अध्यायः 025 व्यासेन युधिष्ठिरम् प्रति सेनजिद्वचनानुवादपूर्वकं राजधर्मकथनम् ॥ 1 ॥ वैशम्पायन उवाच 001
द्वैपायनवचः श्रुत्वा कुपिते च धनञ्जये । 001a
व्यासमामन्त्र्य कौन्तेयः प्रत्युवाच युधिष्ठिरः ॥ 001c
युधिष्ठिर उवाच 002
न पार्थिवमिदं राज्यं न भोगाश्च पृथग्विधाः । 002a
प्रीणयन्ति मनो मेऽद्य शोको मां दारयत्ययम् ॥ 002c
श्रुत्वा वीरविहीनानामपुत्राणां च योषिताम् । 003a
परिदेवयमानानां न शान्तिं मनसा लभे ॥ 003c
इत्युक्तः प्रत्युवाचेदं व्यासो योगविदांवरः । 004a
युधिष्ठिरं महाप्राज्ञो धर्मज्ञो वेदपारगः ॥ 004c
व्यास उवाच 005
न कर्मणा लभ्यते चेज्यया वा नाप्यस्ति दाता पुरुषस्य कश्चित् । 005a
पर्याययोगाद्विहितं विधात्रा कालेन सर्वं लभते मनुष्यः ॥ 005c
न बुद्धिशक्त्याऽऽध्ययनेन शक्यं प्राप्तुं विशेषं मनुजैरकाले । 006a
मूर्खोऽपि चाप्नोति कदाचिदर्थान्कालो हि सर्वं पुरुषस्य दाता ॥ 006c
न भूरकालेषु फलं ददाति शिल्पानि मन्त्राश्च तथौषधानि । 007a
तान्येव कालेन समाहितानि सिद्ध्यन्ति वर्धन्ति च भूतिकाले ॥ 007c
कालेन शीघ्राः प्रवहन्ति वाताः कालेन वृष्टिर्जलदानुपैति । 008a
कालेन पद्मोत्पलवज्जलं च कालेन पुष्यन्ति वनेषु वृक्षाः ॥ 008c
कालेन कृष्णाश्च सिताश्च रात्र्यः कालेन चन्द्रः परिपूर्णबिम्बः । 009a
नाकालतः पुष्पफलं द्रुमाणां नाकालवेगाः सरितो वहन्ति ॥ 009c
नाकालमत्ताः खगपन्नगाश्च मृगद्विपाः शैलमृगाश्च लोके । 010a
नाकालतः स्त्रीषु भवन्ति गर्भा नायन्त्यकाले शिशिरोष्णवर्षाः ॥ 010c
नाकालतो म्रियते जायते वा नाकालतो व्याहरते च बालः । 011a
नाकालतो यौवनमभ्युपैति नाकालतो रोहति बीजमुप्तम् ॥ 011c
नाकालतो भानुरुपैति योगं नाकालतोऽस्तं गिरिमभ्युपैति । 012a
नाकालतो वर्धते हीयते च चन्द्रः समुद्रोऽपि महोर्मिमाली ॥ 012c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 013a
गीतं राज्ञा सेनजिता दुःखार्तेन युधिष्ठिर ॥ 013c
सर्वानेवैष पर्यायो मर्त्यान्स्पृशति दुःसहः । 014a
कालेन परिपक्वा हि म्रियन्ते सर्वपार्थिवाः ॥ 014c
घ्नन्ति चान्यान्नरान्राजंस्तानप्यन्ये तथा नराः । 015a
सञ्ज्ञैषा लौकिकी राजन्न हिनस्ति न हन्यते ॥ 015c
हन्तीति मन्यते कश्चिन्न हन्तीत्यपि चापरः । 016a
स्वभावतस्तु नियतौ भूतानां प्रभवाप्ययौ ॥ 016c
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते । 017a
अहो दुःखमिति ध्यायन्दुःखस्यापचितिं चरेत् ॥ 017c
स किं शोचसि मूढः सञ्शोच्यान्किमनुशोचसि । 018a
पश्य दुःखेषु दुःखानि भयेषु च भयान्यपि ॥ 018c
आत्माऽपि चायं न मम सर्वाऽपि पृथिवी मम । 019a
यथा मम तथाऽन्येषामिति पश्यन्न मुह्यति ॥ 019c
शोकस्थानसहस्राणि हर्षस्थानशतानि च । 020a
दिवसेदिवसे मूढमाविशन्ति न पण्डितम् ॥ 020c
एवमेतानि कालेन प्रियद्वेष्याणि भागशः । 021a
जीवेषु परिवर्तन्ते दुःखानि च सुखानि च ॥ 021c
दुःखमेवास्ति न सुखं तस्मात्तदुपलभ्यते । 022a
तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम् ॥ 022c
