अध्यायः 018
अर्जुनेन युधिष्ठिरम् प्रति जनकतद्भार्यासंवादकथनपूर्वकं कर्तव्योपदेशः ॥ 1 ॥
वैशम्पायन उवाच 001
तूष्णीम्भूतं तु राजानं पुनरेवार्जुनोऽब्रवीत् । 001a
सन्तप्तः शोकदुःखाभ्यां राजवाक्शल्यपीडितः ॥ 001c
अर्जुन उवाच 002
कथयन्ति पुरावृत्तमितिहासमिमं जनाः । 002a
विदेहराज्ञः संवादं भार्यया सह भारत ॥ 002c
उत्सृज्य राज्यं भिक्षार्थं कृतबुद्धिं नरेश्वरम् । 003a
विदेहराजमहीषी दुःखिता प्रत्यभाषत ॥ 003c
धनान्यपत्यं मित्राणि रत्नानि विविधानि च । 004a
पन्थानं पावनं हित्वा जनको मौढ्यमास्थितः ॥ 004c
तं ददर्श प्रिया भार्या भैक्षवृत्तिमकिञ्चनम् । 005a
धानामुष्टिमुपासीनं निरीहं गतमत्सरम् ॥ 005c
तमुवाच समामत्य भर्तारमकुतोभयम् । 006a
क्रुद्धा मनस्विनी भार्या विविक्ते हेतुमद्वचः ॥ 006c
कथमुत्सृज्य राज्यं स्वं धनधान्यसमन्वितम् । 007a
कापालीं वृत्तिमास्थाय धान्यमुष्टिमुपाससे ॥ 007c
प्रतिज्ञा तेऽन्यथा राजन्विचेष्टा चान्यथा तव । 008a
यद्राज्यं महदुत्सृज्य स्वल्पे लुभ्यसि पार्थिव ॥ 008c
नैतेनातिथयो राजन्देवर्षिपितरस्तथा । 009a
अद्य शक्यास्त्वया भर्तुं मोघस्तेऽयं परिश्रमः ॥ 009c
देवतातिथिभिश्चैव पितृभिश्चैव पार्थिव । 010a
सर्वैरेतैः परित्यक्तः परिव्रजसि निष्क्रियः ॥ 010c
यस्त्वं त्रैविद्यवृद्धानां ब्राह्मणानां सहस्रशः । 011a
भर्ता भूत्वा च लोकस्य सोऽद्यान्यैर्भूतिमिच्छसि ॥ 011c
श्रियं हित्वा प्रदीप्तां त्वं श्ववत्सम्प्रति वीक्ष्यसे । 012a
अपुत्रा जननी तेऽद्य कौसल्या चापतिस्त्वया ॥ 012c
आश्रिता धर्मकामास्त्वां क्षत्रियाः पर्युपासते । 013a
त्वदाशामभिकाङ्क्षन्तः कृपणाः फलहेतुकाः ॥ 013c
तांश्च त्वं विफलान्कृत्वा कं नु लोकं गमिष्यसि । 014a
राजन्संशयिते मोक्षे परतन्त्रेषु देहिषु ॥ 014c
नैव तेऽस्ति परो लोको नापरः पापकर्मणः । 015a
धर्म्यान्दारान्परित्यज्य यस्त्वमिच्छसि जीवितुम् ॥ 015c
स्रजो गन्धानलङ्कारान्वासांसि विविधानि च । 016a
किमर्थमभिसन्त्यज्य परिव्रजसि निष्क्रियः ॥ 016c
निपानं सर्वभूतानां भूत्वा त्वं पावनं महत् । 017a
आढ्यो वनस्पतिर्भूत्वा सोन्यांस्त्वं पर्युपाससे ॥ 017c
खादन्ति हस्तिनं न्यासे क्रव्यादा बहवोऽप्युत । 018a
बहवः कृमयश्चैव किं पुनस्त्वामनर्थकम् ॥ 018c
य इमां कुण्डिकां भिन्द्यात्त्रिविष्टब्धं च यो हरेत् । 019a
वासश्चापि हरेत्तस्मिन्कथं ते मानसं भवेत् ॥ 019c
यस्त्वं सर्वं समुत्सृज्य धानामुष्टिमनुग्रहः । 020a
यदनेन कृतं सर्वं किमिदं मम दीयते ॥ 020c
धानामुष्टेरिहार्थश्चेत्प्रतिज्ञा ते विनश्यति । 021a
का वाऽहं तव को मे त्वं कश्च ते मय्यनुग्रहः ॥ 021c
प्रशाधि पृथिवीं राजन्यत्र तेऽनुग्रहो भवेत् । 022a
प्रासादे शयनं यानं वासांस्याभरणानि च ॥ 022c
श्रियां निराशैरधनेस्त्यक्तमित्रैरकिञ्चनैः । 023a
सौखिकैः सम्भृतो योऽर्थः स सन्त्यजति किन्नु तम् ॥ 023c
योऽत्यन्तं प्रतिगृह्णीयाद्यश्च दद्यात्सदैव हि । 024a
तयोस्त्वमन्तरं विद्धि श्रेयांस्ताभ्यां क उच्यते ॥ 024c
सदैव याचमानेषु तथा दम्भान्वितेषु च । 025a
एतेषु दक्षिणा दत्ता दावाग्नाविव दुर्हुतम् ॥ 025c
जातवेदा यथा राजन्नादग्ध्वैवोपशाम्यति । 026a
सदैव याचमानो वै तथा शाम्यति न द्विजः ॥ 026c
सतां वै ददतोऽन्नं च लोकेऽस्मिन्प्रकृतिर्ध्रुवा । 027a
न चेद्राजा भवेद्दाता कुतः स्युर्मोक्षकाङ्क्षिणः ॥ 027c
अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च । 028a
अन्नात्प्राणः प्रभवति अन्नदः प्राणदो भवेत् ॥ 028c
गृहस्थेभ्योऽपि निर्मुक्ता गृहस्थानेव संश्रिताः । 029a
प्रभवं च प्रतिष्ठां च दान्ता विन्दन्त आसते ॥ 029c
त्यागान्न भिक्षुकं विन्द्यान्न मौढ्यान्न च याचनात् । 030a
ऋजुस्तु योऽर्थं त्यजति तं मुक्तं विद्धि भिक्षुकम् ॥ 030c
असक्तः शक्तवद्गच्छन्निःसङ्गो मुक्तबन्धनः । 031a
समः शत्रौ च मित्रे च स वै मुक्तो महीपते ॥ 031c
परिव्रजन्ति दानार्थं मुण्डाः काषायवाससः । 032a
सिता बहुविधैः पाशैः सञ्चिन्वन्तो वृथामिषम् ॥ 032c
त्रयीं च नामवार्तां च त्यक्त्वा पुत्रान्व्रजन्ति ये । 033a
त्रिविष्टब्धं च वासश्च प्रतिगृह्णन्त्यबुद्धयः ॥ 033c
अनिष्कषाये काषायमीहार्थमिति विद्धि तम् । 034a
धर्मध्वजानां मुण्डानां वृत्त्यर्थमिति मे मतिः ॥ 034c
काषायैरजिनैश्चीरैर्नग्नान्मुण्डाञ्जटाधरान् । 035a
बिभ्रत्साधून्महाराज जय लोकाञ्जितेन्द्रियः ॥ 035c
अग्न्याधेयानि गुर्वर्थं क्रतूनपि सुदक्षिणान् । 036a
ददात्यहरहः पूर्वं को नु धर्मरतस्ततः ॥ 036c
अर्जुन उवाच 037
तत्त्वज्ञो जनको राजा लोकेऽस्मिन्निति गीयते । 037a
सोऽप्यासीन्मोहसम्पन्नो मा मोहवशमन्वगाः ॥ 037c
एवं धर्ममनुक्रान्ता सदा दानतपः पराः । 038a
आनृशंस्यगुणोपेताः कामक्रोधविवर्जिताः ॥ 038c
प्रजानां पालने युक्ता दममुत्तममास्थिताः । 039a
इष्ट्वा लोकानवाप्स्यामो गुरुवृद्धोपचायिनः ॥ 039c
देवतातिथिभूतानां निर्वपन्तो यथाविधि । 040a
स्थानमिष्टमवाप्स्यामो ब्रह्मण्याः सत्यवादिनः ॥ 040c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टादशोऽध्यायः ॥ 18 ॥
12-18-5 धाना भृष्टयवाः । निरीहं वितृष्णम् ॥ 12-18-8 स्वल्पे मुह्यसीति द. थ. पाठः । प्रतिज्ञाते ते वृथेति ड. पाठः ॥ 12-18-9 एतेन धानामुष्टिना ॥ 12-18-12 कौसल्या पातिता त्वयेति ट. ड. थ. पाठः ॥ 12-18-13 फलहेतुकाः फलार्थिनः ॥ 12-18-17 निपीयतेऽस्मिन्स्वेच्छया गोभिर्जलमिति निपानम् आहावः । कूपोपान्तस्थक्षुद्रजलाशय इतियावत् । तथा आढ्यः फलवान् ॥ 12-18-18 हस्तिनमपि न्यासे कृते सति क्रव्यादा मांसादाः खादन्ति । अनर्थकं सर्वपुरुषार्थहीनम् ॥ 12-18-19 त्रिविष्टब्धं त्रिदण्डम् ॥ 12-18-20 अनुग्रहः अन्वग्रहीः । यदानेन समं सर्वं किमिदं ह्यवसीयते इति झ. पाठः । तत्र अवसीयसे अध्यवस्यति । अनेन धानामुष्टिना सर्वं राज्यादिकं समम् । सङ्गित्वाविशेषात् इत्यर्थः ॥ 12-18-23 सौखिकैः सम्भृतानर्थान्यः सन्त्यजति किन्नु तत् इति झ. पाठः । तत्र सौखिकैः परममुखार्थिभिः सन्न्यासिभिः । सम्भृतानर्थान् कुण्डिकादीन् वीक्ष्य यः स्वयमपि तथा करोति स किन्नु तद्राज्यादिकं त्यजति । अपितु नैव त्यजति । किन्तूचितं परिग्रहं त्यक्त्वा दैवोपहतत्वादनुचितं परिग्रहान्तरमेव करोतीत्यसङ्गत्वमस्य दुर्लभमित्यर्थः ॥ 12-18-25 सदैव वाचमानः परिव्राट् । सदैव याचमानेषु सत्सु (दण्ड)डम्भविवर्जिषु इति ट.ड. थ. द. पाठः ॥ 12-18-26 सदैव याचमानो हि तथा शाम्यति वै द्विजः । इति झ. पाठः ॥ 12-18-27 सतां सन्न्यासिनां प्रकृतिर्जीवनम् । सतां च वेदा अन्नं च लोकेऽस्मिन्प्रकृतिर्ध्रुवा । अन्नदाता भवेद्दाता कुशास्त्रं मोक्षकाङ्क्षिणः । इति ट. ड. थ. द. पाठः ॥ 12-18-32 परिव्रजन्ति येऽनर्था इति ट. ड. पाठः ॥ 12-18-34 अनिष्कषाये रागादिदोषवर्जनाभावे । अनिष्कषायाः काषायमिति ड. थ. द. पाठः ॥