तेषां मारितानां पशूनां चर्मराशेः । उत्क्लेदात् सारद्रवात् ॥ 12-28-126 पिठराणि विततमुखानि पात्राणि ॥ 12-28-128 नाद्य मांसं पशुमात्रोपयोगस्य प्रागुक्तत्वात् ॥ 12-28-130 ऐक्ष्वाकम् इक्ष्वाकुवंशजम् ॥ 12-28-134 आदेशेन आज्ञया तद्वित्तं स्वर्णप्रासादरूपम् ॥ 12-28-137 वैन्यं वेनपुत्रम् । महारण्ये दण्डकारण्ये ॥ 12-28-140 पुटकेपुटके पत्रेपत्रे इति प्राञ्चः ॥ 12-28-145 विप्रलप्तं विप्रलपितम् ॥ 12-28-147 विशोको जात इति शेषः ॥