अध्यायः 012
युधिष्ठिरम् प्रति नकुलवाक्यम् ॥ 1 ॥
वैशम्पायन उवाच 001
अर्जुनस्य वचः श्रुत्वा नकुलो वाक्यमब्रवीत् । 001a
राजानमभिसम्प्रेक्ष्य सर्वधर्मभृतां वरम् ॥ 001c
अनुरुध्य महाप्राज्ञो भ्रातुश्चित्तमरिन्दम । 002a
व्यूढोरस्को महाबाहुस्ताम्रास्यो मितभाषिता ॥ 002c
नकुल उवाच 003
विशाखयूपे देवानां सर्वेषामग्नयश्चिताः । 003a
तस्माद्विद्धि महाराज देवाः कर्मफले स्थिताः ॥ 003c
अनास्तिकानां भूतानां प्राणदाः पितरश्च ये । 004a
तेऽपि कर्मैव कुर्वन्ति विधिं पश्यस्व पार्थिव ॥ 004c
वेदवादापविद्धास्तु तान्विद्धि भृशनास्तिकान् । 005a
न हि वेदोक्तमुत्सृज्य विप्रः सर्वेषु कर्मसु ॥ 005c
देवयानेन नाकस्य पृष्ठमाप्नोति भारत । 006a
अत्याश्रमानयं सर्वानित्याहुर्वेदनिश्चयाः ॥ 006c
ब्राह्मणाः श्रुतिसम्पन्नास्तान्निबोध नराधिप । 007a
वित्तानि धर्मलब्धानि क्रतुमुख्येष्ववासृजन् ॥ 007c
कृतात्मा स महाराज स वै त्यागी स्मृतो नरः ॥ 008ac
अनवेक्ष्य सुखादानं तथैवोर्ध्वं प्रतिष्ठितः । 009a
आत्मत्यागी महाराज स त्यागी तापसो मतः ॥ 009c
अनिकेतः परिपतन्वृक्षमूलाश्रयो मुनिः । 010a
अयाचकः सदायोगी स त्यागी पार्थ भिक्षुकः ॥ 010c
क्रोधहर्षावनादृत्य पैशुन्यं च विशेषतः । 011a
विप्रो वेदानधीते यः स त्यागी गुरुपूजकः ॥ 011c
आश्रमांस्तुलया सर्वान्धृतानाहुर्मनीषिणः । 012a
एकतश्च त्रयो राजन्गृहस्थाश्रम एकतः ॥ 012c
समीक्ष्य तुलया पार्थ कामं स्वर्गं च भारत । 013a
अयं पन्था महर्षीणामियं लोकविदां गतिः ॥ 013c
इति यः कुरुते भावं स त्यागी भरतर्षभ । 014a
नरः परित्यज्य गृहान्वनमेति विमूढवत् ॥ 014c
यदा कामान्समीक्षेत धर्मवैतंसिको नरः । 015a
अथैनं मृत्युपाशेन कण्ठे बध्नाति मृत्युराट् ॥ 015c
अभिमानकृतं कर्म नैतत्फलवदुच्यते । 016a
त्यागयुक्तं महाराज सर्वमेव महाफलम् ॥ 016c
शमो दमस्तथा धैर्यं सत्यं शौचमथार्जवम् । 017a
यज्ञो धृतिश्च धर्मश्च नित्यमार्षो विधिः स्मृतः ॥ 017c
पितृदेवातिथिकृते समारम्भोऽत्र शस्यते । 018a
अत्रैव हि महाराज त्रिवर्गः केवलं फलम् ॥ 018c
एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते । 019a
त्यागिनः प्रसृतस्येह नोच्छित्तिर्विद्यते क्वचित् ॥ 019c
असृजद्धि प्रजा राजन्प्रजापतिरकल्मषः । 020a
मां यक्ष्यन्तीति धर्मात्मा यज्ञैर्विविधदक्षिणैः ॥ 020c
वीरुधश्चैव वृक्षांश्च यज्ञार्थं वै तथौषधीः । 021a
पशूंश्चैव तथा मेध्यान्यज्ञार्थानि हवींषि च ॥ 021c
गृहस्थाश्रमिणस्तच्च यज्ञकर्माविरोधितम् । 022a
तस्माद्गार्हस्थ्यमेवेह दुष्करं दुर्लभं तथा ॥ 022c
तत्सम्प्राप्य गृहस्था ये पशुधान्यधनान्विताः । 023a
न यजन्ते महाराज शाश्वतं तेषु किल्बिषम् ॥ 023c
स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथा परे । 024a
