अध्यायः 021
युधिष्ठिरम् प्रति देवस्थानस्य वचनम् ॥ 1 ॥
देवस्थान उवाच 001
अत्रैवोदाहरन्तीममितिहासं पुरातनम् । 001a
इन्द्रेण समये पृष्टो यदुवाच बृहस्पतिः ॥ 001c
सन्तोषो वै स्वर्गसमः सन्तोषः परमं सुखम् । 002a
तुष्टेर्न किञ्चित्परतः सा सम्यक्प्रतितिष्ठति ॥ 002c
यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः । 003a
तदाऽऽत्मज्योतिरचिरात्स्वात्मन्येव प्रसीदति ॥ 003c
न बिभेति यदा चायं यदा चास्मान्न बिभ्यति । 004a
कामद्वेषौ च जयति तदाऽऽत्मानं च पश्यति ॥ 004c
यदाऽसौ सर्वभूतानां न द्रुह्यति न काङ्क्षति । 005a
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥ 005c
एवं कौन्तेय भूतानि तन्तं धर्मं तथातथा । 006a
तदाऽऽत्मना प्रपश्यन्ति तस्माद्बुध्यस्व भारत ॥ 006c
अन्ये साम प्रशंसन्ति व्यायाममपरे जनाः । 007a
नैकं न चापरं केचिदुभयं च तथाऽपरे ॥ 007c
यज्ञमेके प्रशंसन्ति सन्न्यासमपरे जनाः । 008a
'नैकं न चापरं केचिदुभयं च तथाऽपरे ॥' 008c
दानमेके प्रशंसन्ति केचिच्चैव प्रतिग्रहम् । 009a
केचित्सर्वं परित्यज्य तूष्णीं ध्यायन्त आसते ॥ 009c
राज्यमेके प्रशंसन्ति प्रजानां परिपालनम् । 010a
हत्वा छित्त्वा च भित्त्वा च केचिदेकान्तशीलिनः ॥ 010c
एतत्सर्वं समालोक्य बुधानामेव निश्चयः । 011a
अद्रोहेणैव भूतानां यो धर्मः स सतां मतः ॥ 011c
अद्रोहः सत्यवचनं संविभागो दया दमः । 012a
प्रजनं स्वेषु दारेषु मार्दवं ह्रीरचापलम् ॥ 012c
एवं धर्मं प्रधानेष्टं मनुः स्वायम्भुवोऽब्रवीत् । 013a
तस्मादेतत्प्रयत्नेन कौन्तेय प्रतिपालय ॥ 013c
यो हि राज्ये स्थितः शश्वद्वशी तुल्यप्रियाप्रियः । 014a
क्षत्रियो यज्ञशिष्टाशी राजा शास्त्रार्थतत्त्ववित् ॥ 014c
असाधुनिग्रहरतः साधूनां प्रग्रहे रतः । 015a
धर्मवर्त्मनि संस्थाप्य प्रजा वर्तेत धर्मतः ॥ 015c
पुत्रसङ्क्रामितश्रीश्च वने वन्येन वर्तयेत् । 016a
विधानमाश्रमाणां वै कुर्यात्कर्माण्यतन्द्रितः ॥ 016c
य एवं वर्तते राजन्स राजा धर्मनिश्चितः । 017a
तस्यायं च परश्चैव लोकः स्यात्सम्फलोदयः ॥ 017c
निर्वाणं हि सुदुष्प्राप्यं बहुविघ्नं च मे मतम् ॥ 018ac
एवं धर्ममनुक्रान्ताः सत्यदानतपःपराः । 019a
आनृशंस्यगुणैर्युक्ताः कामक्रोधविवर्जिताः ॥ 019c
प्रजानां पालने युक्ता धर्ममुत्तममास्थिताः । 020a
गोब्राह्मणार्थे युध्यन्तः प्राप्ता गतिमनुत्तमाम् ॥ 020c
एवं रुद्राः सवसवस्तथाऽऽदित्याः परन्तप । 021a
साध्या राजर्षिसङ्घाश्च धर्ममेतं समाश्रिताः । 021c
अप्रमत्तास्ततः स्वर्गं प्राप्ताः पुण्यैः स्वकर्मभिः ॥ 021e
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकविंशोऽध्यायः ॥ 21 ॥
12-21-3 यदा प्रसीदति तदा तुष्टिः प्रतितिष्ठतीति पूर्वेण सम्बन्धः ॥ 12-21-7 साम प्रीतिम् । व्यायामं यत्नम् ॥ 12-21-12 प्रजने पुत्रोत्पादनम् ॥ 12-21-15 प्रग्रहे सङ्ग्रहे ॥