अध्यायः 027 व्यासेन युधिष्ठिरम्प्रत्यश्मजनकसंवादानुवादपूर्वकं क्षात्रधर्मविधानम् ॥ 1 ॥ वैशम्पायन उवाच 001
ज्ञातिशोकाभितप्तस्य प्राणानिष्टांस्त्यजिष्यतः । 001a
ज्येष्ठस्य पाण्डुपुत्रस्य व्यासः शोकमपानुदत् ॥ 001c
व्यास उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
अश्मगीतं नरव्याघ्र तन्निबोध युधिष्ठिर ॥ 002c
अश्मानं ब्राह्मणं प्राज्ञं वैदेहो जनको नृपः । 003a
संशयं परिपप्रच्छ दुःखशोकसमन्वितः ॥ 003c
जनक उवाच 004
आगमे यदि वाऽपाये ज्ञातीनां द्रविणस्य च । 004a
नरेण प्रतिपत्तव्यं कल्याणं कथमिच्छता ॥ 004c
अश्मोवाच 005
उत्पन्नमिममात्मानं नरस्यानन्तरं ततः । 005a
तानितान्यनुवर्तन्ते दुःखानि च सुखानि च ॥ 005c
तेषामन्यतरापत्तौ यद्यदेवोपसेवते । 006a
तदस्य चेतनामाशु हरत्यभ्रमिवानिलः ॥ 006c
अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः । 007a
इत्येभिर्हेतुभिस्तस्य त्रिभिश्चित्तं प्रसिच्यते ॥ 007c
सम्प्रसक्तमना भोगान्विसृज्य पितृसञ्चितान् । 008a
परिक्षीणः परस्वानामादानं साधु मन्यते ॥ 008c
तमतिक्रान्तमर्यादमाददानमसाम्प्रतम् । 009a
प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः ॥ 009c
ये च विंशतिवर्षा वा त्रिंशद्वर्षाश्च मानवाः । 010a
परेण ते वर्षशतान्न भविष्यन्ति पार्थिव ॥ 010c
तेषां परमदुःखानां बुद्ध्या भैषज्यमाचरेत् । 011a
सर्वप्राणभृतां वृत्तं प्रेक्षमाणस्ततस्ततः ॥ 011c
मानसानां पुनर्योनिर्दुःखानां चित्तविभ्रमः । 012a
अनिष्टोपनिपातो वा तृतीयं नोपपद्यते ॥ 012c
एवमेतानि दुःखानि तानि तानीह मानवम् । 013a
विविधान्युपवर्तन्ते तथा संस्पर्शजान्यपि ॥ 013c
जरामृत्यू हि भूतानां खादितारौ वृकाविव । 014a
बलिनां दुर्बलानां च ह्रस्वानां महतामपि ॥ 014c
न कश्चिज्जात्वतिक्रामेज्जरामृत्यू हि मानवः । 015a
अपि सागरपर्यन्तां विजित्येमां वसुन्धराम् ॥ 015c
सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम् । 016a
प्राप्तव्यमवशैः सर्वं परिहारो न विद्यते ॥ 016c
पूर्वे वयसि मध्ये वाऽप्युत्तरे वा नराधिप । 017a
अवर्जनीयास्तेऽर्था वै काङ्क्षिता ये ततोऽन्यथा ॥ 017c
अप्रियैः सह संयोगो विप्रयोगश्च सुप्रियैः । 018a
अर्थानर्थौ सुखं दुःखं विधानमनुवर्तते ॥ 018c
प्रादुर्भावश्च भूतानां देहत्यागस्तथैव च । 019a
प्राप्तिव्यायामयोगश्च सर्वमेतत्प्रतिष्ठितम् ॥ 019c
गन्धवर्णरसस्पर्शा निवर्तन्ते स्वभावतः । 020a
तथैव सुखदुःखानि विधानमनुवर्तते ॥ 020c
आसनं शयनं यानमुत्थानं पानभोजनम् । 021a
नियतं सर्वभूतानां कालेनैव भवत्युत ॥ 021c
वैद्याश्चाप्यातुराः सन्ति बलवन्तश्च दुर्बलाः । 022a
स्त्रीमन्तश्चापरे षण्ढा विचित्रः कालपर्ययः ॥ 022c
कुले जन्म तथा वीर्यमारोग्यं रूपमेव च । 023a
सौभाग्यमुपभोगश्च भवितव्येन लभ्यते ॥ 023c
सन्ति पुत्राः सुबहवो दरिद्राणामनिच्छताम् । 024a
नास्ति पुत्रः समृद्धानां विचित्रं विधिचेष्टितम् ॥ 024c
