अध्यायः 019 अर्जुनम् प्रति युधिष्ठिरवचनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
वेदाहं तात शास्त्राणि अपराणि पराणि च । 001a
उभयं वेदवचनं कुरु कर्म त्यजेति च ॥ 001c
आकुलानि च शास्त्राणि हेतुभिश्चिन्तितानि च । 002a
निश्चयश्चैव यो मन्त्रे वेदाहं तं यथाविधि ॥ 002c
त्वं तु केवलशास्त्रज्ञो वीरव्रतसमन्वितः । 003a
शास्त्रार्थं तत्त्वतो गन्तुं न समर्थः कथञ्चन ॥ 003c
शास्त्रार्थतत्त्वदर्शी यो धर्मनिश्चयकोविदः । 004a
तेनाप्येवं न वाच्योऽयं यदि धर्मं प्रपश्यसि ॥ 004c
भ्रातृसौहृदमास्थाय यदुक्तं वचनं त्वया । 005a
न्याय्यं युक्तं च कौन्तेय प्रीतोऽहं तेन तेऽर्जुन ॥ 005c
'महेश्वरसमं सत्वं ब्रह्मणा चैव यत्समम् । 006a
वासुदेवसमं चैव न भूतं न भविष्यति ॥ 006c
तथा त्वं योधमुख्येषु सत्वं परममिष्यते ॥ 007ac
बलमिन्द्रे च वायौ च बलं यच्च जनार्दने । 008a
तद्बलं भीमसेने च त्वयि चार्जुन विद्यते ॥ 008c
त्वत्समश्चित्रयोधी च दूरपाती च पाण्डव । 009a
दिव्यास्त्रबलसम्पन्नः को वाऽन्यस्त्वत्समो नरः ॥ 009c
युद्धधर्मेषु सर्वेषु क्रियाणां नैपुणेषु च । 010a
न त्वया सदृशः कश्चिन्त्रिषु लोकेषु विद्यते ॥ 010c
धार्मिकं धर्मयुक्तं च निःशेषं ज्ञायते मया । 011a
धर्मसूक्ष्मं तु यद्वाच्यं तत्र दुष्प्रतरं त्वया । 011c
धनञ्जय न मे बुद्धिमतिशङ्कितुमर्हसि ॥ 011e
युद्धशास्त्रविदेव त्वं न वृद्धाः सेवितास्त्वया । 012a
समासविस्तरविदां न तेषां वेत्सि निश्चयम् ॥ 012c
तपस्त्यागो विधिरिति निश्चयस्तात धीमताम् । 013a
परस्परं ज्याय एषामिति नः श्रेयसी मतिः ॥ 013c
यत्त्वेतन्मन्यसे पार्थ न ज्यायोऽस्ति धनादिति । 014a
तत्र ते वर्तयिष्यामि यथा नैतत्प्रधानतः ॥ 014c
तपः स्वाध्यायशीला हि दृश्यन्ते धार्मिका जनाः । 015a
ऋषयस्तपसा युक्ता येषां लोकाः सनातनाः ॥ 015c
अजातश्मश्रवो धीरास्तथाऽन्ये वनवासिनः । 016a
अरुणाः केतवश्चैव स्वाध्यायेन दिवं गताः ॥ 016c
उत्तरेण तु पन्थानमार्या विषयनिग्रहात् । 017a
अबुद्धिजं तमस्त्यक्त्वा लोकांस्त्यागवतां गताः ॥ 017c
दक्षिणेन तु पन्थानं यं भास्वन्तं प्रचक्षते । 018a
एते क्रियावतां लोका ये श्मशानानि भेजिरे ॥ 018c
अनिर्देश्या गतिः सा तु यां प्रपश्यन्ति मोक्षिणः । 019a
तस्मात्त्यागः प्रधानेष्टः स तु दुःखं प्रवेदितुम् ॥ 019c
