अध्यायः 010
युधिष्ठिरम् प्रति भीमसेनवचनम् ॥ 1 ॥
भीम उवाच 001
श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः । 001a
अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी ॥ 001c
आलस्ये कृतचित्तस्य राजधर्मानसूयतः । 002a
विनाशे धार्तराष्ट्राणां किं फलं भरतर्षभ ॥ 002c
क्षमाऽनुकम्पा कारुण्यमानृशंस्यं न विद्यते । 003a
क्षात्रमाचरतो मार्गमपि बन्धोस्त्वदन्तरे ॥ 003c
यदीमां भवतो बुद्धिं विद्याम वयमीदृशीम् । 004a
शस्त्रं नैव ग्रहीष्यामो न वधिष्याम कञ्चन ॥ 004c
भैक्षमेवाचरिष्याम शरीरस्याविमोक्षणात् । 005a
न चेदं दारुणं युद्धमभविष्यन्महीक्षिताम् ॥ 005c
प्राणस्यान्नमिदं सर्वमिति वै कवयो विदुः । 006a
स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् ॥ 006c
आददानस्य चेद्राज्यं ये केचित्परिपन्थिनः । 007a
हन्तव्यास्त इति प्राज्ञाः क्षत्रधर्मविदो विदुः ॥ 007c
ते सदोषा हताऽस्माभिरन्नस्य परिपन्थिनः । 008a
तान्हत्वा भुङ्क्ष्व धर्मेण युधिष्ठिर महीमिमाम् ॥ 008c
यथा हि पुरुषः खात्वा कूपमप्राप्य चोदकम् । 009a
पङ्कदिग्धो निवर्तेत कर्मेदं नस्तथोपमम् ॥ 009c
यथाऽऽरुह्य महावृक्षमपहृत्य ततो मधु । 010a
अप्राश्य निधनं गच्छेत्कर्मेदं नस्तथोपमम् ॥ 010c
यथा महान्तमध्वानमाशया पुरुषः पतन् । 011a
स निराशो निवर्तेत कर्मैतन्नस्तथोपमम् ॥ 011c
यथा शत्रून्घातयित्वा पुरुषः कुरुनन्दन । 012a
आत्मानं घातयेत्पश्चात्कर्मेदं नस्तथोपमम् ॥ 012c
यथान्नं क्षुधितो लब्ध्वा न भुञ्जीयाद्यदृच्छया । 013a
कामी च कामिनीं लब्ध्वा कर्मेदं नस्तथोपमम् ॥ 013c
वयमेवात्र गर्ह्या हि यद्वयं मन्दचेतसम् । 014a
त्वां राजन्ननुगच्छामो ज्येष्ठोऽयमिति भारत ॥ 014c
वयं हि बाहुबलिनः कृतविद्या मनस्विनः । 015a
क्लीबस्य वाक्ये तिष्ठामो यथैवाशक्तयस्तथा ॥ 015c
अगतीकगतीनस्मान्नष्टार्थानर्थसिद्धये । 016a
कथं वै नानुपश्येयुर्जनाः पश्यत यादृशम् ॥ 016c
आपत्काले हि सन्न्यासः कर्तव्य इति शिष्यते । 017a
जरयाऽभिपरीतेन शत्रुभिर्व्यंसितेन वा ॥ 017c
तस्मादिह कृतप्रज्ञास्त्यागं न परिचक्षते । 018a
धर्मव्यतिक्रमं चैव मन्यन्ते सूक्ष्मदर्शिनः ॥ 018c
कथं तस्मात्समुत्पन्नास्तन्निष्ठास्तदुपाश्रयाः । 019a
तदेव निन्दां भाषेयुर्धाता तत्र न गर्ह्यते ॥ 019c
श्रिया विहीनैरधनैर्नास्तिकैः सम्प्रवर्तितम् । 020a
वेदवादस्य विज्ञानं सत्याभासमिवानृतम् ॥ 020c
शक्यं तु मौनमास्थाय बिभ्रताऽऽत्मानमात्मना । 021a
धर्मच्छझ समास्थाय च्यवितुं न तु जीवितुम् || 021c
शक्यं पुनररण्येषु सुखमेकेन जीवितुम् । 022a
अबिभ्रता पुत्रपौत्रान्देवर्षीनतिथीन्पितॄन् ॥ 022c
नेमे मृगाः स्वर्गजितो न वराहा न पक्षिणः । 023a
अथान्येन प्रकारेण पुण्यमाहुर्न ते जनाः ॥ 023c
