अध्यायः 023
व्यासेन युधिष्ठिरम् प्रति शङ्खलिखितोपाख्यानकथनपूर्वकं क्षात्रधर्मस्वीकरणचोदना ॥ 1 ॥
वैशम्पायन उवाच 001
एवमुक्तस्तु कौन्तेयो गुडाकेशेन भारत । 001a
नोवाच किञ्चित्कौरव्यस्ततो द्वैपायनोऽब्रवीत् ॥ 001c
व्यास उवाच 002
बीभत्सोर्वचनं सौम्य सत्यमेतद्युधिष्ठिर । 002a
शास्त्रदृष्टः परो धर्मः स्मृतो गार्हस्थ्य आश्रमः ॥ 002c
स्वधर्मं चर धर्मज्ञ यथाशास्त्रं यथाविधि । 003a
न हि गार्हस्थ्यमुत्सृज्य तवारण्यं विधीयते ॥ 003c
गृहस्थं हि सदा देवाः पितरोऽतिथयस्तथा । 004a
भृत्याश्चैवोपजीवन्ति तान्भरस्व महीपते ॥ 004c
वयांसि पशवश्चैव भूतानि च जनाधिप । 005a
गृहस्थैरेव धार्यन्ते तस्माच्छ्रेष्ठो गृहाश्रमी ॥ 005c
सोऽयं चतुर्णामेतेषामाश्रमाणां दुराचरः । 006a
तं चराद्य विधिं पार्थ दुश्चरं दुर्बलेन्द्रियैः ॥ 006c
वेदज्ञानं च ते कृत्स्नं तपश्चाचरितं महत् । 007a
पितृपैतामहं राज्यं धुर्यवद्वोद्दुमर्हसि ॥ 007c
तपो यज्ञस्तथा विद्या भैक्ष्यमिन्द्रियसंयमः । 008a
ध्यानं विद्या समुत्थानं सन्तोषश्च श्रियं प्रति । 008c
तथा ह्येकान्तशीलत्वं तुष्टिर्दानं च शक्तितः ॥ 008e
ब्राह्मणानां महाराज चेष्टा संसिद्धिकारिका । 009a
क्षत्रियाणां तु वक्ष्यामि तवापि विदितं पुनः ॥ 009c
यज्ञो विद्या समुत्थानमसन्तोषः श्रियं प्रति । 010a
दण्डधारणमुग्रत्वं प्रजानां परिपालनम् ॥ 010c
वेदज्ञानं तथा कृत्स्नं तपः सुचरितं तथा । 011a
द्रविणोपार्जनं भूरि पात्रे च प्रतिपादनम् ॥ 011c
एतानि राज्ञां कर्माणि सुकृतानि विशाम्पते । 012a
इमं लोकममुं चैव साधयन्तीति नः श्रुतम् ॥ 012c
एषां ज्यायस्तु कौन्तेय दण्डधारणमुच्यते । 013a
बलं हि क्षत्रिये नित्यं बले दण्डः समाहितः ॥ 013c
एताश्चेष्टाः क्षत्रियाणां राजन्संसिद्धिकारिकाः । 014a
अपि गाथामिमां चापि बृहस्पतिरगायत ॥ 014c
भूमिरेतौ निगिरति सर्पो बिलशयानिव । 015a
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ 015c
सुद्युम्नश्चापि राजर्षिः श्रूयते दण्डधारणात् । 016a
प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा ॥ 016c
युधिष्ठिर उवाच 017
भगवन्कर्मणा केन सुद्युम्नो वसुधाधिपः । 017a
संसिद्धिं परमां प्राप्तः श्रोतुमिच्छामि तं नृपम् ॥ 017c
व्यास उवाच 018
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 018a
शङ्खश्च लिखितश्चास्तां भ्रातरौ संशितव्रतौ ॥ 018c
तयोरावसथावास्तां रमणीयौ पृथक्पृथक् । 019a
नित्यपुष्पफलैर्वृक्षैरुपेतौ बाहुदामनु ॥ 019c
