अध्यायः 015 युधिष्ठिरम् प्रत्यर्जुनवाक्यम् ॥ 1 ॥ वैशम्पायन उवाच 001
याज्ञसेन्या वचः श्रुत्वा पुनरेवार्जुनोऽब्रवीत् । 001a
अनुमान्य महाबाहुं ज्येष्ठं भ्रातरमीश्वरम् ॥ 001c
अर्जुन उवाच 002
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति । 002a
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥ 002c
दण्डः संरक्षते धर्मं तथैवार्थं जनाधिप । 003a
कामं संरक्षते दण्डस्त्रिवर्गो दण्ड उच्यते ॥ 003c
दण्डेन रक्ष्यते धान्यं धनं दण्डेन रक्ष्यते । 004a
एतद्विद्वानुपादाय स्वभावं पश्य लौकिकम् ॥ 004c
राजदण्डभयादेके नराः पापं न कुर्वते । 005a
यमदण्डभयादेके परलोकभयादपि ॥ 005c
परस्परभयादेके पापाः पापं न कुर्वते । 006a
एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम् ॥ 006c
दण्डस्यैव भयादेके न खादन्ति परस्परम् । 007a
अन्धेतमसि मज्जेयुर्यदि दण्डो न पालयेत् ॥ 007c
यस्माददान्तान्दमयत्यशिष्टान्दण्डयत्यपि । 008a
दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः ॥ 008c
वाचि दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम् । 009a
धनदण्डाः स्मृता वैश्या निर्दण्डः शूद्र उच्यते ॥ 009c
असम्मोहाय मर्त्यानामर्थसंरक्षणाय च । 010a
मर्यादा स्थापिता लोके दण्डसञ्ज्ञा विशाम्पते ॥ 010c
यत्र श्यामो लोहिताक्षो दण्डश्चरति सूद्यतः । 011a
प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥ 011c
ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः । 012a
दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः ॥ 012c
नाभीतो यजते राजन्नाभीतो दातुमिच्छति । 013a
नाभीतः पुरुषः कश्चित्समये स्थातुमिच्छति ॥ 013c
नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दुष्करम् । 014a
नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् ॥ 014c
नाघ्नतः कीर्तिरस्तीह न वित्तं न पुनः प्रजाः । 015a
इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत । 015c
'माहेन्द्रं च गृहं लेभे लोकानां चेश्वरोऽभवत् ॥' 015e
य एव देवा हन्तारस्ताल्ँलोकोऽर्चयते भृशम् । 016a
हन्ता रुद्रस्तथा स्कन्दः शक्रोऽग्निर्वरुणो यमः ॥ 016c
हन्ता कालस्तथा वायुर्मृत्युर्वैश्रवणो रविः । 017a
वसवो मरुतः साध्या विश्वेदेवाश्च भारत ॥ 017c
एतान्देवान्नमस्यन्ति प्रतापप्रणता जनाः । 018a
न ब्रह्माणं न धातारं न पूषाणं कथञ्चन ॥ 018c
मध्यस्थान्सर्वभूतेषु दान्ताञ्शमपरायणान् । 019a
यजन्ते मानवाः केचित्प्रशान्तान्सर्वकर्मसु ॥ 019c
न हि पश्यामि जीवन्तं लोके कञ्चिदहिंसया । 020a
सत्वैः सत्वा हि जीवन्ति दुर्बलैर्बलवत्तराः ॥ 020c
नकुलो मूषिकानत्ति बिडालो नकुलं तथा । 021a
बिडालमत्ति श्वा राजञ्श्वानं व्यालमृगस्तथा ॥ 021c
तानत्ति पुरुषः सर्वान्पश्य धर्मो यथा गतः । 022a
प्राणस्यान्नमिदं सर्वं जङ्गमं स्थावरं च यत् ॥ 022c
विधानं दैवविहितं तत्र विद्वान्न मुह्यति । 023a
यथा सृष्टोऽसि राजेन्द्र तथा भवितुमर्हसि ॥ 023c
विनीतक्रोधहर्षा हि मन्दा वनमुपाश्रिताः । 024a
विना वधं न कुर्वन्ति तापसाः प्राणयापनम् ॥ 024c
उदके बहवः प्राणाः पृथिव्यां च फलेषु च । 025a