व्याधिरग्निर्जलं शस्त्रं बुभुक्षाश्चापदो विषम् । 025a
ज्वरश्च मरणं जन्तोरुच्चाच्च पतनं तथा ॥ 025c
निर्याणे यस्य यद्दिष्टं तेन गच्छति सेतुना । 026a
दृश्यते नाप्यतिक्रामन्न निष्क्रान्तोऽथवा पुनः । 026c
दृश्यते चाप्यतिक्रामन्न निग्राह्योऽथवा पुनः ॥ 026e
दृश्यते हि युवैवेह विनश्यन्वसुमान्नरः । 027a
दरिद्रश्च परिक्लिष्टः शतवर्षो जरान्वितः ॥ 027c
अकिञ्चनाश्च दृश्यन्ते पुरुषाश्चिरजीविनः । 028a
समृद्धे च कुले जाता विनश्यन्ति पतङ्गवत् ॥ 028c
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते । 029a
दरिद्राणां तु भूयिष्ठं काष्ठमश्मा हि जीर्यते ॥ 029c
अहमेतत्करोमीति मन्यते कालनोदितः । 030a
यद्यदिष्टमसन्तोषाद्दुरात्मा पापमाचरेत् ॥ 030c
मृगयाक्षाः स्त्रियः पानं प्रसङ्गा निन्दिता बुधैः । 031a
दृश्यन्ते पुरुषाश्चात्र सम्प्रयुक्ता बहुश्रुताः ॥ 031c
इति कालेन सर्वार्थानीप्सितानीप्सितानिह । 032a
स्पृशन्ति सर्वभूतानि निमित्तं नोपलभ्यते ॥ 032c
वायुमाकाशमग्निं च चन्द्रादित्यावहः क्षपे । 033a
ज्योतींषि सरितः शैलान्कः करोति बिभर्ति च ॥ 033c
शीतमुष्णं तथा वर्षं कालेन परिवर्तते । 034a
एवमेव मनुष्याणां सुखदुःखे नरर्षभ ॥ 034c
नौषधानि न शस्त्राणि न होमा न पुनर्जपाः । 035a
त्रायन्ते मृत्युनोपेतं जरया चापि मानवम् ॥ 035c
यथा काष्ठं च काष्ठं च समेयातां महोदधौ । 036a
समेत्य च व्यपेयातां तद्वद्भूतसमागमः ॥ 036c
ये च निष्परुषैरुक्तगीतवाद्यैरुपस्थिताः । 037a
ये चानाथाः परान्नादाः कालस्तेषु समक्रियः ॥ 037c
मातापितृसहस्राणि पुत्रदारशतानि च । 038a
संसारेष्वनुभूतानि कस्य ते कस्य वा वयम् ॥ 038c
नैवास्य कश्चिद्भविता नायं भवति कस्यचित् । 039a
पथि सङ्गतमेवेदं दारबन्धुसुहृज्जनैः ॥ 039c
क्वासे क्व च गमिष्यामि कोऽन्वहं किमिहास्थितः । 040a
कस्मात्किमनुशोचेयमित्येवं स्थापयेन्मनः ॥ 040c
अनित्ये प्रियसंवासे संसारे चक्रवद्गतौ । 041a
पथि सङ्गतमेवैतद्धाता माता पिता सखा ॥ 041c
न दृष्टपूर्वं प्रत्यक्षं परलोकं विदुर्बुधाः । 042a
आगमांस्त्वनतिक्रम्य श्रद्धातव्यं बुभूषता ॥ 042c
कुर्वीत पितृदैवत्यं धर्म्याणि च समाचरेत् । 043a
यजेच्च विद्वान्विधिवत्त्रिवर्गं चाप्युपाचरेत् ॥ 043c
सन्निमज्जेज्जगदिदं गम्भीरे कालसागरे । 044a
जरामृत्युमहाग्राहे न कश्चिदवबुध्यते ॥ 044c
आयुर्वेदमधीयानाः केवलं सपरिग्रहाः । 045a
दृश्यन्ते बहवो वैद्या व्याधिभिः समभिप्लुताः ॥ 045c
ते पिबन्तः कषायांश्च सर्पींषि विविधानि च । 046a
न मृत्युमतिवर्तन्ते वेलामिव महोदधिः ॥ 046c
रसायनविदश्चैव सुप्रयुक्तरसायनाः । 047a
दृश्यन्ते जरया भग्ना नागा नागैरिवोत्तमैः ॥ 047c
तथैव तपसोपेताः स्वाध्यायाध्ययने रताः । 048a
दातारो यज्ञशीलाश्च न तरन्ति जरान्तकौ ॥ 048c
न ह्यहानि निवर्तन्ते न मासा न पुनः समाः । 049a
जातानां सर्वभूतानां न पुनर्वै समागमः ॥ 049c
