अध्यायः 009 युधिष्ठिरस्य निर्वेदवचनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
मुहूर्तं तावदेकाग्रो मनः श्रोत्रेऽन्तरात्मनि । 001a
धारयन्नपि ते श्रुत्वा रोचते वचनं मम ॥ 001c
सार्थगम्यमहं मार्गं न जातु त्वत्कृते पुनः । 002a
गच्छेयं तं गमिष्यामि हित्वा ग्राम्यसुखान्युत ॥ 002c
क्षेम्यश्चैकाकिना गम्यः पन्था कोस्तीति पृच्छ माम् । 003a
अथवा नेच्छसि प्रष्टुमपृच्छन्नपि मे शृणु ॥ 003c
हित्वा ग्राम्यसुखाचारं तप्यमानो महत्तपः । 004a
अरण्ये फलमूलाशी चरिष्यामि मृगैः सह ॥ 004c
जुह्वानोऽग्निं यथाकालमुभौ कालावुपस्पृशन् । 005a
कृशः परिमिताहारश्चर्मचीरजटाधरः ॥ 005c
शीतवातातपसहः क्षुत्पिपासाश्रमक्षमः । 006a
तपसा विधिदृष्टेन शरीरमुपशोषयन् ॥ 006c
मनःकर्णसुखा नित्यं श्रृण्वन्नुच्चावचा गिरः । 007a
मुदितानामरण्येषु नदतां मृगपक्षिणाम् । 007c
आजिघ्रन्पेशलान्गन्धान्फुल्लानां वृक्षवीरुधाम् ॥ 007e
नानारूपान्वने पश्यन्रमणीयान्वनौकसः ॥ 008ac
वानप्रस्थजनस्यापि दर्शनं कूलवासिनः । 009a
नाप्रियाण्याचरिष्यामि किम्पुनर्ग्रामवासिनाम् ॥ 009c
एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् । 010a
पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ॥ 010c
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् । 011a
सेवमानः प्रतीक्षिष्ये देहस्यास्य समापनम् ॥ 011c
अथवैकोऽहमेकाहमेकैकस्मिन्वनस्पतौ । 012a
चरन्भैक्षं मुनिर्मुण्डः क्षपयिष्ये कलेवरम् ॥ 012c
पांसुभिः समभिच्छन्नः शून्यागारप्रतिश्रयः । 013a
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥ 013c
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः । 014a
निराशीर्निर्ममो भूत्वा निर्द्वन्द्वो निष्परिग्रहः ॥ 014c
आत्मारामः प्रसन्नात्मा जडान्धबधिराकृतिः । 015a
अकुर्वाणः परैः काञ्चित्संविदं जातु कैरपि ॥ 015c
जङ्गमाजङ्गमान्सर्वानविहिंसंश्चतुर्विधान् । 016a
प्रजाः सर्वाः स्वधर्मस्थाः समः प्राणभृतः प्रति ॥ 016c
न चाप्यवहसन्कञ्चिन्न कुर्वन्भ्रुकुटीः क्वचित् । 017a
प्रसन्नवदनो नित्यं सर्वेन्द्रियसुसंयतः ॥ 017c
अपृच्छन्कस्यचिन्मार्गं प्रव्रजन्नेव केनचित् । 018a
न देशं न दिशं काञ्चिद्गन्तुमिच्छन्विशेषतः ॥ 018c
गमने निरपेक्षश्च पश्चादनवलोकयन् । 019a
ऋजुः प्रणिहितो गच्छन्स्त्रीसंस्थापरिवर्जकः ॥ 019c
स्वभावस्तु प्रयात्यग्रे प्रभवन्त्यशनान्यपि । 020a
द्वन्द्वानि च विरुद्धानि तानि सर्वाण्यचिन्तयन् ॥ 020c
अल्पं वा स्वादु वा भोज्यं पूर्वालाभेन जातुचित् । 021a
अन्येष्वपि चरल्ँलाभमलाभे सप्त पूरयन् ॥ 021c
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने । 022a
अतीतपात्रसञ्चारे काले विगतभिक्षुके ॥ 022c
एककालं चरन्भैक्षं त्रीनथ द्वे च पञ्च वा । 023a
स्नेहपाशं विमुच्याहं चरिष्यामि महीमिमाम् ॥ 023c
अलाभे सति वा लाभे समदर्शी महातपाः । 024a
न जिजीविषुवत्किञ्चिन्न मुमूर्षुवदाचरन् ॥ 024c
जीवितं मरणं चैव नाभिनन्दन्न च द्विषन् । 025a
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः । 025c
नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः ॥ 025e
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः । 026a
सर्वास्ताः समभित्यज्य निमेषादिव्यवस्थितः ॥ 026c
तेषु नित्यमसक्तश्च त्यक्तसर्वेन्द्रियक्रियः । 027a