न च कश्चिन्न तान्हन्ति किमन्यत्प्राणयापनम् ॥ 025c
सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानिचित् । 026a
पक्ष्मणोऽपि निपातेन येषां स्यात्स्कन्धपर्ययः ॥ 026c
ग्रामान्निष्क्रम्य मुनयो विगतक्रोधमत्सराः । 027a
वने कुटुम्बधर्माणो दृश्यन्ते परिमोहिताः ॥ 027c
भूमिं भित्त्वौषधीश्छित्त्वा वृक्षादीनण्डजान्पशून् । 028a
मनुष्यास्तन्वये यज्ञांस्ते स्वर्गं प्राप्नुवन्ति च ॥ 028c
दण्डनीत्यां प्रणीतायां सर्वे सिध्यन्त्युपक्रमाः । 029a
कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः ॥ 029c
दण्डश्चेन्न भवेल्लोके विनश्येयुरिमाः प्रजाः । 030a
जले मत्स्यानिवाभक्ष्यन्दुर्बलान्बलवत्तराः ॥ 030c
सत्यं बतेदं ब्रह्मणा पूर्वमुक्तं दण्डः प्रजा रक्षति साधुनीतः । 031a
पश्याग्नयः पूतिमांसस्य भीताः सन्तर्जिता दण्डभयाज्ज्वलन्ति ॥ 031c
अन्धन्तम इवेदं स्यान्न प्रज्ञायेत किञ्चन । 032a
दण्डश्चेन्न भवेल्लोके विभजन्साध्वसाधुनी ॥ 032c
येऽपि सम्भिन्नमर्यादा नास्तिका वेदनिन्दकाः । 033a
तेऽपि भोगाय कल्पन्ते दण्डेनाशु निपीडिताः ॥ 033c
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्जनः । 034a
दण्डस्य हि भयाद्भीतो भोगायैव प्रकल्पते ॥ 034c
चातुर्वर्ण्यप्रमोदाय सुनीतिकरणाय च । 035a
दण्डो विधात्रा विहितो धर्मार्थौ भुवि रक्षितुम् ॥ 035c
यदि दण्डान्न बिभ्येयुर्वयांसि श्वापदानि च । 036a
अद्युः पशून्मनुष्यांश्च यज्ञार्थानि हवींषि च ॥ 036c
न ब्रह्मचार्यधीयीत न काल्यं दुहते च गौः । 037a
न कन्योद्वहनं गच्छेद्यदि दण्डो न पालयेत् ॥ 037c
विष्वग्लोपः प्रवर्तेत भिद्येरन्सर्वसेतवः । 038a
ममत्वं न प्रजानीयुर्यदि दण्डो न पालयेत् ॥ 038c
न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः । 039a
विधिवद्दक्षिणावन्ति यदि दण्डो न पालयेत् ॥ 039c
चरेयुर्नाश्रमे धर्मं यथोक्तं विधिमाश्रिताः । 040a
न विद्यां प्राप्नुयात्कश्चिद्यदि दण्डो न पालयेत् ॥ 040c
न चोष्ट्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः । 041a
युक्ता वहेयुर्यानानि यदि दण्डो न पालयेत् ॥ 041c
न प्रेष्या वचनं कुर्युर्न बालो जातु कर्हिचित् । 042a
तिष्ठेत्पितुर्मते धर्मे यदि दण्डो न पालयेत् ॥ 042c
दण्डे स्थिताः प्रजाः सर्वा भयं दण्डे विदुर्बुधाः । 043a
दण्डे स्वर्गो मनुष्याणां लोकोऽयं च प्रतिष्ठितः ॥ 043c
न तत्र कूटं पापं वा वञ्चना वाऽपि दृश्यते । 044a
यत्र दण्डः सुविहितश्चरत्यरिविनाशनः ॥ 044c
हविः श्वा प्रलिहेद्दृष्ट्वा दण्डश्चेन्नोद्यतो भवेत् । 045a
हरेत्काकः पुरोडाशं यदि दण्डो न पालयेत् ॥ 045c
यदीदं धर्मतो राज्यं विहितं यद्यधर्मतः । 046a
कार्यस्तत्र न शोको वै भुङ्क्ष्व भोगान्यजस्व च ॥ 046c
सुखेन धर्मं श्रीमन्तश्चरन्ति शुचिवाससः । 047a
संवसन्तः प्रियैर्दारैर्भुञ्जानाश्चान्नमुत्तमम् ॥ 047c
अर्थे सर्वे समारम्भाः समायत्ता न संशयः । 048a
स च दण्डे समायत्तः पश्य दण्डस्य गौरवम् ॥ 048c
लोकयात्रार्थमेवेह धर्मप्रवचनं कृतम् । 049a
अहिंसाऽसाधुहिंसेति श्रेयान्धर्मपरिग्रहः ॥ 049c
नात्यन्तं गुणवत्किञ्चिन्न चाप्यत्यन्तनिर्गुणम् । 050a
उभयं सर्वकार्येषु दृश्यते साध्वसाधु च ॥ 050c