ततः कदाचिल्लिखितः शङ्खस्याश्रममागतः । 020a
यदृच्छयाऽथ शङ्खोपि निष्क्रान्तोऽभवदाश्रमात् ॥ 020c
सोऽभिगम्याश्रमं भ्रातुश्चङ्क्रमल्ँलिखितस्तदा । 021a
फलानि शातयामास सम्यक्परिणतान्युत ॥ 021c
तान्युपादाय विस्रब्धो भक्षयामास स द्विजः । 022a
तस्मिंश्च भक्षयत्येव शङ्खोऽप्याश्रममागतः ॥ 022c
भक्षयन्तं तु तं दृष्ट्वा शङ्खो भ्रातरमब्रवीत् । 023a
कुतः फलान्यवाप्तानि हेतुना केन खादसि ॥ 023c
सोऽब्रवीद्भ्रातरं ज्येष्ठमुपसृत्याभिवाद्य च । 024a
इत एव गृहीतानि मयेति प्रहसन्निव ॥ 024c
तमब्रतीत्तथा शङ्खस्तीव्ररोषसमन्वितः । 025a
स्तेयं त्वया कृतमिदं फलान्याददता स्वयम् ॥ 025c
गच्छ राजानमासाद्य स्वकर्म कथयस्व वै । 026a
अदत्तादानमेवं हि कृतं पार्थिवसत्तम ॥ 026c
स्तेनं मां त्वं विदित्वा च स्वधर्ममनुपालय । 027a
शीघ्रं धारय चोरस्य मम दण्डं नराधिप ॥ 027c
इत्युक्तस्तस्य वचनात्सुद्युम्नं स नराधिपम् । 028a
अभ्यगच्छन्महाबाहो लिखितः संशितव्रतः ॥ 028c
सुद्युम्नस्त्वन्तपालेभ्यः श्रुत्वा लिखितमागतम् । 029a
अभ्यगच्छत्सहामात्यः पद्भ्यामेव जनेश्वरः ॥ 029c
तमब्रवीत्समागम्य स राजा धर्मवित्तमम् । 030a
किमागमनमाचक्ष्व भगवन्कृतमेव तत् ॥ 030c
एवमुक्तः स विप्रर्षिः सुद्युम्नमिदमब्रवीत् । 031a
प्रतिश्रुत्य करिष्येति श्रुत्वा तत्कर्तुमर्हसि ॥ 031c
अनिसृष्टानि गुरुणा फलानि मनुजर्षभ । 032a
भक्षितानि महाराज तत्र मां शाधि माचिरम् ॥ 032c
सुद्युम्न उवाच 033
प्रमाणं चेन्मतो राजा भवतो दण्डधारणे । 033a
अनुज्ञायामपि तथा हेतुः स्याद्ब्राह्मणर्षभ ॥ 033c
स भवानभ्यनुज्ञातः शुचिकर्मा महाव्रतः । 034a
ब्रूहि कामानतोऽन्यांस्त्वं करिष्यामि हि ते वचः ॥ 034c
व्यास उवाच 035
सञ्छन्द्यमानो ब्रह्मर्षिः पार्थिवेन महात्मना । 035a
नान्यं स वरयामास तस्माद्दण्डादृते वरम् ॥ 035c
ततः स पृथिवीपालो लिखितस्य महात्मनः । 036a
करौ प्रच्छेदयामास धृतदण्डो जगाम सः ॥ 036c
स गत्वा भ्रातरं शङ्खमार्तरूपोऽब्रवीदिदम् । 037a
धृतदण्डस्य दुर्बुद्धेर्भवांस्तत्क्षन्तुमर्हति ॥ 037c
शङ्ख उवाच 038
न कुप्ये तव धर्मज्ञ न त्वं दूषयसे मम । 038a
'सुनिर्मलं कुलं ब्रह्मन्नस्मिञ्जगति विश्रुतम् ।' 038c
धर्मस्तु ते व्यतिक्रान्तस्ततस्ते निष्कृतिः कृता ॥ 038e
त्वं गत्वा बाहुदां शीघ्रं तर्पयस्व यथाविधि । 039a
देवानृषीन्पितॄंश्चैव मा चाधर्मे मनः कृथाः ॥ 039c
'ब्रह्महत्यां सुरापानं स्तेयं गुर्वङ्गनागमम् । 040a