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् । 023a
न नित्यं लभते दुःखं न नित्यं लभते सुखम् ॥ 023c
सुखमेव हि दुःखान्तं कदाचिद्दुःखतः सुखम् । 024a
तस्मादेतद्द्वयं जह्याद्य इच्छेच्छाश्वतं सुखम् ॥ 024c
सुखान्तप्रभवं दुःखं दुःखान्तप्रभवं सुखम् । 025a
यन्निमित्तो भवेच्छोकस्तापो वा दुःखमूर्च्छितः । 025c
आयासो वाऽपि यन्मूलस्तदेकाङ्गमपि त्यजेत् ॥ 025e
सुखं वा यदि वा दुःखं प्रियं वा यदि वाऽप्रियम् । 026a
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः ॥ 026c
ईषदप्यङ्ग दाराणां पुत्राणामाचरन्प्रियम् । 027a
ततो ज्ञास्यसि कः कस्य केन वा कथमेव च ॥ 027c
ये च मूढतमा लोके ये च बुद्धेः परं गताः । 028a
त एव सुखमेधन्ते मध्यमः क्लिश्यते जनः ॥ 028c
इत्यब्रवीन्महाप्राज्ञो युधिष्ठिर स सेनजित् । 029a
परावरज्ञो लोकस्य धर्मवित्सुखदुःखवित् ॥ 029c
परदुःखेन दुःखी यो न स जातु सुखी भवेत् । 030a
दुःखानां हि क्षयो नास्ति जायते ह्यपरात्परम् ॥ 030c
सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च । 031a
पर्यायतः सर्वमवाप्तुवन्ति तस्मान्न मुह्येन्न च सम्प्रहृष्येत् ॥ 031c
दीक्षां राज्ञां संयुगे धर्ममाहुर्योगं राज्ये दण्डनीतिं च सम्यक् । 032a
वित्तत्यागं दक्षिणां चैव यज्ञे सम्यग्दानं पावनानीति विद्यात् ॥ 032c
रक्षन्राज्यं बुद्धिपूर्वं नयेन सन्त्यक्तात्मा यज्ञशीलो महात्मा । 033a
सर्वाल्ँलोकान्धर्मदृष्ट्यावलोकन्नूर्ध्वं देहान्मोदते देवलोके ॥ 033c
जित्वा सङ्ग्रामान्पालयित्वा च राष्ट्रं सोमं पीत्वा वर्धयित्वा प्रजाश्च । 034a
युक्त्या दण्डं धारयित्वा प्रजानां पश्चात्क्षीणायुर्मोदते देवलोके ॥ 034c
'यजन्ति यज्ञान्विजयन्ति राज्यं रक्षन्ति राष्ट्राणि प्रियाणि चैषाम् ।' 035a
सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य सम्यग्राज्यं पालयित्वा च राजा । 035c
चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे पूतात्मा वै मोदते देवलोके ॥ 035e
यस्य वृत्तं नमस्यन्ति स्वर्गस्थस्यापि मानवाः । 036a
पौरजानपदामात्याः स राजा राजसत्तमः ॥ 036c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चविंशोऽध्यायः*॥ 25 ॥

12-25-1 कुपिते राज्यकारणात् ॥ 12-25-3 वीरविहीनानां पतिहीनानाम् ॥ 12-25-5 नलभ्यते वीरो हतवीराभिर्वीरपत्नीभिरित्यर्थः । नापि ताभ्यः कश्चित्पतिं दातुं समर्थोऽस्तीत्यर्थः ॥ 12-25-7 नाभूतिकालेष्विति झ. पाठः ॥ 12-25-8 पुष्प्यन्तीति ड. पाठः ॥ 12-25-14 पर्यायः कालगतिः ॥ 12-25-17 अपचितिं प्रतीकारम् ॥ 12-25-18 दुःखेषु शोकजेषु मनस्तापेषु । दुःखानि शिरस्ताडनादीनि । दुःखादेर्द्विगुणीकरणं मूढकार्यमित्यर्थः ॥ 12-25-21 यानि प्रियाणि तान्येव काले दुःखानि भवन्ति । यानि द्वेष्याणि तान्येव सुखानि ॥ 12-25-22 तृष्णया याऽऽर्तिरनवस्थितचित्तता तज्जं दुःखम् । दुःखस्यार्तिर्विनाशस्तज्जं सुखम् ॥ 12-25-25 दुःखमूर्छितः दुःखेन वर्धितः । एकाङ्गमपि सर्पदष्टाङ्गुष्ठवत् त्यजेत् ॥ 12-25-27 केन हेतुना कथं केन प्रकारेण कस्य सम्बन्धीति ज्ञास्यति ॥ 12-25-31 भवाभवौ ऐश्वर्यानैश्वर्ये ॥ 12-25-33 सन्त्यक्तात्मा निरहङ्कारः ॥

