अध्यायः 017
भीमम् प्रति युधिष्ठिरवचनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
असन्तोषः प्रमादश्च मदो रागोऽप्रशान्तता । 001a
बलं मोहोऽभिमानश्चाप्युद्वेगश्चैव सर्वशः ॥ 001c
एभिः पाप्मभिराविष्टो राज्यं त्वमभिकाङ्क्षसे । 002a
निरामिषो विनिर्मुक्तः प्रशान्तः सुसुखी भव ॥ 002c
य इमामखिलां भूमिं शिष्यादेको महीपतिः । 003a
तस्याप्युदरमेकं वै किमिदं त्वं प्रशंससि ॥ 003c
नाह्ना पूरयितुं शक्यां न मासैर्भरतर्षभ । 004a
अपूर्यां पूरयन्निच्छामायुषाऽपि न शक्नुयात् ॥ 004c
यथेद्धः प्रज्वलत्यग्निरसमिद्धः प्रशाम्यति । 005a
अल्पाहारतयाग्निं त्वं शमयौदर्यमुत्थितम् ॥ 005c
आत्मोदरकृतेऽप्राज्ञः करोति विशसं बहु । 006a
जयोदरं पृथिव्या ते श्रेयो निर्जितया जितम् ॥ 006c
मानुषान्कामभोगांस्त्वमैश्वर्यं च प्रशंससि । 007a
अभोगिनोऽबलाश्चैव यान्ति स्थानमनुत्तमम् ॥ 007c
योगः क्षेमश्च राष्ट्रस्य धर्माधर्मौ त्वयि स्थितौ । 008a
मुच्यस्व महतो भारात्त्यागमेवाभिसंश्रय ॥ 008c
एकोदरकृते व्याघ्रः करोति विशसं बहु । 009a
तमन्येऽप्युपजीवन्ति मन्दवेगतरा मृगाः ॥ 009c
विषयान्प्रतिसङ्गृह्य सन्न्यासे कुरुते मतिम् । 010a
न च तुष्यन्ति राजानः पश्य बुद्ध्यन्तरं यथा ॥ 010c
पत्राहारैरश्मकुट्टैर्दन्तोलूखलिकैस्तथा । 011a
अब्भक्षैर्वायुभक्षैश्च तैरयं नरको जितः ॥ 011c
यस्त्विमां वसुधां कृत्स्नां प्रशासेदखिलां नृपः । 012a
तुल्याश्मकाञ्चनो यश्च स कृतार्थो न पार्थिवः ॥ 012c
सङ्कल्पेषु निरारम्भो निराशीर्निर्ममो भव । 013a
अशोकं स्थानमातिष्ठ इह चामुत्र चाव्ययम् ॥ 013c
निरामिषा न शोचन्ति शोचन्ति त्वामिषैषिणः । 014a
परित्यज्यामिषं सर्वं मृषावादात्प्रमोक्ष्यसे ॥ 014c
पन्थानौ पितृयानश्च देवयानश्च विश्रुतौ । 015a
ईजानाः पितृयानेन देवयानेन मोक्षिणः ॥ 015c
तपसा ब्रह्मचर्येण स्वाध्यायेन महर्षयः । 016a
विमुच्य देहांस्ते यान्ति मृत्योरविषयं गताः ॥ 016c
आमिषं बन्धनं लोके कर्मेहोक्तं तथाऽऽमिषम् । 017a
ताभ्यां विमुक्तः पापाभ्यां पदमाप्नोति तत्परम् ॥ 017c
अपि गाथां पुरा गीतां जनकेन वदन्त्युत । 018a
निर्द्वन्द्वेन विमुक्तेन मोक्षं समनुपश्यता ॥ 018c
अनन्तं बत मे वित्तं यस्य मे नास्ति किञ्चन । 019a
मिथिलायां प्रदीप्तायां न मे किञ्चित्प्रदह्यते ॥ 019c
प्रज्ञाप्रासादमारुह्य न शोचेच्छोचतो जनान् । 020a
जगतीस्थोऽथवाऽद्रिस्थो मन्दबुद्धिर्नचेक्षते ॥ 020c
दृश्यं पश्यति यः पश्यन्स चक्षुष्मान्स बुद्धिमान् । 021a
अज्ञातानां च विज्ञानात्सम्बोधाद्बुद्धिरुच्यते ॥ 021c
यस्तु मानं विजानाति बहुमानमियात्स वै । 022a
ब्रह्मभावप्रभूतानां वैद्यानां भावितात्मनाम् ॥ 022c
यदा भूतपृथग्भावमेकस्थमनुपश्यति । 023a
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ 023c
ते जनास्तां गतिं यान्ति नाविद्वांसोऽल्पचेतसः । 024a
नाबुद्धयो नातपसः सर्वं बुद्धौ प्रतिष्ठितम् ॥ 024c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्तदशोऽध्यायः ॥ 17 ॥
12-17-5 इद्धः प्रदीप्तः ॥ 12-17-6 विशसं विशसनम् ॥ 12-17-7 अबलास्तपःकृशाः ॥ 12-17-8 अलब्धलाभो योगः । लब्धसंरक्षणं क्षेमः ॥ 12-17-21 दृश्यं द्रष्टुं योग्यं कर्तव्यमकर्तव्यं च ॥ 12-17-22 यस्तु वाचं विजानातीति झ. पाठः ॥ 12-17-24 ते बुद्धिमन्तः ॥