अथापरे महायज्ञान्मनस्येव वितन्वते ॥ 024c
'इदमन्यन्महाराज विद्वद्भिः कथितं मम । 025a
भूमिरग्निश्च वायुश्च न चापो न दिवाकरः ॥ 025c
नक्षत्राणि न चन्द्रश्च न दिशः काल एव च । 026a
शब्दः स्पर्शश्च रूपं च न गन्धो न रसः क्वचित् ॥ 026c
न च सन्ति प्रमाणानि यैः प्रमेयं प्रसाध्यते । 027a
प्रत्यक्षमनुमानं न नोपमानमथागमः ॥ 027c
नार्थापत्तिर्न चैतिह्यं न दृष्टान्तो न संशयः । 028a
न क्वचिन्निर्णयो राजन्न धर्माधर्म एव च ॥ 028c
तिर्यक्च स्थावरं चैव न देवा न च मानुषाः । 029a
वर्णाश्रमविभागाश्च न च कर्ता न कामकृत् । 029c
न चार्थश्च विभूतिश्च न चार्थस्य विचेष्टितम् ॥ 029e
तमोभूतमिदं सर्वमनालोकं जगन्नृप । 030a
न चात्मा विद्यमानोपि मनसा योगमिच्छति ॥ 030c
अचेतनं मनस्त्वासीदात्मा एव सचेतनः । 031a
ईश्वरश्चेतनस्त्वेकस्तेनेदं गहनीकृतम् । 031c
मन्त्राश्च चेतना राजन्न च देहेन योजिताः ॥ 031e
तेन विश्वसृजो नाम ऋषयो मन्त्रदेवताः । 032a
चैतन्यमीश्वरात्प्राप्य ब्रह्माण्डं तैर्विनिर्मितम् ॥ 032c
इष्ट्वा विश्वसृजं यज्ञं निर्मितः प्रपितामहः । 033a
सृष्टिस्तेन समारब्धा प्रसादादीश्वरस्य च ॥ 033c
चैतन्यमीश्वरस्येदं सचेतनमिदं जगत् । 034a
योगेन च समाविष्टं जगत्कृत्स्नं च शम्भुना ॥ 034c
धर्मश्चार्थश्च कामश्च उक्तो मोक्षश्च सङ्क्षये । 035a
ब्रह्मणः परमेशस्य ईश्वरेण यदृच्छया ॥ 035c
अज्ञो जन्तुरनीशश्च भाजनं सुखदुःखयोः । 036a
ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥ 036c
प्रधानं पुरुषं चैव आत्मानं सर्वदेहिनाम् । 037a
मनसा विषयैश्चैव चेतनेन प्रचोदिताः । 037c
सुखदुःखेन युज्यन्ते कर्मभिश्च प्रचोदिताः ॥ 037e
वर्णाश्रमविभागाश्च ईश्वरेण प्रवर्तिताः । 038a
सदेवासुरगन्धर्वं येनेदं निर्मितं जगत् ॥ 038c
त्वं चान्ये च महाराज ईश्वरस्य वशे स्थिताः । 039a
जीवन्ते च म्रियन्ते च न स्वतन्त्राः कथञ्चन ॥ 039c
हित्वाहित्वा च भूतानि हत्वा सर्वमिदं जगत् । 040a
यजन्ते कर्मणा देवा न स पापेन लिप्यते ॥ 040c
हिंसात्मकानि कर्माणि सर्वेषां गृहमेधिनाम् । 041a
देवतानामृषीणां च ते च यान्ति परां गतिम् ॥ 041c
पातिताः शत्रवः पूर्व सर्वत्र वसुधाधिपैः । 042a
प्रजानां हितकामैश्च आत्मनश्च हितैषिभिः || 042c
यदि तत्र भवेत्पापं कथं ते स्वर्गमास्थिताः । 043a
न प्राप्ता नरकं राजन्वेष्टिताः पापकर्मभिः ॥' 043c
एवं मनःसमाधानं मार्गमातिष्ठतो नृप । 044a
द्विजातेर्ब्रह्मभूतस्य स्पृहयन्ति दिवौकसः ॥ 044c
स रत्नानि विचित्राणि संहृतानि ततस्ततः । 045a
मखेष्वनभिसन्त्यज्य नास्तिक्यमभिजल्पसि ॥ 045c
कुटुम्बमास्थिते त्यागं न पश्यामि नराधिप । 046a
राजसूयाश्वमेधेषु सर्वमेधेषु वा पुनः ॥ 046c
ये चान्ये क्रतवस्तात ब्राह्मणैरभिपूजिताः । 047a
तैर्यजस्व महीपाल शक्रो देवपतिर्यथा || 047c
