अध्यायः 014 युधिष्ठिरम् प्रति द्रौपदीवचनम् ॥ 1 ॥ वैशम्पायन उवाच 001
अव्याहरति कौन्तेये धर्मराजे युधिष्ठिरे । 001a
भ्रातॄणां ब्रुवतां तांस्तान्विविधान्वेदनिश्चयान् ॥ 001c
महाभिजनसम्पन्ना श्रीमत्यायतलोचना । 002a
अभ्यभाषत राजानं द्रौपदी योषितां वरा ॥ 002c
आसीनमृषभं राज्ञां भ्रातृभिः परिवारितम् । 003a
सिंहशार्दूलसदृशैर्वारणैरिव यूथपम् ॥ 003c
अभिमानवती नित्यं विशेषेण युधिष्ठिरे । 004a
लालिता सततं राज्ञा धर्माधर्मनिदर्शिनी ॥ 004c
आमन्त्रयित्वा सुश्रोणी साम्ना परमवल्गुना । 005a
भर्तारमभिसम्प्रेक्ष्य ततो वचनमब्रवीत् ॥ 005c
द्रौपद्युवाच 006
इमे ते भ्रातरः पार्थ शुष्यन्ते स्तोकका इव । 006a
वावाश्यमानास्तिष्ठन्ति न चैनानभिनन्दसे ॥ 006c
नन्दयैतान्महाराज मत्तानिव महाद्विपान् । 007a
उपपन्नेन वाक्येन सततं दुःखभागिनः ॥ 007c
कथं द्वैतवने राजन्पूर्वमुक्त्वा तथा वचः । 008a
भ्रातॄनेतान्स्म सहिताञ्शीतवातातपार्दितान् ॥ 008c
वयं दुर्योधनं हत्वा मृधे भोक्ष्याम मेदिनीम् । 009a
सम्पूर्णां सर्वकामानामाहवे विजयैषिणः ॥ 009c
नृवीरांश्च रथान्हत्वा निहत्य च महागजान् । 010a
संस्तीर्य च रथैर्भूमिं ससादिभिररिन्दमाः ॥ 010c
यजेम विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः । 011a
वनवासकृतं दुःखं भविष्यति सुखाय नः ॥ 011c
इत्येतानेवमुक्त्वा त्वं स्वयं धर्मभृतां वर । 012a
कथमद्य पुनर्वीर विनिहंसि मनांसि नः ॥ 012c
न क्लीबो वसुधां भुङ्क्ते न क्लीबो धनमश्नुते । 013a
न क्लीबस्य गृहे पुत्रा मत्स्याः पङ्क इवासते ॥ 013c
नादण्डः क्षत्रियो भाति नादण्डो भूमिमश्नुते । 014a
नादण्डस्य प्रजा राज्ञः सुखं विन्दन्ति भारत ॥ 014c
'सदेवासुरगन्धर्वैरप्सरोभिर्विभूषितम् । 015a
रक्षोभिर्गुह्यकैर्नागैर्मनुष्यैश्च विभूषितम् ॥ 015c
त्रिवर्गेण च सम्पूर्णं त्रिवर्गस्यागमेन च । 016a
दण्डेनाभ्याहृतं सर्वं जगद्भोगाय कल्पते ॥ 016c
स्वायम्भुवं महीपाल आगमं शृणु शाश्वतम् । 017a
विप्राणां विदितश्चायं तव चैव विशाम्पते ॥ 017c
अराजके हि लोकेऽस्मिन्सर्वतो विद्रुते भयात् । 018a
रक्षार्थमस्य लोकस्य राजानमसृजत्प्रभुः । 018c
महाकायं महावीर्यं पालने जगतः क्षमम् ॥ 018a
अनिलाग्नियमार्काणामिन्द्रस्य वरुणस्य च । 019c
चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः ॥ 019c
यस्मादेषां सुरेन्द्राणां सम्भवत्यंशतो नृपः । 020a
तस्मादभिभवत्येष सर्वभूतानि तेजसा ॥ 020c
तपत्यादित्यवच्चैव चक्षूंषि च मनांसि च । 021a
न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम् ॥ 021c
सोऽग्निर्भवति वायुश्च सोऽर्कः सोमश्च धर्मराट् । 022a
