अध्यायः 024 व्यासेन युधिष्ठिरम् प्रति राजधर्मकथनपूर्वकं राज्यपालनचोदना ॥ 1 ॥ वैशम्पायन उवाच 001
पुनरेव महर्षिस्तं कृष्णद्वैपायनोऽर्थवत् । 001a
अजातशत्रुं कौन्तेयमिदं वचनमब्रवीत् ॥ 001c
अरण्ये वसतां तात भ्रातॄणां ते मनिस्विनाम् । 002a
मनोरथा महाराज ये तत्रासन्युधिष्ठिर ॥ 002c
तानि मे भरतश्रेष्ठ प्राप्नुवन्तु महारथाः । 003a
प्रशाधि पृथिवीं पार्थ ययातिरिव नाहुषः ॥ 003c
अरण्ये दुःखवसतिरनुभूता तपस्विभिः । 004a
दुःखस्यान्ते नरव्याघ्र सुखान्यनुभवन्तु वै ॥ 004c
धर्ममर्थं च कामं च भ्रातृभिः सह भारत । 005a
अनुभूय ततः पश्चात्प्रस्थाताऽसि विशाम्पते ॥ 005c
अर्थिनां च पितॄणां च देवतानां च भारत । 006a
आनृण्यं गच्छ कौन्तेय ततः स्वर्गं गमिष्यसि ॥ 006c
सर्वमेधाश्वमेधाभ्यां यजस्व कुरुनन्दन । 007a
ततः पश्चान्महाराज गमिष्यसि परां गतिम् ॥ 007c
भ्रातॄंश्च सर्वान्क्रतुभिः संयोज्य बहुदक्षिणैः । 008a
सम्प्राप्तः कीर्तिमतुलां पाण्डवेय गमिष्यसि ॥ 008c
विद्मस्ते पुरुषव्याघ्र वचनं कुरुसत्तम । 009a
शृणुष्वैवं यथा कुर्वन्न धर्माच्च्यवसे नृप ॥ 009c
आददानस्य विजयं विग्रहं च युधिष्ठिर । 010a
समानधर्मकुशलाः स्थापयन्ति नरेश्वर ॥ 010c
'प्रत्यक्षमनुमानं च उपमानं तथाऽऽगमः । 011a
अर्थापत्तिस्तथैतिह्यं संशयो निर्णयस्तथा ॥ 011c
आकार इङ्गितं चैव गतिश्चेष्टा च भारत । 012a
प्रतिज्ञा चैव हेतुश्च दृष्टान्तोपनयस्तथा ॥ 012c
उक्तिर्निगमनं तेषां प्रमेयं च प्रयोजनम् । 013a
एतानि साधनान्याहुर्बहुवर्गप्रसिद्धये ॥ 013c
प्रत्यक्षमनुमानं च सर्वेषां योनिरुच्यते । 014a
प्रमाणज्ञो हि शक्नोति दण्डयोनौ विचक्षणः । 014c
अप्रमाणवता नीतो दण्डो हन्यान्महीपतिम् ॥ 014e
देशकालप्रतीक्षी यो दस्यून्मर्षयते नृपः । 015a
शास्त्रजां बुद्धिमास्थाय युज्यते नैनसा हि सः ॥ 015c
आदाय बलिषड्भागं यो राष्ट्रं नाभिरक्षति । 016a
प्रतिगृह्णाति तत्पापं चतुर्थांशेन भूमिपः ॥ 016c
निबोध च यथाऽऽतिष्ठन्धर्मान्न च्यवते नृपः । 017a
निग्रहाद्धर्मशास्त्राणामनुरुद्ध्यन्नपेतभीः । 017c
कामक्रोधावनादृत्य पितेव समदर्शनः ॥ 017e
दैवेनाभ्याहतो राजा कर्मकाले महाद्युते । 018a
न साधयति यत्कर्म न तत्राहुरतिक्रमम् ॥ 018c
तरसा बुद्धिपूर्वं वा निग्राह्या एव शत्रवः । 019a
पापैः सह न सन्दध्याद्राज्यं पुण्यं च कारयेत् ॥ 019c
शूराश्चार्याश्च सत्कार्या विद्वांसश्च युधिष्ठिर । 020a
गोमिनो धनिनश्चैव परिपाल्या विशेषतः ॥ 020c
व्यवाहरेषु धर्मेषु योक्तव्याश्च बहुश्रुताः । 021a
'प्रमाणज्ञा महीपाल न्यायशास्त्रावलम्बिनः ॥ 021c
वेदार्थतत्त्वविद्राजंस्तर्कशास्त्रबहुश्रुताः । 022a
मन्त्रे च व्यवहारे च नियोक्तव्या विजानता ॥ 022c
तर्कशास्त्रकृता बुद्धिर्धर्मशास्त्रकृता च या । 023a
दण्डनीतिकृता चैव त्रैलोक्यमपि साधयेत् ॥ 023c
नियोज्या वेदतत्त्वज्ञा यज्ञकर्मसु पार्थिव । 024a
वेदज्ञा ये च शास्त्रज्ञास्ते च राजन्सुबुद्धयः ॥ 024c
आन्वीक्षकीत्रयीवार्तादण्डनीतिषु पारगाः । 025a
ते तु सर्वत्र योक्तव्यास्ते च बुद्धेः परं गताः ॥' 025c
गुणयुक्तेऽपि नैकस्मिन्विश्वसेत विचक्षणः ॥ 026ac
अरक्षिता दुर्विनीतो मानी स्तब्धोऽभ्यसूयकः । 027a
एनसा युज्यते राजा दुर्दान्त इति चोच्यते ॥ 027c
ये रक्ष्यमाणा हीयन्ते दैवेनाभ्याहता नृप । 028a
तस्करैश्चापि हीयन्ते सर्वं तद्राजकिल्बिषम् ॥ 028c