अनुस्मृत्य तु शास्त्राणि कवयः समवस्थिताः । 020a
अपीह स्यादपीह स्यात्सारासारदिदृक्षया ॥ 020c
वेदवादानतिक्रम्य शास्त्राण्यारण्यकानि च । 021a
विपाट्य कदलीस्तम्भं सारं ददृशिरे न ते ॥ 021c
अथैकान्तव्युदासेन शरीरे पाञ्चभौतिके । 022a
इच्छाद्वेषसमायुक्तमात्मानं प्राहुरिङ्गितैः ॥ 022c
अग्राह्यं चक्षुषा सत्वमनिर्देश्यं च तद्गिरा । 023a
कर्महेतुपुरस्कारं भूतेषु परिवर्तते ॥ 023c
कल्याणगोचरं कृत्वा मानं तृष्णां निगृह्य च । 024a
कर्मसन्ततिमुत्सृज्य स्यान्निरालम्बनः सुखी ॥ 024c
अस्मिन्नेवं सूक्ष्मगम्ये मार्गे सद्भिर्निषेविते । 025a
कथमर्थमनर्थाढ्यमर्जुन त्वं प्रशंससि ॥ 025c
पूर्वशास्त्रविदोऽप्येवं जनाः पश्यन्ति भारत । 026a
क्रियासु निरता नित्यं दाने यज्ञे च कर्मणि ॥ 026c
भवन्ति सुदुरावर्ता हेतुमन्तोऽपि पण्डिताः । 027a
दृढपूर्वे स्मृता मूढा नैतदस्तीति वादिनः ॥ 027c
अनृतस्यावमन्तारो वक्तारो जनसंसदि । 028a
चरन्ति वसुधां कृत्स्नां वावदूका बहुश्रुताः ॥ 028c
पार्थ यन्न विजानीमः कस्ताञ्ज्ञातुमिहार्हति । 029a
एवं प्राज्ञाः श्रुताश्चापि महान्तः शास्त्रवित्तमाः ॥ 029c
तपसा महदाप्नोति बुद्ध्या वै विन्दते महत् । 030a
त्यागेन सुखमाप्नोति सदा कौन्तेय धर्मवित् ॥ 030c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनविंशोऽध्यायः ॥ 19 ॥

12-19-1 अपराणि धर्मशास्त्राणि । पराणि ब्रह्मशास्त्राणि ॥ 12-19-2 अमूलानि च शास्त्राणि हेतुभिश्चित्रितानि च । निश्चयश्चैष यन्मन्त्र इति ट. ड. पाठः ॥ 12-19-3 त्वं तु केवलमस्त्रज्ञ इति झ. पाठः ॥ 12-19-11 तत्र विषये दुष्प्रतरं दुरवगाहम् ॥ 12-19-16 अरुणाः केतवः ऋषिप्रभेदाः । अरण्ये बहवश्चैवेति झ. पाठः ॥ 12-19-21 आरण्यकानि वेदान्तान् ॥ 12-19-24 मनस्तृष्णां निगृह्य चेति झ. पाठः ॥ 12-19-26 पूर्वशास्त्रविदः कर्मकाण्डविदोऽपि एवमर्थमनर्थत्वेन पश्यन्ति किमुत ज्ञानिनः ॥ 12-19-27 दुरावर्ताः दुःखेनापि सिद्धान्तं ग्राहयितुमशक्याः । दृढः पूर्वः प्राग्भवीयः संस्कारो येषां ते दृढपूर्वे । बहुव्रीहावप्यार्षी सर्वनामता ॥ 12-19-29 हे पार्थ यत् यान् लौकिकानप्यर्थान्न वयं विजानीमस्तान् इतरः को ज्ञातुमर्हति । न कोपि यथा । एवं प्राज्ञा अपि अस्माकमन्येषां च दुर्ज्ञेया इत्यर्थः ॥ 12-19-30 महद्वैराग्यम् । महत्परम्ब्रह्म ॥