स कुबेरः स वरुणः स महेन्द्रः प्रतापवान् ॥ 022c
पितामहस्य देवस्य विष्णोः शर्वस्य चैव हि । 023a
ऋषीणां चैव सर्वेषां तस्मिंस्तेजः प्रतिष्ठितम् ॥ 023c
बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः । 024a
महती देवता ह्येषा नररूपेण तिष्ठति ॥ 024c
एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् । 025a
कुलं दहति राजाग्निः सपशुद्रव्यसञ्चयम् ॥ 025c
धृतराष्ट्रकुलं दग्धं क्रोधोद्भूतेन वह्निना । 026a
प्रत्यक्षमेतल्लोकस्य संशयो हि न विद्यते ॥ 026c
कुलजो वृत्तसम्पन्नो धार्मिकश्च महीपतिः । 027a
प्रजानां पालने युक्तः पूज्यते दैवतैरपि ॥ 027c
कार्यं योऽवेक्ष्य शक्तिं च देशकालौ च तत्वतः । 028a
कुरुते धर्मसिद्ध्यर्थं वैश्वरूप्यं पुनःपुनः ॥ 028c
तस्य प्रसादे पद्मा श्रीर्विजयश्च पराक्रमे । 029a
मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ॥ 029c
तं यस्तु द्वेष्टि सम्मोहात्स विनश्यति मानवः । 030a
तस्य ह्याशुविनाशाय राजाऽपि कुरुते मनः ॥ 030c
तस्माद्धर्मं यदिष्टेषु स व्यवस्यति पार्थिवः । 031a
अनिष्टं चाप्यनिष्टेषु तद्धर्मं न विचालयेत् ॥ 031c
तस्यार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् | 032a
ब्रह्मतेजोमयं दण्डमसृजत्पूर्वमीश्वरः ॥ 032c
तस्य सर्वाणि भूतानि स्थावराणि चराणि च । 033a
भयाद्भोगाय कल्पन्ते धर्मान्न विचलन्ति च ॥ 033c
देशकालौ च शक्तिं च कार्यं चावेक्ष्य तत्वतः । 034a
यथार्हतः सम्प्रणयेन्नरेष्वन्यायवर्तिषु ॥ 034c
स राजा पुरुषो दण्डः स नेता शासिता च सः । 035a
वर्णानामाश्रमाणां च धर्मप्रभुरथाव्ययः ॥ 035c
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति । 036a
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥ 036c
सुसमीक्ष्य धृतो दण्डः सर्वा रञ्जयति प्रजाः । 037a
असमीक्ष्य प्रणीतस्तु विनाशयति सर्वशः ॥ 037c
यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः । 038a
जले मत्स्यानिवाभक्ष्यन्दुर्बलान्बलवत्तराः ॥ 038c
काकोऽद्याच्च पुरोडाशं श्वा चैवावलिहेद्धविः । 039a
स्वामित्वं न क्वचिच्च स्यात्प्रपद्येताधरोत्तरम् ॥ 039c
सर्वो दण्डजितो लोको दुर्लभस्तु शुचिर्नरः । 040a
दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते ॥ 040c
देवदानवगन्धर्वा रक्षांसि पतगोरगाः । 041a
तेऽपि भोगाय कल्पन्ते दण्डेनैवाभिपीडिताः ॥ 041c
दूष्येयुः सर्ववर्णाश्च भिद्येरन्सर्वसेतवः । 042a
सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् ॥ 042c
यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा । 043a
प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥ 043c