महान्ति पातकान्याहुः संयोगं चैव तैः सह ॥ 040c
न स्तेयसदृशं ब्रह्मन्महापातकमस्ति हि । 041a
जगत्यस्मिन्महाभाग ब्रह्महत्यासमं हि तत् ॥ 041c
सर्वपातकिनां ब्रह्मन्दण्डः शारीर उच्यते । 042a
तस्करस्य विशेषेण नान्यो दण्डो विधीयते ॥ 042c
ब्राह्मणः क्षत्रियो वाऽपि वैश्यः शूद्रोऽथवा द्विज । 043a
सर्वे कामकृते पापे हन्तव्या न विचारणा ॥ 043c
राजभिर्धृतदण्डा वै कृत्वा पापानि मानवाः । 044a
निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ 044c
उद्धृतं नः कुलं ब्रह्मन्नाज्ञादण्डे धृते त्वयि ॥' 045ac
तस्य तद्वचनं श्रुत्वा शङ्खस्य लिखितस्तदा । 046a
अवगाह्यापगां पुण्यामुदकार्थं प्रचक्रमे ॥ 046c
प्रादुरास्तां ततस्तस्य करौ जलजसन्निभौ । 047a
ततः स विस्मितो भ्रातुर्दर्शयामास तौ करौ ॥ 047c
ततस्तमब्रवीच्छङ्खस्तपसेदं कृतं मया । 048a
मा च तेऽव विशङ्का भूद्दैवमत्र विधीयते ॥ 048c
लिखित उवाच 049
किन्तु नाहं त्वया पूतः पूर्वमेव महाद्युते । 049a
यस्य ते तपसो वीर्यमीदृशं द्विजसत्तम ॥ 049c
शङ्ख उवाच 050
एवमेतन्मया कार्यं नाहं दण्डधरस्तव । 050a
स च पूतो नरपतिस्त्वं चापि पितृभिः सह ॥ 050c
व्यास उवाच 051
स राजा पाण्डवश्रेष्ठ श्रेयान्वै तेन कर्मणा । 051a
प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा ॥ 051c
एष धर्मः क्षत्रियाणां प्रजानां परिपालनम् । 052a
उत्पथेभ्यो महाराज मा स्म शोके मनः कृथाः ॥ 052c
भ्रातुरस्य हितं वाक्यं शृणु धर्मज्ञसत्तम । 053a
दण्ड एव हि राजेन्द्र क्षत्रधर्मो न मुण्डनम् ॥ 053c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्रयोविंशोऽध्यायः ॥ 23 ||
12-23-2 गार्हस्थ्यः गृहस्थस्यायं गार्हस्थ्यः ॥ 12-23-15 बिलशयान्मूषिकान् । अप्रवासिनं गृहादिसङ्गिनम् । सर्पो बिलशयाविवेति ड. थ. पाठः ॥ 12-23-19 बाहुदां नदीमनु तत्समीपे ॥ 12-23-21 शङ्खस्य लिखितस्तदेति झ. पाठः ॥ 12-23-24 उपस्पृश्याभिवाद्य चेति ड. थ. पाठः ॥ 12-23-26 हे पार्थिवसत्तम मया अदत्तादानं कृतमित्यस्मै राज्ञे कथयस्वेति सम्बन्धः ॥ 12-23-29 अन्तपालेभ्यो द्वारपालेभ्यः ॥ 12-23-31 करिष्येतीति सन्धिरार्षः ॥ 12-23-32 अनिसृष्टान्यदत्तानि । गुरुणा ज्येष्ठभ्रात्रा ॥ 12-23-33 यथा दण्डधारणे राजा प्रमाणं तथाऽनुज्ञायां हेतुः प्रमाणम् ॥ 12-23-34 शुचिकर्मा मदनुज्ञयैव शोधितदोषः ॥ 12-23-38 मम माम् निष्कृतिः प्रायश्चित्तम् ॥ 12-23-46 उदकस्यार्थं प्रयोजनम् आचमनादि कर्तुमिति शेषः ॥