यदि सन्न्यासतः सिद्धिं राजा कश्चिदवाप्नुयात् । 024a
पर्वताश्च द्रुमाश्चैव क्षिप्रं सिद्धिमवाप्नुयुः ॥ 024c
एते हि नित्यसन्न्यासा दृश्यन्ते निरुपद्रवाः । 025a
अपरिग्रहवन्तश्च सततं ब्रह्मचारिणः ॥ 025c
अथ चेदात्मभाग्येषु नान्येषां सिद्धिमश्नुते । 026a
तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः ॥ 026c
औदकाः सृष्टयश्चैव जन्तवः सिद्धिमाप्नुयुः । 027a
तेषामात्मैव भर्तव्यो नान्यः कश्चन विद्यते ॥ 027c
अवेक्षस्व यथा स्वैः कर्मभिर्व्यापृतं जगत् । 028a
तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः ॥ 028c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि दशमोऽध्यायः ॥ 10 ॥
12-10-1 श्रोत्रियस्य वेदपाठकस्य मन्दत्वादेवाविपश्चितोऽर्थज्ञानशून्यस्य । अनुवाकेन नित्यपाठेन हता नष्टा ॥ 12-10-3 त्वदन्तरे त्वत्तोऽन्यत्र ॥ 12-10-6 प्राणस्य प्राणवतो बलिष्ठस्येदं सर्वमन्नमिवान्नं भोग्यम् । भोजनं भुज्यते पाल्यते इति व्युत्पत्त्या पालनीयम् ॥ 12-10-8 हतास्माभिरिति सन्धिरार्षः । हत्वा निघ्नन् त्वं । हन्तेरन्येभ्योऽपि दृश्यत इति क्वनिप् अनुनासिकलोपो ह्रस्वस्येति तुक् । राज्यस्य परिपन्थिन इति झ. पाठः ॥ 12-10-9 तथा तेन प्रकारेणोपमीयत इति तथोपमम् ॥ 12-10-11 पतन् गच्छन् || 12-10-15 अशक्तयः शक्तिहीनाः ॥ 12-10-16 अगतीकगतीननाथरक्षकान् । दैर्घ्यमार्षम् । एतत् यादृशं मम वचनं तादृशं पश्यत ।युक्तमयुक्तं वेति परीक्षयतेत्यर्थः ॥ 12-10-17 व्यंसितेन दुर्गतिं प्रापितेन ॥ 12-10-18 त्यागं सन्न्यासम् । क्षत्रियस्य मौण्ड्यादिकं निषिद्धं तस्याचरणे धर्मव्यतिक्रमोऽस्त्येवेति भावः ॥ 12-10-19 हिंसार्थमुत्पन्ना हिंस्रयोनौ जाताः । हिंसैकजीवनास्तदेव तस्यैव हिंस्रधर्मस्य निन्दां कथं भाषेयुः । कथं वा तत्र धाता तस्य धर्मस्य स्रष्टा न गर्ह्यते न निन्द्यते । धातृविहितत्वात्सहजत्वाच्च नासौ धर्मो निन्द्य इत्यर्थः । तएव भूषयेयुर्ये ते श्रद्धाह्यत्र गर्ह्यते इति द. पाठः ॥ 12-10-20 श्रिया विहीनैरनयैर्नास्तिकैः सम्प्रकीर्तितम् । वेदाभासमिवाज्ञानमिति थ. पाठः । श्रिया त्रय्या विद्यया विहीनैः । अधनैर्लक्ष्म्या च हीनैः । इदमनृतं सम्प्रवर्तितम् । वेदयतीति वेदो विधिस्तस्य वादोऽर्थवादस्तत्सम्बन्धि विज्ञानं सन्न्यासविधिस्तुत्यर्थं भरतादिकीर्तनं प्रजापतिवपोत्खननवदर्थवादो नतु तावता मौण्ड्ये क्षत्रियस्याधिकारः सिध्यतीति भावः ॥ 12-10-21 आत्मानं देहमात्मना स्वेनैव बिभ्रता निश्चलं स्थापयता धर्मच्छद्म कपटयोगम् आस्थाय च्यवितुं मर्तुमेव शक्यं न जीवितुम् । केवलं प्रणिधानेन शरीरनाशो भवेदित्यर्थः ॥ 12-10-26 आत्मभाग्येषु स्वसम्पत्सु अन्येषां सिद्धिं परकर्मार्जितं फलम् ॥