आहुस्तस्य प्रणेतारं राजानं सत्यवादिनम् । 044a
समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम् ॥ 044c
तं राजा प्रणयन्सम्यक्स्वर्गायाभिप्रवर्तते । 045a
कामात्मविषयी क्षुद्रो दण्डेनैव निहन्यते ॥ 045c
दण्डो हि सुमहातेजा दुर्धरश्चाकृतात्मभिः । 046a
धर्माद्विचलितं हन्ति नृपमेव सबान्धवम् ॥ 046c
ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम् । 047a
अन्तरिक्षगतांश्चैव मुनीन्देवांश्च हिंसति ॥ 047c
सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना । 048a
अशक्यो न्यायतो नेतुं विषयांश्चैव सेवता ॥ 048c
शुचिना सत्यसन्धेन नीतिशास्त्रानुसारिणा । 049a
दण्डः प्रणेतुं शक्यो हि सुसहायेन धीमता ॥ 049c
स्वराष्ट्रे न्यायवर्ती स्याद्भृशदण्डश्च शत्रुषु । 050a
सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥ 050c
एवंवृत्तस्य राज्ञस्तु शिलोञ्छेनापि जीवतः । 051a
विस्तीर्येत यशो लोके तैलबिन्दुरिवाम्भसि ॥ 051c
अतस्तु विपरीतस्य नृपतेरकृतात्मनः । 052a
सङ्क्षिप्येत यशो लोके घृतबिन्दुरिवाम्भसि ॥ 052c
देवदेवेन रुद्रेण ब्रह्मणा च महीपते । 053a
विष्णुना चैव देवेन शक्रेण च महात्मना ॥ 053c
लोकपालैश्च भूतैश्च पाण्डवैश्च महात्मभिः । 054a
धर्माद्विचलिता राजन्धार्तराष्ट्रा निपातिताः । 054c
अधार्मिका दुराचाराः ससैन्या विनिपातिताः ॥ 054e
तान्निहत्य न दोषस्ते स्वल्पोऽपि जगतीपते । 055a
छलेन मायया वाऽथ क्षत्रधर्मेण वा नृप ॥' 055c
मित्रता सर्वभूतेषु दानमध्ययनं तपः । 056a
ब्राह्मणस्यैव धर्मः स्यान्न राज्ञो राजसत्तम ॥ 056c
असतां प्रतिषेधश्च सतां च परिपालनम् । 057a
एष राज्ञां परो धर्मः समरे चापलायनम् ॥ 057c
यस्मिन्क्षमा च क्रोधश्च दानादाने भयाभये । 058a
निग्रहानुग्रहौ चोभौ स वै धर्मविदुच्यते ॥ 058c
न श्रुतेन न दानेन न सान्त्वेन न चेज्यया । 059a
त्वयेयं पृथिवी लब्धा न सङ्कोचेन चाप्युत ॥ 059c
यत्तद्बलममित्राणां तथा वीरसमुद्यतम् । 060a
हस्त्यश्वरथसम्पन्नं त्रिभिरङ्गैरनुत्तमम् ॥ 060c
रक्षितं द्रोणकर्णाभ्यामश्वत्थाम्ना कृपेण च । 061a
तत्त्वया निहतं वीर तस्माद्भुङ्क्ष्व वसुन्धराम् ॥ 061c
जम्बूद्वीपो महाराज नानाजनपदैर्युतः । 062a
त्वया पुरुषशार्दूल दण्डेन मृदितः प्रभो ॥ 062c
जम्बूद्वीपेन सदृशः क्रौञ्चद्वीपो नराधिप । 063a
अपरेण महामेरोर्दण्डेन मृदितस्त्वया ॥ 063c
क्रौञ्चद्वीपेन सदृशः शाकद्वीपो नराधिप । 064a
पूर्वेण तु महामेरोर्दण्डेन मृदितस्त्वया ॥ 064c
उत्तरेण महामेरोः शाकद्वीपेन सम्मितः । 065a
भद्राश्वः पुरुषव्याघ्र दण्डेन मृदितस्त्वया ॥ 065c
द्वीपाश्च सान्तरद्वीपा नानाजनपदाश्रयाः । 066a