  • एतदनन्तरम् एकोऽध्यायः ध. पाठेऽधिको दृश्यते । [वैशम्पायन उवाच 001
    अस्मिन्नेव प्रकरणे धनञ्जयमुदारधीः । 001
    अभिनीततरं वाक्यमित्युवाच युधिष्ठिरः ॥ 001
    यदेतन्मन्यसे पार्थ न ज्यायोऽस्ति धनादिति । 002
    न स्वर्गो न सुखं नार्थो निर्धनस्येति तन्मृषा ॥ 002
    स्वाध्याययज्ञसंसिद्धा दृश्यन्ते बहवो जनाः । 003
    तपोरताश्च मुनयो येषां लोकाः सनातनाः ॥ 003
    ऋषीणां समयं शश्वद्ये रक्षन्ति धनञ्जय । 004
    आश्रिताः सर्वधर्मज्ञा देवास्तान्ब्राह्मणान्विदुः ॥ 004
    स्वाध्यायनिष्ठान्हि ऋषीञ्ज्ञाननिष्ठांस्तथाऽपरान् । 005
    बुद्ध्येथाः सन्ततं चापि धर्मनिष्ठान्धनञ्जय ॥ 005
    ज्ञाननिष्ठेषु कार्याणि प्रतिष्ठाप्यानि पाण्डव । 006
    वैखानसानां वचनं यथा नो विदितं प्रभो ॥ 006
    अजाश्च पृश्नयश्चैव सिकताश्चैव भारत । 007
    अरुणाः केतवश्चैव स्वाध्यायेन दिवं गताः ॥ 007
    अवाप्यैतानि कर्माणि वेदोक्तानि धनञ्जय । 008
    दानमध्ययनं यज्ञो निग्रहश्चैव दुर्ग्रहः ॥ 008
    दक्षिणेन च पन्थानमर्यम्णो ये दिवं गताः । 009
    एतान्क्रियावतां लोकानुक्तवान्पूर्वमप्यहम् ॥ 009
    उत्तरेण तु पन्थानं नियमाद्यं प्रपश्यसि । 010
    एते यागवतां लोका भान्ति पार्थ सनातनाः ॥ 010
    तत्रोत्तरां गतिं पार्थ प्रशंसन्ति पुराविदः । 011
    सन्तोषो वै स्वर्गतमः सन्तोषः परमं सुखम् ॥ 011
    तुष्टेर्न किञ्चित्परमं सा सम्यक् प्रतितिष्ठति । 012
    विनीतक्रोधहर्षस्य, सततं सिद्धिरुत्तमा ॥ 012
    अत्राप्युदाहरन्तीमां गाथां गीतां ययातिना । 013
    योऽभिप्रेत्याहरेत्कामान्कूर्मोऽङ्गानीव सर्वशः ॥ 013
    यदा चायं न बिभेति यदा चास्मान्न बिभ्यति । 014
    यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ॥ 014
    यदा न भावं कुरुते सर्वभूतेषु पापकम् । 015
    कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥ 015
    विनीतमानमोहश्च बहुसङ्गविवर्जितः । 016
    तदात्मज्योतिषः साधो निर्वाणमुपपद्यते ॥ 016
    इदं तु शृणु मे पार्थ ब्रुवतः संयतेन्द्रियः । 017
    धर्ममन्ये वृत्तमन्ये धनमीहन्ति चापरे ॥ 017
    धनहेतोर्य ईहेत तस्यानीहा गरीयसी । 018
    भूयान्दोषो हि वित्तस्य यश्च धर्मस्तदाश्रयः ॥ 018
    प्रत्यक्षमनुपश्यामि त्वमपि द्रष्टुमर्हसि । 019
    वर्जनं वर्जनीयानामीहमानेन दुष्करम् ॥ 019
    ये वित्तमभिपद्यन्ते सम्यक्त्वं तेषु दुर्लभम् । 020
    द्रुह्यतः प्रैति तत्प्राहुः प्रतिकूलं यथातथम् ॥ 020
    यस्तु सम्भिन्नवृत्तः स्याद्वीतशोकभयो नरः । 021
    अल्पेन तृषितो द्रुह्यन् भ्रूणहत्यां न बुध्यते ॥ 021
    दुष्यन्त्याददतो भृत्या नित्यं दस्युभयादिव । 022
    दुर्लभं च धनं प्राप्य भृशं दत्वाऽनुतप्यते ॥ 022
