अध्यायः 013 युधिष्ठिरम् प्रति सहदेववचनम् ॥ 1 ॥ सहदेव उवाच 001
न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत । 001a
शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा ॥ 001c
बाह्यद्रव्यविमुक्तस्य शारीरेष्वनुगृध्यतः । 002a
यो धर्मो यत्सुखं वा स्याद्द्विषतां तत्तथाऽस्तु नः ॥ 002c
शारीरं द्रव्यमुत्सृज्य पृथिवीमनुशासतः । 003a
यो धर्मो यत्सुखं वा स्यात्सुहृदां तत्तथाऽस्तु नः ॥ 003c
द्व्यक्षरस्तु भवेन्मृत्युत्र्यक्षरं ब्रह्म शाश्वतम् । 004a
ममेति द्व्यक्षरो मृत्युर्न ममेति च शाश्वतम् ॥ 004c
ब्रह्ममृत्यू ततो राजन्नात्मन्येव समाश्रितौ । 005a
अदृश्यमानौ भूतानि योजयेतामसंशयम् ॥ 005c
अविनाशोऽस्य सत्वस्य नियतो यदि भारत । 006a
हित्वा शरीरं भूतानां न हिंसा प्रतिपत्स्यते ॥ 006c
अथापि च सहोत्पत्तिः सत्वस्य प्रलयस्तथा । 007a
नष्टे शरीरे नष्टः स्याद्वृथा च स्यात्क्रियापथः ॥ 007c
तस्मादेकान्तमुत्सृज्य पूर्वैः पूर्वतरैश्च यः । 008a
पन्था निषेवितः सद्भिः स निषेव्यो विजानता ॥ 008c
'स्वायम्भुवेन मनुना तथाऽन्यैश्चक्रवर्तिभिः । 009a
यद्ययं ह्यधमः पन्थाः कस्मात्तैस्तैर्निषेवितः ॥ 009c
कृतत्रेतादियुक्तानि गुणवन्ति च भारत । 010a
युगानि बहुशस्तैश्च भुक्तेयमवनी नृप ॥' 010c
लब्ध्वाऽपि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम् । 011a
न भुङ्क्ते यो नृपः सम्यक्किम्फलं तस्य जीविते ॥ 011c
अथवा वसतो राजन्वने वन्येन जीवतः । 012a
द्रव्येषु यस्य ममता मृत्योरास्ये स वर्तते ॥ 012c
बाह्यान्तराणां भूतानां स्वभावं पश्य भारत । 013a
ये तु पश्यन्ति तद्भूतं मुच्यन्ते ते महाभयात् ॥ 013c
भवान्पिता भवान्माता भवान्भ्राता भवान्गुरुः । 014a
दुःखप्रलापानार्तस्य तन्मे त्वं क्षन्तुमर्हसि ॥ 014c
तथ्यं वा यदि वाऽतथ्यं यन्मयैतत्प्रभाषितम् । 015a
तद्विद्धि पृथिवीपाल भक्त्या भरतसत्तम ॥ 015c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्रयोदशोऽध्यायः ॥ 13 ॥

12-13-2 सुहृदां तत्तथास्तु न इति ड. थ. पाठः ॥ 12-13-4 ममेति स्वीकारः नममेति परित्यागश्च एतौ मृत्युशाश्वतौ संसारमोक्षयोर्मूले इत्यर्थः ॥ 12-13-7 सत्वस्य कर्तृत्वधर्मवत्या बुद्धेः ॥