विगाह्य सागरं वीर दण्डेन मृदितास्त्वया ॥ 066c
एतान्यप्रतिमेयानि कृत्वा कर्माणि भारत । 067a
न प्रीयसे महाराज पूज्यमानो द्विजातिभिः ॥ 067c
स त्वं भ्रातॄनिमान्दृष्ट्वा प्रतिनन्दस्व भारत । 068a
ऋषभानिव सम्मत्तान्गजेन्द्रान्गर्जितानिव ॥ 068c
अमरप्रतिमाः सर्वे शत्रुसाहाः परन्तपाः । 069a
एकैकोऽपि सुखायैषां मम स्यादिति मे मतिः ॥ 069c
किं पुनः पुरुषव्याघ्राः पतयो मे नरर्षभाः । 070a
समस्तानीन्द्रियाणीव शरीरस्य विचेष्टने ॥ 070c
अनृतं नाब्रवीच्छ्वश्रूः सर्वज्ञा सर्वदर्शिनी । 071a
युधिष्ठिरस्त्वां पाञ्चालि सुखे धास्यत्यनुत्तमे ॥ 071c
हत्वा राजसहस्राणि बहून्याशुपराक्रमः । 072a
तद्व्यर्थं सम्प्रपश्यामि मोहात्तव जनाधिप ॥ 072c
येषामुन्मत्तको ज्येष्ठः सर्वे तेऽप्यनुसारिणः । 073a
तवोन्मादान्महाराज सोन्मादाः सर्वपाण्डवाः ॥ 073c
यदि हि स्युरनुन्मत्ता भ्रातरस्ते नराधिप । 074a
बद्ध्वा त्वां नास्तिकैः सार्धं प्रशासेयुर्वसुन्धराम् ॥ 074c
कुरुते मूढ एवं हि यः श्रेयो नाधिगच्छति । 075a
धूपैरञ्जनयोगैश्च नस्यकर्मभिरेव च ॥ 075c
'उन्मत्तिरपनेतव्या तव राजन्यदृच्छया ।' 076a
'भेषजैः स चिकित्स्यः स्याद्य उन्मार्गेण गच्छति ॥ 076c
साहं सर्वाधमा लोके स्त्रीणां भरतसत्तम । 077a
तथा विनिकृता पुत्रैर्याऽहमिच्छामि जीवितुम् ॥ 077c
धृतराष्ट्रसुता राजन्नित्यमुत्पथगामिनः । 078a
तादृशानां वधे दोषं नाहं पश्यामि कर्हिचित् ॥ 078c
इमांश्चोशनसा गीताञ्श्लोकाञ्शृणु नराधिप ॥ 079ac
आत्महन्ताऽर्थहन्ता च बन्धुहन्ता विषप्रदः । 080a
अकारणेन हन्ता च यश्च भार्यां परामृशेत् ॥ 080c
निर्दोषं वधमेतेषां षण्णामप्याततायिनाम् । 081a
ब्रह्मा प्रोवाच भगवान्भार्गवाय महात्मने ॥ 081c
ब्रह्मक्षत्रविशां राजन्सत्पथे वर्तिनामपि । 082a
प्रसह्यागारमागम्य हन्तारं गरदं तथा ॥ 082c
अभक्ष्यापेयदातारमग्निदं च निशातयेत् । 083a
मार्ग एष महीपानां गोब्राह्मणवधेषु च ॥ 083c
केशग्रहे च नारीणामपि युध्येत्पितामहम् । 084a
ब्रह्माणं देवदेवेशं किं पुनः पापकारिणम् ॥ 084c
गोब्राह्मणार्थे व्यसने च राज्ञां राष्ट्रोपमर्दे स्वशरीरहेतोः । 085a
स्त्रीणां च विक्रुष्टरुतानि श्रुत्वा विप्रोऽपि युध्येत महाप्रभावः ॥ 085c
धर्माद्विचलितं विप्रं निहन्यादाततायिनम् । 086a
तस्यान्यत्र वधं विद्वान्मनसाऽपि न चिन्तयेत् ॥ 086c
गोब्राह्मणवधे वृत्तं मन्त्रत्राणार्थमेव च । 087a
निहन्यात्क्षत्रियो विप्रं स्वकुटुम्बस्य चाप्तये ॥ 087c
तस्करेण नृशंसेन धर्मात्प्रचलितेन च । 088a
क्षत्रबन्धुः परं शक्त्या युध्येद्विप्रेण संयुगे ॥ 088c
आततायिनमायान्तमपि वेदान्तपारगम् । 089a
जिघांसन्तं जिघांसीयान्न तेन भ्रूणहा भवेत् ॥ 089c