अपरित्यक्तसङ्कल्पः सुनिर्णिक्तात्मकल्मषः ॥ 027c
विमुक्तः सर्वसङ्गेभ्यो व्यतीतः सर्ववागुराः । 028a
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ॥ 028c
वीतरागश्चरन्नेवं तुष्टिं प्राप्स्यामि मानसीम् । 029a
तृष्णया हि महत्पापमज्ञानादस्मि कारितः ॥ 029c
कुशलाकुशलान्येके कृत्वा कर्माणि मानवाः । 030a
कार्यकारणसंश्लिष्टं स्वजनं नाम बिभ्रति ॥ 030c
आयुषोऽन्ते प्रहायेदं क्षीणप्राणं कलेवरम् । 031a
प्रतिगृह्णाति तत्पापं कर्तुः कर्मफलं हि तत् ॥ 031c
एवं संसारचक्रेऽस्मिन्व्याविद्धे रथचक्रवत् । 032a
समेति भूतग्रामोऽयं भूतग्रामेण कार्यवान् ॥ 032c
जन्ममृत्युजराव्याधिवेदनाभिरभिद्रुतम् । 033a
अपारमिव चास्वस्थं संसारं त्यजतः सुखम् ॥ 033c
दिवः पतत्सु देवेषु स्थानेभ्यश्च महर्षिषु । 034a
को हि नाम भवेनार्थी भवेत्कारणतत्त्ववित् ॥ 034c
कृत्वा हि विविधं कर्म तत्तद्विविधलक्षणम् । 035a
पार्थिवैर्नृपतिः स्वल्पैः कारणैरेव बध्यते ॥ 035c
तस्मात्प्रज्ञामृतमिदं चिरान्मां प्रत्युपस्थितम् । 036a
तत्प्राप्य प्रार्थये स्थानमव्ययं शाश्वतं ध्रुवम् ॥ 036c
एतया सन्ततं धृत्या चरन्नेवम्प्रकारया । 037a
जन्ममृत्युजराव्याधिवेदनाभिरभिद्रुतम् । 037c
देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः ॥ 037e

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि नवमोऽध्यायः ॥ 9 ॥

12-9-1 मुहूर्तं तावदेकाग्रो मनः श्रोत्रेऽन्तरात्मनि । धारयन्नपि तच्छ्रुत्वा रोचेत वचनं ममेति झ. पाठः । 12-9-8 पेशलान्रम्यान् ॥ 12-9-15 आत्मारामः योगेनात्मन्येव रममाणः । प्रसन्नात्मा शुद्धसत्वः । केनचिन्निमित्तेन संविदं संवादमकुर्वाणः कृत्याभावात् ॥ 12-9-16 चतुर्विधान् जङ्गमस्य जरायुजाण्डजस्वेदजभेदेन त्रैविध्यात् । स्वधर्मस्थाः प्राणभृत इन्द्रियपोषकाश्च प्रजाः प्रति सम इत्यन्वयः ॥ 12-9-18 केनचिन्मार्गेण ॥ 12-9-19 प्रणिहितोऽन्तर्मुखः ॥ 12-9-21 पूर्वालाभेन पूर्वस्मिन् गृहेऽलाभेन हेतुना जातु कदाचित् । अन्येष्वपि गृहेषु लाभं लब्धमन्नं चरन्भक्षयन् ॥ 12-9-22 भैक्षकालमाह विधूमे इति । गृहे इति शेषः ॥ 12-9-23 त्रीन्गृहान् ॥ 12-9-24 जिजीविषुवद्धनादिसङ्ग्रहम् । मुमूर्षुवदन्नादित्यागम् ॥ 12-9-25 वासी तक्षायुधं तया ॥ 12-9-26 निमेषोन्मेषाशनपानादिशारीरनिर्वाहमात्रकर्मस्ववस्थित इत्यर्थः ॥ 12-9-27 तेष्वपि कर्मसु असक्तः । अपरित्यक्तो नित्यं वशीकृतः सङ्कल्पो मनः क्रिया येन । दृढमना इत्यर्थः । सुनिर्णिक्तात्मकल्मषः सम्यग्दूरीकृतधीमलः ॥ 12-9-28 वागुराः स्नेहपाशान् ॥ 12-9-30 एके मूढाः कार्यकारणसंश्लिष्टं स्वसुखेन निमित्तभूतेन संलग्नं स्त्र्यादिकं बिभ्रत्यात्मोपकारकत्वेन पुष्णन्ति । कुशलाकुशलान्येवं कृत्वा कर्माणि मानवः । कार्यकारणसंश्लिष्टं स्वजनं नाभिनन्दति इति ड. पाठः ॥ 12-9-32 व्याविद्धे भ्राम्यमाणे । समेति संयोगमेति ॥ 12-9-35 विविधं सामाद्युपायवत् विविधलक्षणं नानाविधकपटादिरूपं कर्म कृत्वा स्वल्पैः पार्थिवैः क्षुद्रराजभिर्नृपतिर्महाराजो बध्यते । कारणैः स्वापमानादिभिर्हेतुभिः बहवो मिलित्वा एकं महान्तं घ्नन्तीत्यर्थः ॥ 12-9-36 यस्माद्दुःखमयं क्षयिष्णु च ऐश्वर्यं तस्मात् । स्थानं मोक्षम् । अव्ययमपक्षयशून्यम् । शाश्वतमनादि । ध्रुवं सदैकरूपम् ॥ 12-9-37 संस्थापयिष्यामि समापयिष्यामि ॥