राज्ञः प्रमाददोषेण दस्युभिः परिमुष्यताम् । 048a
अशरण्यः प्रजानां यः स राजा कलिरुच्यते ॥ 048c
अश्वान्गाश्चैव दासीश्च करेणूश्च स्वलङ्कृताः । 049a
ग्रामाञ्जनपदांश्चैव क्षेत्राणि च गृहाणि च ॥ 049c
अप्रदाय द्विजातिभ्यो मात्सर्याविष्टचेतसः । 050a
वयं ते राजकलयो भविष्याम विशाम्पते ॥ 050c
अदातारोऽशरण्याश्च राजकिल्बिषभागिनः । 051a
दुःखानामेव भोक्तारो न सुखानां कदाचन ॥ 051c
अनिष्ट्वा च महायज्ञैरकृत्वा च पितृस्वधाम् । 052a
तीर्थेष्वनभिसम्प्लुत्य प्रव्रजिष्यसि चेत्प्रभो ॥ 052c
छिन्नाभ्रमिव गन्तासि विलयं मारुतेरितम् । 053a
लोकयोरुभयोर्भ्रष्टो ह्यन्तराले व्यवस्थितः ॥ 053c
अन्तर्बहिश्च यत्किञ्चिन्मनोव्यासङ्गकारकम् । 054a
परित्यज्य भवेत्त्यागी न हित्वा प्रतितिष्ठति ॥ 054c
एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते । 055a
ब्राह्मणस्य महाराज नोच्छित्तिर्विद्यते क्वचित् ॥ 055c
निहत्य शत्रूंस्तरसा समृद्धाञ्शक्रो यथा दैत्यबलानि सङ्ख्ये । 056a
कः पार्थ शोचेन्निरतः स्वधर्मे पूर्वैः स्मृते पार्थिवशिष्टजुष्टे ॥ 056c
क्षात्रेण धर्मेण पराक्रमेण जित्वा महीं मन्त्रविद्भ्यः प्रदाय । 057a
नाकस्य पृष्ठेऽसि नरेन्द्र गन्ता न शोचितव्यं भवताऽद्य पार्थ ॥ 057c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्वादशोऽध्यायः ॥ 12 ॥
12-12-2 तम्रास्यो दुःखेन विवर्णमुखः ॥ 12-12-3 विशाखयूपे क्षेत्रविशेषे । देवानां देवैः । अग्नयोऽग्निस्थापनार्थानि स्थण्डिलानि । चिता इष्टकाभी रचिता अद्यापि दृश्यन्ते । तेन देवत्वमपि कर्मफलमेवेत्यर्थः । विशालयूप इति थ. पाठः ॥ 12-12-4 अनास्तिकानामास्तिक्यशून्यानामपि प्राणदा वृष्टिद्वारा अन्नप्रदाः । विधिम् अग्निं वा अकामयतेत्यादि अग्न्यादिभावस्य कर्मसाध्यत्वज्ञापकम् । अनास्तिकनास्तिकानां प्राणदा इति थ. ड. पाठः ॥ 12-12-5 वेदवादः अपविद्धस्त्यक्तो यैस्तान् ॥ 12-12-6 देवयानेन मार्गेण । पृष्ठमुपरिभागं ब्रह्मलोकमित्यर्थः । अयं गृहाश्रमः सर्वानाश्रमान् अति अतिक्रान्तः । तेभ्यः श्रेष्ठ इत्यर्थः ॥ 12-12-7 तान्ब्राह्मणान् गत्वा निबोध बुध्यस्व । अवासृजन् समार्पयन् ॥ 12-12-8 कृतात्मा जितचित्तः ॥ 12-12-9 सुखादानं गार्हथ्यसुखभोगम् । ऊर्ध्वं वनादौ प्रतिष्ठितो निष्ठावान् सन्यः आत्मत्यागी देहत्यागी ॥ 12-12-10 परिपतन् भिक्षार्थं पर्यटन् ॥ 12-12-13 आश्रमान्तरे स्वर्गएवास्ति न कामः । गार्हस्थ्ये तूभयमस्तीति अयमेव मार्गो गतिश्चेत्यर्थः ॥ 12-12-15 धर्मवैतंसिको धर्मध्वजी ॥ 12-12-16 त्यागयुक्तम् अभिमानत्यागोपेतम् ॥ 12-12-17 आर्षः ऋषीणां हितः ॥ 12-12-18 अत्र गार्हस्थ्ये ॥ 12-12-19 इह विधौ । प्रसृतस्य निष्ठावतः ॥ 12-12-48 प्रमादो राज्याकरणम् । परिमुष्यतां लुप्यमानानाम् ॥ 12-12-53 अन्तराले पिशाचयोनौ ॥