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाऽप्यन्त्यजोपि वा । 090a
न हन्याद्ब्राह्मणं शान्तं तृणेनापि कदाचन ॥ 090c
ब्राह्मणायावगुर्याद्यः स्पृष्ट्वा गुरुतरं महत् । 091a
वर्षाणां त्रिशतं पापः प्रतिष्ठां नाधिगच्छति ॥ 091c
सहस्राणि च वर्षाणि निहत्य नरके पतेत् । 092a
तस्मान्नैवावगुर्याद्धि नैव शस्त्रं निपातयेत् ॥ 092c
शोणितं यावतः पांसून्गृह्णातीति हि धारणा । 093a
तावतीः स समाः पापो नरके परिवर्तते ॥ 093c
त्वगस्थिभेदं विप्रस्य यः कुर्यात्कारयेत वा । 094a
ब्रह्महा स तु विज्ञेयः प्रायश्चित्ती नराधमः ॥ 094c
श्रोत्रियं ब्राह्मणं हत्वा तथाऽऽत्रेयीं च ब्राह्मणीम् । 095a
चतुर्विंशतिवर्षाणि चरेद्ब्रह्महणो व्रतम् ॥ 095c
द्विगुणा ब्रह्महत्येयं सर्वैः प्रोक्ता महर्षिभिः । 096a
प्रायश्चित्तमकुर्वाणं कृताङ्कं विप्रवासयेत् ॥ 096c
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं वा घातयेन्नृपः । 097a
ब्रह्मघ्नं तस्करं चैव माभूदेवं चरिष्यति ॥ 097c
छित्त्वा हस्तौ च पादौ च नासिकोष्ठौ च भूपतिः । 098a
ब्रह्मघ्नं चोत्तमं पापं नेत्रोद्धारेण योजयेत् ॥ 098c
शूद्रस्यैव स्मृतो दण्डस्तद्वद्राजन्यवैश्ययोः । 099a
प्रायश्चित्तमकुर्वाणं ब्राह्मणं तु प्रवासयेत् ॥ 099c
क्षत्रियं वैश्यशूद्रौ च शस्त्रेणैव च घातयेत् । 100a
ब्रह्मघ्नान्ब्राह्मणान्राजा कृताङ्कान्विप्रवासयेत् ॥ 100c
विकलेन्द्रियांस्त्रिवर्णांश्च चण्डालैः सह वासयेत् । 101a
तैश्च यः सम्पिबेत्कश्चित्स पिबन्ब्रह्महा भवेत् ॥ 101c
प्रेतानां न च देयानि पिण्डदानानि केनचित् ॥ 102ac
कृष्णवर्णा विरूपा च निर्णीता लम्बमूर्धजा । 103a
दुनोत्यदृष्ट्वा कर्तारं ब्रह्महत्येति तां विदुः ॥ 103c
ब्रह्मघ्नेन पिबन्तश्च विप्रा देशाः पुराणि च । 104a
अचिरादेव पीड्यन्ते दुर्भिक्षव्याधितस्करैः ॥ 104c
ब्राह्मणं पापकर्माणं विप्राणामाततायिनम् । 105a
क्षत्रियं वैश्यशूद्रौ च नेत्रोद्धारेण योजयेत् ॥ 105c
दुर्बलानां बलं राजा बलिनो ये च साधवः । 106a
बलिनां दुर्बलानां च पापानां मृत्युरिष्यते ॥ 106c
सदोषमपि यो हन्यादश्राव्य जगतीपते । 107a
दुर्बलं बलवन्तं वा स पराजयमर्हति ॥ 107c
राजाज्ञां प्राड्विवाकं च नेच्छेद्यच्चापि निष्पतेत् । 108a
साक्षिणं साधुवाक्यं च जितं तमपि निर्दिशेत् ॥ 108c
बन्धनान्निष्पतेद्यच्च प्रतिभूर्न ददाति च । 109a
कुलजश्च धनाढ्यश्च स पराजयमर्हति ॥ 109c
राजाज्ञया समाहूतो यो न गच्छेत्सभां नरः । 110a
बलवन्तमुपाश्रित्य सायुधः स पराजितः ॥ 110c
तं दण्डेन विनिर्जित्य महासाहसिकं नरम् । 111a
वियुक्तदेहसर्वस्वं परलोकं विसर्जयेत् ॥ 111c