सुमन्त्रिते सुनीते च सर्वतश्चोपपादिते । 029a
पौरुषे कर्मणि कृते नास्त्यधर्मो युधिष्ठिर ॥ 029c
विच्छिद्यन्ते समारब्धाः सिद्ध्यन्ते चापि दैवतः । 030a
कृते पुरुषकारे तु नैनः स्पृशति पार्थिवम् ॥ 030c
अत्र ते राजशार्दूल वर्तयिष्ये कथामिमाम् । 031a
यद्वृत्तं पूर्वराजर्षेर्हयग्रीवस्य पाण्डव ॥ 031c
शत्रून्हत्वा हतस्याजौ शूरस्याक्लिष्टकर्मणः । 032a
असहायस्य सङ्ग्रामे निर्जितस्य युधिष्ठिर ॥ 032c
यत्कर्म वै निग्रहे शात्रवाणां योगश्चाग्र्यः पालने मानवानाम् । 033a
कृत्वा कर्म प्राप्य कीर्तिं स युद्धाद्वाजिग्रीवो मोदते स्वर्गलोके ॥ 033c
सन्त्यक्तात्मा समरेष्वाततायी शस्त्रैश्छिन्नो दस्युभिर्वध्यमानः । 034a
अश्वग्रीवः कर्मशीलो महात्मा संसिद्धार्थो मोदते स्वर्गलोके ॥ 034c
धनुर्यूपो रशना ज्या शरः स्रुक्स्रुवः खड्गो रुधिरं यत्र चाज्यम् । 035a
रथो वेदी कामजो युद्धमग्निश्चातुर्होत्रं चतुरो वाजिमुख्याः ॥ 035c
हुत्वा तस्मिन्यज्ञवह्नावथारीन्पापान्मुक्तो राजसिंहस्तरस्वी । 036a
प्राणान्हुत्वा चावभृथे रणे स वाजिग्रीवो मोदते देवलोके ॥ 036c
राष्ट्रं रक्षन्बुद्धिपूर्वं नयेन सन्त्यक्तात्मा यज्ञशीलो महात्मा । 037a
सर्वांल्लोकान्व्याप्य कीर्त्या मनस्वी वाजिग्रीवो मोदते देवलोके ॥ 037c
दैवीं सिद्धिं मानुषीं दण्डनीतिं योगन्यासैः पालयित्वा महीं च । 038a
तस्माद्राजा धर्मशीलो महात्मा वाजिग्रीवो मोदते देवलोके ॥ 038c
विद्वांस्त्यागी श्रद्दधानः कृतज्ञस्त्यक्त्वा लोकं मानुषं कर्म कृत्वा । 039a
मेधाविनां विदुषां सम्मतानां तनुत्यजां लोकमाक्रम्य राजा ॥ 039c
सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य सम्यग्राज्यं पालयित्वा महात्मा । 040a
चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे वाजिग्रीवो मोदते देवलोके ॥ 040c
जित्वा सङ्ग्रामान्पालयित्वा प्रजाश्च सोमं पीत्वा तर्पयित्वा द्विजाग्र्यान् । 041a
युक्त्या दण्डं धारयित्वा प्रजानां युद्धे क्षीणे मोदते देवलोके ॥ 041c
वृत्तं यस्य श्लाघनीयं मनुष्याः सन्तो विद्वांसोऽर्हयन्त्यर्हणीयम् । 042a
स्वर्गं जित्वा वीरलोकानवाप्य सिद्धिं प्राप्तः पुण्यकीर्तिर्महात्मा ॥ 042c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुविंशोऽध्यायः ॥ 24 ॥

12-24-1 वचनं हिंसाप्रधानः क्षत्रधर्मो मे मास्त्वित्येवंरूपम् ॥ 12-24-10 आददानस्य परस्वापहर्तुः । समानधर्मः अविषमो धर्मस्तत्र कुशलाः स्थापयन्ति अवश्यकर्तव्यतया व्यवस्थापयन्ति ॥ 12-24-15 मर्षयते दस्यूनपि न हन्ति । एनसा तज्जेन पापेन ॥ 12-24-17 धर्मशास्त्राणां निग्रहादतिलङ्घनाज्जातादधर्माद्धेतोश्च्यवते । तानि अनुरुध्यन्नपेतभीश्च भवति ॥ 12-24-19 राष्ट्रपण्यं न कारयेति ड. थ. पाठः ॥ 12-24-20 गोमिनो गोमन्तः ॥ 12-24-27 स्तब्धो मान्यानमानयन् । अभ्यसूयको गुणेषु दोषदृष्टिः ॥ 12-24-28 दैवेन अवर्षणादिना ॥ 12-24-33 यत्कर्म कर्तव्यं तत्कर्म कृत्वेति सम्बन्धः ॥ 12-24-35 कामजः क्रोधो युद्धमूलभूतोऽग्निः । चातुर्होत्रं ब्रह्माद्याः ऋत्विजः चतुरश्चत्वारः ॥ 12-24-37 सन्त्यक्तात्मा त्यक्ताहङ्कारः ॥ 12-24-38 योगः क्रियायामुत्साहो न्यासा अभिमानत्यागास्तैर्युक्तां दैवीं सिद्धिं यज्ञादिक्रियामन्यदीयां मानुषीं च सिद्धिं दण्डनीतिं महीं च पालयित्वेति योजना । स्वयं च यज्ञशीलः ॥ 12-24-39 मानुषं लोकमिति सम्बन्धः । तनुत्यजां प्रयागादौ ॥