सोऽयं विपुलमध्वानं कालेन ध्रुवमध्रुवः । 050a
स्रोतसैव समभ्येति सर्वभूतनिषेवितम् ॥ 050c
देहो वा जीविताद्व्येति देही वाऽप्येति देहतः । 051a
पथि सङ्गतमेवेदं दारैरन्यैश्च बन्धुभिः ॥ 051c
नायमत्यन्तसंवासो लभ्यते जातु केनचित् । 052a
अपि स्वेन शरीरेण किमुतान्येन केनचित् ॥ 052c
क्वनु तेऽद्य पिता राजन्क्वनु तेऽद्य पितामहाः । 053a
न त्वं पश्यसि तानद्य न त्वां पश्यन्ति तेऽनघ ॥ 053c
न चैव पुरुषो द्रष्टा स्वर्गस्य नरकस्य च । 054a
आगमस्तु सतां चक्षुर्नृपते तमिहाचर ॥ 054c
चरितब्रह्मचर्यो हि प्रजायेत यजेत च । 055a
पितृदेवमनुष्याणामानृण्यादनसूयकः ॥ 055c
स यज्ञशीलः प्रजने निविष्टः प्राग्ब्रह्मचारी प्रविभक्तभैक्षः । 056a
आराधयेत्स्वर्गमिमं च लोकं परं च मुक्त्वा हृदयव्यलीकम् ॥ 056c
सम्यक्स्वधर्मं चरतो नृपस्य द्रव्याणि चाभ्याहरतो यथावत् । 057a
प्रवृद्धचक्रस्य यशोऽभिवर्धते सर्वेषु लोकेषु चराचरेषु ॥ 057c
इत्येवमाकर्ण्य विदेहराजो वाक्यं समग्रं परिपूर्णहेतु । 058a
अश्मानमामन्त्र्य विशुद्धबुद्धिर्ययौ गृहं स्वं प्रति शान्तशोकः ॥ 058c
तथा त्वमप्यद्य विमुच्य शोकमुत्तिष्ठ शक्रोपम हर्षमेहि । 059a
क्षात्रेण धर्मेण मही जिता ते तां भुङ्क्ष्व कुन्तीसुत मावमंस्थाः ॥ 059c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्तविंशोऽध्यायः ॥ 27 ||

12-27-1 प्राणानभ्युत्सिसृक्षत इति झ. पाठः । तत्र अभ्युत्सिसृक्षतः त्यक्तुमिच्छत इत्यर्थः ॥ 12-27-5 आत्मानं देहम् । उत्पन्नमनु अनन्तरम् अव्यवधानेनैव ॥ 12-27-7 प्रसिच्यते क्लिन्नं श्लथं भवतीत्यर्थः ॥ 12-27-8 भोगान् भोग्यार्थान् धनादीन् विसृज्य आदानं चौर्यं साधु हितम् ॥ 12-27-9 असाम्प्रतमयुक्तम् । लुब्धा व्याधाः ॥ 12-27-10 वर्षशतात् परेण ऊर्ध्वम् ॥ 12-27-11 तेषां दारिद्र्योत्थानभैषज्यं प्रतीकारम् ॥ 12-27-13 संस्पर्शजानि विषयसङ्गजानि ॥ 12-27-17 तेऽर्था जरादयः पदार्थाः । ततोऽन्यथाऽजरत्वादिरूपेण ये मनुष्यस्य काङ्क्षिता इष्टाः ॥ 12-27-18 विधानमदृष्टम् ॥ 12-27-19 प्राप्तिर्लाभो व्यायामः श्रमः । अलाभ इतियावत् । तयोर्योगः प्रतिष्ठितं विधानमित्यनुषज्यते ॥ 12-27-20 फलस्था गन्धादयो निवर्तन्ते पूर्वेपूर्वे उत्तरेउत्तरे उपयान्ति तथैव सुखादीनि अप्रत्याख्येयानि अनुसृत्य वर्तते विद्वान् ॥ 12-27-25 बुभुक्षाः क्षुत्प्रभृतयः ॥ 12-27-31 प्रसङ्गा युद्धविवादादयः । अत्र मृगयादौ ॥ 12-27-37 उपस्थिताः सेविताः । कालो मृत्युः । ये चैव पुरुषाः स्त्रीभिर्गीतवाद्यैरुपस्थिता इति झ. पाठः ॥ 12-27-38 संसारेषु व्यतीतेषु तानि तेषु तदा तदेति ड. थ. पाठः ॥ 12-27-40 स्थापयेद्विचारे इति शेषः ॥ 12-27-47 नागा गजाः । उत्तमैर्बलिष्ठैः ॥ 12-27-52 संवासः सहावस्थानम् ॥ 12-27-55 प्रजायेत पुत्रादीनुत्पादयेत् । आनृण्याद्धेतोः ॥ 12-27-56 प्रजने प्रजोत्पादने । हृदयव्यलीकं हृत्स्थमप्रियम् ॥