मृतस्यापि न देयानि पिण्डदानानि केनचित् । 112a
दत्त्वा दण्डं प्रयच्छेत मध्यमं पूर्वसाहसम् ॥ 112c
कुलस्त्रीव्यभिचारं च राष्ट्रस्य च विमर्दनम् । 113a
ब्रह्महत्यां च चौर्यं च राजद्रोहं च पञ्चमम् ॥ 113c
युद्धादन्यत्र हिंसायां सुरापस्य च कीर्तने । 114a
महान्तं गुरुतल्पे च मित्रद्रोहे च पातकम् ॥ 114c
न कथञ्चिदुपेक्षेत महासाहसिकं नरम् । 115a
सर्वस्वमपहृत्याशु ततः प्राणैर्वियोजयेत् ॥ 115c
त्रिषु वर्णेषु यो दण्डः प्रणीतो ब्रह्मणा पुरा । 116a
महासाहसिकं विप्रं कृताङ्कं विप्रवासयेत् ॥ 116c
साहस्रो वा भवेद्दण्डः काञ्चनो देहनिष्क्रिया । 117a
चतुर्णामपि वर्णानामेवमाहोशना कविः ॥ 117c
नारीणां बालवृद्धानां गोपतेश्च महामतिः । 118a
पापानां दुर्विनीतानां प्राणान्तं च बृहस्पतिः । 118c
दण्डमाह महाभाग सर्वेषामाततायिनाम् ॥ 118e
सर्वेषां पापबुद्धीनां पापकर्मैव कुर्वताम् । 119a
धृतराष्ट्रस्य पुत्राणां दण्डो निर्दोष इष्यते । 119c
सौबलस्य च दुर्बुद्धेः कर्णस्य च दुरात्मनः ॥ 119e
पश्यतां चैव शूराणां याऽहं द्यूते सभां तदा । 120a
रजस्वला समानीता भवतां पश्यतां नृप । 120c
वाससैकेन संवीता तव दोषेण भूपते ॥ 120e
माभूद्धर्मविलोपस्ते धृतराष्ट्रकुलक्षयात् । 121a
क्रोधाग्निना तु दग्धं च सपशुद्रव्यसञ्चयम् ॥ 121c
साऽहमेवंविधं दुःखं सम्प्राप्ता तव हेतुना । 122a
आदित्यस्य प्रसादेन न च प्राणैर्वियोजिता ॥ 122c
रक्षिता देवदेवेन जगतः कालहेतुना । 123a
दिवाकरेण देवेन विवस्त्रा न कृता तदा ॥' 123c
एतेषां यतमानानां न मेऽद्य वचनं मृषा । 124a
त्वं तु सर्वां महीं त्यक्त्वा कुरुषे स्वयमापदम् ॥ 124c
यथाऽऽस्तां सम्मतौ राज्ञां पृथिव्यां राजसत्तम । 125a
मान्धाता चाम्बरीषश्च तथा राजन्विराजसे ॥ 125c
प्रशाधि पृथिवीं देवीं प्रजा धर्मेण पालयन् । 126a
सपर्वतवनद्वीपां मा राजन्विमना भव ॥ 126c
यजस्व विविधैर्यज्ञैर्युध्यस्वारीन्प्रयच्छ च । 127a
धनानि भोगान्वासांसि द्विजातिभ्यो नृपोत्तम ॥ 127c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुर्दशोऽध्यायः ॥ 14 ॥

12-14-6 स्तोककाश्चातका वावाश्यमानाः पुनः पुनः क्रन्दन्तः ॥ 12-14-7 उपपन्नेन युक्तियुक्तेन ॥ 12-14-9 सर्वकामानां सर्वैरर्थैः ॥ 12-14-13 क्लीबोऽधीरः । अविपाला इवासत इति. ट. ड. पाठः । वत्सपाला इवासत इति थ. पाठः ॥ 12-14-57 प्रतिषेधो दण्डो राज्यान्निर्वासनं वा ॥ 12-14-58 दानम् आदानं च ते ॥ 12-14-59 सङ्कोचेन याच्ञया ॥ 12-14-63 अपरेण पश्चिमतः 12-14-64 क्रौञ्चद्वीपादिवशीकरणं सिद्धद्वारा राजसूये ॥ 12-14-73 सर्वे तेप्यवमानिता इति ट. ड. द. पठः ॥ 12-14-75 नस्यकर्म नासाद्वारा भेषजग्रहणम् ॥