अध्यायः 016
युधिष्ठिरम् प्रति भीमवचनम् ॥ 1 ॥
वैशम्पायन उवाच 001
अर्जुनस्य वचः श्रुत्वा भीमसेनोऽत्यमर्षणः । 001a
धैर्यमास्थाय तं ज्येष्ठं भ्राता भ्रातरमब्रवीत् ॥ 001c
राजन्विदितधर्मोऽसि न तेऽस्त्यविदितं भुवि । 002a
उपशिक्षाम ते वृत्तं सदैव न च शक्नुमः ॥ 002c
न वक्ष्यामि न वक्ष्यामीत्येवं मे मनसि स्थितम् । 003a
अतिदुःखात्तु वक्ष्यामि तन्निबोध जनाधिप ॥ 003c
भवतः सम्प्रमोहेन सर्वं संशयितं कृतम् । 004a
विक्लबत्वं च नः प्राप्तमबलत्वं तथैव च ॥ 004c
कथं हि राजा लोकस्य सर्वशास्त्रविशारदः । 005a
मोहमापद्यसे दैन्याद्यथा कापुरुषस्तथा ॥ 005c
आगतिश्च गतिश्चैव लोकस्य विदिता तव । 006a
आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो ॥ 006c
एवं गते महाराज राज्यं प्रति जनाधिप । 007a
हेतुमात्रं तु वक्ष्यामि तमिहैकमनाः शृणु ॥ 007c
द्विविधो जायते व्याधिः शारीरो मानसस्तथा । 008a
परस्परं तयोर्जन्म निर्द्वन्द्वं नोपलभ्यते ॥ 008c
शारीराज्जायते व्याधिर्मानसो नात्र संशयः । 009a
मानसाज्जायते व्याधिः शारीर इति निश्चयः ॥ 009c
शारीरमानसे दुःखे योऽतीते त्वनुशोचति । 010a
दुःखेन लभते दुःखं द्वावनर्थौ च विन्दति ॥ 010c
शीतोष्णे चैव वायुश्च त्रयः शारीरजा गुणाः । 011a
तेषां गुणानां साम्यं यत्तदाहुः स्वस्थलक्षणम् ॥ 011c
तेषामन्यतमोद्रेके विधानमुपदिश्यते । 012a
उष्णेन बाध्यते शीतं शीतेनोष्णं प्रबाध्यते । 012c
'उभाभ्यां बाध्यते वायुर्विधानमिदमुच्यते ॥' 012e
सत्वं रजस्तम इति मानसाः स्युस्त्रयो गुणाः । 013a
तेषां गुणानां साम्यं यत्तदाहुः स्वस्थलक्षणम् ॥ 013c
तेषामन्यतमोद्रेके विधानमुपदिश्यते । 014a
हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते । 014c
'उभाभ्यां बाध्यते मोहो विधानमिदमुच्यते ॥' 014e
कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति । 015a
कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति ॥ 015c
स त्वं न दुःखी दुःखस्य न सुखी च सुखस्य च । 016a
नादुःखी दुःखभागस्य नासुखी च सुखस्य च । 016c
स्मर्तुमर्हसि कौरव्य दिष्टं हि बलवत्तरम् ॥ 016e
अथवा ते स्वभावोऽयं येन पार्थिव तुष्यसे । 017a
दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम् । 017c
मिषतां पाण्डुपुत्राणां न तस्य स्मर्तुमर्हसि ॥ 017e
प्रव्राजनं च नगरादजिनैश्च विवासनम् । 018a
महारण्यनिवासश्च न तस्य स्मर्तुमर्हसि ॥ 018c
जटासुरात्परिक्लेशं चित्रसेनेन चाहवम् । 019a
सैन्धवाच्च परिक्लेशं कथं विस्मृतवानसि ॥ 019c
पुनरज्ञातचर्यायां कीचकेन पदा वधम् । 020a
द्रौपद्या राजपुत्र्याश्च कथं विस्मृतवानसि ॥ 020c
यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिन्दम । 021a
मनसैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥ 021c
यत्र नास्ति शरैः कार्यं न मित्रैर्न च बन्धुभिः । 022a
आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥ 022c
तस्मिन्ननिर्जिते युद्धे प्राणान्यदि विमोक्ष्यसे । 023a
अन्यं देहं समास्थाय ततस्तैरिह योत्स्यसे ॥ 023c
'यो ह्यनाढ्यः स पतितस्तदुच्छिष्टं तदल्पकम् । 024a
बह्वपथ्यं बलवतो न किञ्चित्त्रायते बलम् ॥' 024c
तस्मादद्यैव गन्तव्यं युध्यस्व भरतर्षभ । 025a
परमव्यक्तरूपस्य व्यक्तं त्यक्त्वा स्वकर्मभिः ॥ 025c
तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि । 026a
एतज्जित्वा महाराज कृतकृत्यो भविष्यसि ॥ 026c
एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम् । 027a
पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् ॥ 027c
दिष्ट्या दुर्योधनः पापो निहतः सानुगो युधि । 028a
द्रौपद्याः केशपक्षस्य दिष्ट्या ते पदवीं गताः ॥ 028c
यजस्व वाजिमेधेन विधिवद्दक्षिणावता । 029a
वयं ते किङ्कराः पार्थ वासुदेवश्च वीर्यवान् ॥ 029c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षोडशोऽध्यायः ॥ 16 ॥
12-16-2 नच शक्नुमः । कर्तुमिति शेषः ॥ 12-16-6 अगतिश्च गतिश्चैवेति झ. पाठः । तत्र आयत्यामुत्तरकाले । तदात्वे वर्तमानकाले अगतिर्दुर्मार्गः । गतिः सन्मार्ग इत्यर्थः ॥ 12-16-8 निर्द्वन्द्वं शरीरं विना व्याधिर्नास्ति मनोविना आधिर्नास्तीत्यर्थः ॥ 12-16-11 शीतोष्णे कफपित्ते । वायुर्वातः ॥ 12-16-12 विधानं चिकित्सा । उष्णेन द्रव्येण ॥ 12-16-16 न दुःखी सुखजातस्य न सुखी दुःखजस्य वा इति झ. पाठः ॥ 12-16-17 येन पार्थिव क्लिश्यसे इति झ. पाठः ॥ 12-16-18 न तस्य स्मर्तुमर्हसीत्यत्र कथमिति वक्ष्यमाणं पदमपकृष्य योजना ॥ 12-16-22 यत्र नाभिसरैरिति द. पाठः । तत्र न अभिसरैरिति छेदः ॥ 12-16-23 तस्मिन्मनसि ॥ 12-16-25 युध्यस्व । मनोजयार्थं सन्नद्धो भवेत्यर्थः ॥ 12-16-26 तस्मिन्मनसि कामवस्थाम् । अवाच्यामित्यर्थः । एतन्मनः ॥ 12-16-28 दिष्ट्या त्वं पदवीं गत इति झ. पाठः ॥