    अधनः कस्य किं वाच्यो विमुक्तः सर्वशः सुखी । 023
    देवस्वमुपगृह्यैव धनेन न सुखी भवेत् ॥ 023
    तत्र गाथां यज्ञगीतां कीर्तयन्ति पुराविदः । 024
    त्रयीमुपाश्रितां लोके यज्ञसंस्तरकारिकाम् ॥ 024
    यज्ञाय सृष्टानि धनानि धात्रा यज्ञाय सृष्टः पुरुषो रक्षिता च । 025
    तस्मात्सर्वं यज्ञ एवोपयोज्यं धनं न कामाय हितं प्रशस्तम् ॥ 025
    एतत्स्वार्थे च कौन्तेय धनं धनवतां वर । 026
    धाता ददाति मर्त्येभ्यो यज्ञार्थमिति विद्धि तत् ॥ 026
    तस्माद्बुद्ध्यन्ति पुरुषा न हि तत्कस्यचिद्ध्रुवम् । 027
    श्रद्दधानस्ततो लोको दद्याच्चैव यजेत च ॥ 027
    लब्धस्य त्यागमित्याहुर्न भोगं न च सङ्क्षयम् । 028
    तस्य किं सञ्चयेनार्थः कार्ये ज्यायसि तिष्ठति ॥ 028
    ये स्वधर्मादपेतेभ्यः प्रयच्छन्त्यल्पबुद्धयः । 029
    शतं वर्षाणि ते प्रेत्य पुरीषं भुञ्जते जनाः ॥ 029
    अनर्हते यद्ददाति न ददाति यदर्हते । 030
    अर्हानर्हापरिज्ञानाद्दानधर्मोऽपि दुष्करः ॥ 030
    लब्धानामपि वित्तानां बोद्धव्यौ द्वावतिक्रमौ । 031
    अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् ॥] 031

12-25-4 समयम् अध्ययनसम्प्रदायस्याविच्छेदम् आश्रिता आश्रमिणः । ब्रह्मचारिण इत्यर्थः ॥ 12-25-6 कार्याणि राजकार्याणि । प्रतिष्ठाप्यानि तद्वचसानुष्ठेयानीत्यर्थः । वैखानसानां वानप्रस्थानाम् ॥ 12-25-7 अजादयो वालखिल्यवदृषीणां गणविशेषाः ॥ 12-25-9 एतान् द्युरूपान् । क्रियावतां कर्मिणाम् ॥ 12-25-10 उत्तरेण उत्तरतः स्थितम् ॥ 12-25-12 सा तुष्टिः परमवैराग्याभिधा उत्तमा सिद्धिः । विनीतक्रोधहर्षस्य क्रोधादिजयिनः सम्यक् प्रतितिष्ठति इतरस्य तु नेत्यर्थः ॥ 12-25-16 आत्मज्योतिषः आत्मज्ञस्य । निर्वाणं मोक्षः ॥ 12-25-17 वृत्तं शीलम् । ईहन्ति ईहन्ते ॥ 12-25-18 धनहेतोः धर्माय वित्तस्यार्जने इति शेषः । तदाश्रयो धर्मो यज्ञादिस्तस्मिन्नपि भूयान्दोषोऽस्ति ॥ 12-25-19 ईहमानेन धनार्थिना ॥ 12-25-20 सम्यक्त्वं साधुकर्म द्रुह्यतः । द्रोहयुक्तानेव तद्धनं प्रेति न त्वद्रोहानिति प्राहुः । हिंसां विना धनप्राप्तिर्नास्तीत्यर्थः । प्राप्तमपि यथायथं सर्वथा प्रतिकूलं नानाभयहेतुत्वात् ॥ 12-25-21 अल्पार्थेऽपि ब्रह्महत्यामर्जयतीत्यर्थः ॥ 12-25-22 दुर्लभं धनं प्राप्यानुकूलेभ्योऽपि भृत्येभ्यो दत्त्वा दस्युभयादिव भृशमनुतप्यत इति सम्बन्धः । वित्तव्यये महद्दुःखं भवतीत्यर्थः ॥ 12-25-23 देवस्वं तथा त्रैवार्षिकाधिकान्नो यः सहि सोमं पिबेद्द्विजः । प्राक्सौमिकीः क्रियाः कुर्याद्यस्यान्नं वार्षिकं भवेदिति स्मृतेरल्पमपि सञ्चितं धनं देवस्वमेव । तदप्युपसङ्गृह्य देवेभ्योऽदत्त्वैव न तेन तावतापि सुखी भवेत्किं तु लाभाल्लोभः प्रवर्तत इतिन्यायेन तृष्णाधिक्याद्दुःखमेवानुभवतीत्यर्थः ॥ 12-25-24 गाथां वैदिकजने यज्ञप्रतिष्ठाकरीम् ॥ 12-25-26 चाद्यज्ञार्थेऽपि ॥ 12-25-28 इत्याहुः प्रशस्तमाहुरित्यर्थः । कार्ये त्यागरूपे ॥