पशूनां वृषणं छित्त्वा ततो भिन्दन्ति नस्सु तान् । 051a
वहन्ति बहवो भारान्बध्नन्ति दमयन्ति च ॥ 051c
एवं पर्याकुले लोके वितथैर्जर्झरीकृते । 052a
तैस्तैर्न्यायैर्महाराज पुराणं धर्ममाचर ॥ 052c
यज देहि प्रजा रक्ष धर्मं समनुपालय । 053a
अमित्राञ्जहि कौन्तेय मित्राणि परिपालय ॥ 053c
मा च ते निघ्नतः शत्रून्मन्युर्भवतु पार्थिव । 054a
न तत्र किल्बिषं किञ्चिद्धन्तुर्भवति भारत ॥ 054c
आततायी हि यो हन्यादाततायिनमागतम् । 055a
न तेन भ्रूणहा स स्यान्मन्युस्तं मन्युमार्च्छति ॥ 055c
अवध्यः सर्वभूतानामन्तरात्मा न संशयः । 056a
अवध्ये चात्मनि कथं वध्यो भवति कस्यचित् ॥ 056c
यथा हि पुरुषः शालां पुनः सम्प्रविशेन्नवाम् । 057a
एव जीवः शरीराणि तानितानि प्रपद्यते ॥ 057c
देहान्पुराणानुत्सृज्य नवान्सम्प्रतिपद्यते । 058a
एवं मृत्युमुखं प्राहुर्जना ये तत्त्वदर्शिनः ॥ 058c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चदशोऽध्यायः ॥ 15 ॥

12-15-6 सांसिद्धिके पशुवत् दण्डार्हस्वभावे ॥ 12-15-8 दमयति ताडनादिना । दण्डयति वित्तमपहरति ॥ 12-15-9 भुज्यत इति भुजं भक्तं तन्मात्रार्पणं वेतनप्रदानमित्यर्थः ॥ 12-15-11 श्यामः दृढाभिघातेन दण्ड्यस्यान्ध्यजनकत्वात् । लोहिताक्षो दण्डयितुः क्रोधातिशयात् । सूद्यतः सुतरामुद्यतः । साधु यथापराधम् ॥ 12-15-20 सत्वैः सत्वानीति ट. ड. थ. पाठः ॥ 12-15-21 व्यालमृगश्चित्रव्याघ्रः ॥ 12-15-22 पश्य कालो यथा गत इति झ. पाठः । पश्य धर्मं यथागतमिति ड. त. पाठः ॥ 12-15-23 यथासृष्टः शौर्यं तेजो धृतिर्दाक्ष्यमित्याद्युक्तस्वभावः क्षत्रियः सृष्टोऽसि धात्रा ॥ 12-15-24 विनीतावपनीतौ क्रोधहर्षौ यैस्ते । मन्दाः क्षत्रियाः । वधं कन्दमूलादिवधम् ॥ 12-15-26 स्कन्धपर्ययो देहस्य नाशः ॥ 12-15-29 दण्डयुक्ता नीतिर्दण्डनीतिस्तस्यां प्रणीतायां प्रवर्तितायाम् ॥ 12-15-30 अभक्ष्यन् भक्षयेयुः ॥ 12-15-31 पश्याग्नयश्च प्रतिशाम्येति झ. पाठः । सन्तर्जिताः फूत्कारेण ॥ 12-15-33 भोगाय पालनाय । मर्यादाया इति शेषः ॥ 12-15-36 हन्युः पशूनिति ट. ड. पाठः ॥ 12-15-37 न कल्याणीं दुहेत गामिति झ. पाठः । तत्र कल्याणीमपत्यवतीं न दुहेत लोक इत्यर्थः । उद्वहनं न गच्छेत् किन्तु व्यभिचरेदेव ॥ 12-15-38 विश्वलोप इति ट. थ. पाठः । सेतवो मर्यादाः । ममत्वं परिच्छिन्नं न जानीयुः । सर्वः सर्वत्र ममत्वं कुर्यादित्यर्थः ॥ 12-15-39 तिष्ठेयुरनुतिष्ठेयुः ॥ 12-15-42 न तिष्ठेद्युवतीधर्म इति झ. पाठः ॥ 12-15-46 यदि दण्डवतो राज्यं विहितं यद्यधर्मतः । कार्यं तत्र न कार्यं च इति ड. थ. पाठः ॥ 12-15-47 संवर्षन्तः फलैर्दानैरिति झ. पाठः ॥ 12-15-51 नस्सु नासिकासु । भिन्दन्ति मस्तकमिति पाठे मस्तकं भिन्दन्ति शृङ्गवृद्धिर्माभूदितीत्यर्थः ॥ 12-15-52 जर्झरीकृते दण्डेन । तदभावे भारवहनादिकार्यं न स्यादतः पुराणमेव धर्ममाचर । नत्वत्र प्रवाहायातं हिंसादिदोषमवेक्षस्वेति भावः ॥ 12-15-54 मन्युर्दैन्यम् ॥ 12-15-55 आततायी शस्त्रपाणिः । मन्युः क्रोधः । मन्युं क्रोधमार्च्छति । आ सर्वत ऋच्छति प्राप्नोति । मन्युः कर्ता नाहं कर्तेति श्रुतेस्तत्र न भ्रूणहा भवतीत्यर्थः ॥