अध्यायः 022
युधिष्ठिरम्प्रत्यर्जुनवचनम् ॥ 1 ॥
वैशम्पायन उवाच 001
अस्मिन्नेवान्तरे वाक्यं पुनरेवार्जुनोऽब्रवीत् । 001a
निर्विण्णमनसं ज्येष्ठमिदं भ्रातरमच्युतम् ॥ 001c
क्षत्रधर्मेण धर्मज्ञ प्राप्य राज्यं सुदुर्लभम् । 002a
जित्वा चारीन्नरश्रेष्ठ तप्यते किं भृशं भवान् ॥ 002c
क्षत्रियाणां महाराज सङ्ग्रामे निधनं मतम् । 003a
विशिष्टं बहुभिर्यज्ञैः क्षत्रधर्ममनुस्मर ॥ 003c
ब्राह्मणानां तपस्त्यागः प्रेत्य धर्मविधिः स्मृतः । 004a
क्षत्रियाणां च निधनं सङ्ग्रामे विहितं प्रभो ॥ 004c
क्षात्रधर्मो महारौद्रः शस्त्रनित्य इति स्मृतः । 005a
वधश्च भरतश्रेष्ठ काले शस्त्रेण संयुगे ॥ 005c
ब्राह्मणस्यापि चेद्राजन्क्षत्रधर्मेण वर्ततः । 006a
प्रशस्तं जीवितं लोके क्षत्रं हि ब्रह्मसम्भवम् ॥ 006c
न त्यागो न पुनर्यज्ञो न तपो मनुजेश्वर । 007a
क्षत्रियस्य विधीयन्ते न परस्वोपजीवनम् ॥ 007c
स भवान्सर्वधर्मज्ञो धर्मात्मा भरतर्षभ । 008a
राजा मनीषी निपुणो लोके दृष्टपरावरः ॥ 008c
त्यक्त्वा सन्तापजं शोकं दंशितो भव कर्मणि । 009a
क्षत्रियस्य विशेषेण हृदयं वज्रसन्निभम् ॥ 009c
जित्वाऽरीन्क्षत्रधर्मेण प्राप्य राज्यमकण्टकम् । 010a
विजितात्मा मनुष्येन्द्र यज्ञदानपरो भव ॥ 010c
इन्द्रो वै ब्रह्मणः पुत्रः क्षत्रियः कर्मणाऽभवत् । 011a
ज्ञातीनां पापवृत्तीनां जघान नवतीर्नव ॥ 011c
तच्चास्य कर्म पूज्यं च प्रशस्यं च विशाम्पते । 012a
तेनेन्द्रत्वं समापेदे देवानामिति नः श्रुतम् ॥ 012c
स त्वं यज्ञैर्महाराज यजस्व बहुदक्षिणैः । 013a
यथैवेन्द्रो मनुष्येन्द्र चिराय विगतज्वरः ॥ 013c
मा त्वमेवं गते किञ्चिच्छोचेथाः क्षत्रियर्षभ । 014a
गतास्ते क्षत्रधर्मेण शस्त्रपूताः परां गतिम् ॥ 014c
भवितव्यं तथा तच्च यद्वृत्तं भरतर्षभ । 015a
दिष्टं हि राजशार्दूल न शक्यमतिवर्तितुम् ॥ 015c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्वाविंशोऽध्यायः ॥ 22 ॥
12-22-1 अच्युतं धर्मात् ॥ 12-22-4 त्यागः सन्न्यासः ॥ 12-22-7 यज्ञ आत्मयज्ञः । समाधिरिति यावत् ॥ 12-22-9 दंशितः सन्नद्धः ॥ 12-22-11 ब्रह्मणः कश्यपस्य । नवतीर्नव दशाधिक शताष्टकम् ॥ 12-22-12 इन्द्रत्वमैश्वर्यम् ॥