अध्यायः 008
युधिष्ठिरम् प्रत्यर्जुनवचनम् ॥ 1 ॥
वैशम्पायन उवाच 001
अथार्जुन उवाचेदमधिक्षिप्त इवाक्षमी । 001a
अभिनीततरं वाक्यं दृढवादपराक्रमः ॥ 001c
दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः । 002a
स्मयमानो महातेजाः सृक्किणी परिसंलिहन् ॥ 002c
अर्जुन उवाच 003
अहो दुःखमहो कृच्छ्रमहो वैक्लव्यमुत्तमम् । 003a
यत्कृत्वाऽमानुषं कर्म त्यजेथाः श्रियमुत्तमाम् ॥ 003c
शत्रून्हत्वा महीं लब्ध्वा स्वधर्मेणोपपादिताम् । 004a
हतामित्रः कथं स त्वं त्यजेथा बुद्धिलाघवात् ॥ 004c
क्लीबस्य हि कुतो राज्यं दीर्घसूत्रस्य वा पुनः । 005a
किमर्थं च महीपालानवधीः क्रोधमूर्च्छितः ॥ 005c
यो ह्याजिजीविषेद्भैक्षं कर्मणा नैव कस्य चित् । 006a
समारम्भान्बुभूषेत हतस्वस्तिरकिञ्चनः । 006c
सर्वलोकेषु विख्यातो न पुत्रपशुसंहितः ॥ 006e
कापालीं नृप पापिष्ठां वृत्तिमासाद्य जीवतः । 007a
सन्त्यज्य राज्यमृद्धं ते लोकोऽयं किं वदिष्यति ॥ 007c
सर्वारम्भान्समुत्सृज्य हतस्वस्तिरकिञ्चनः । 008a
कस्मादाशंससे भैक्षं चर्तुं प्राकृतवत्प्रभो ॥ 008c
कस्माद्राजकुले जातो जित्वा कृत्स्नां वसुन्धराम् । 009a
धर्मार्थावखिलौ हित्वा वनं मौढ्यात्प्रतिष्ठसे ॥ 009c
यदीमानि हवींषीह विमथिष्यन्त्यसाधवः । 010a
भवता विप्रहीणत्वात्प्राप्तं त्वामेव किल्बिषम् ॥ 010c
आकिञ्चन्यं मुनीनां च इति वै नहुषोऽब्रवीत् । 011a
कृत्वा नृशंसं ह्यधने धिगस्त्वधनतामिह ॥ 011c
आश्वस्तन्यमृषीणां हि विद्यते वेद तद्भवान् । 012a
यं त्विमं धर्ममित्याहुर्धनादेष प्रवर्तते ॥ 012c
धर्मं स हरते तस्य धनं हरति यस्य यः । 013a
ह्रियमाणे धने राजन्वयं कस्य क्षमेमहि ॥ 013c
अभिशस्तं प्रपश्यन्ति दरिद्रं पार्श्वतः स्थितम् । 014a
दारिद्र्यं पातकं लोके कस्तच्छंसितुमर्हति ॥ 014c
पतितः शोच्यते राजन्निर्धनश्चापि शोच्यते । 015a
विशेषं नाधिगच्छामि पतितस्याधनस्य च ॥ 015c
अर्थेभ्यो हि विवृद्धेभ्यः सम्भृतेभ्यस्ततस्ततः । 016a
क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥ 016c
अर्थाद्धर्मश्च कामश्च स्वर्गश्चैव नराधिप । 017a
प्राणयात्राऽपि लोकस्य विना ह्यर्थं न सिद्ध्यति ॥ 017c
अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः । 018a
विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ 018c
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । 019a
यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ॥ 019c
अधनेनार्थकामेन नार्थः शक्यो विधित्सितुम् । 020a
अर्थैरर्था निबध्यन्ते गजैरिव महागजाः ॥ 020c
धर्मः कामश्च स्वर्गश्च हर्षः क्रोधः श्रुतं दमः । 021a
अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ॥ 021c
धनात्कुलं प्रभवति धनाद्धर्मः प्रवर्धते । 022a
नाधनस्यास्त्ययं लोको न परः पुरुषोत्तम ॥ 022c
नाधनो धर्मकृत्यानि यथावदनुतिष्ठति । 023a
धनाद्धि धर्मः स्रवति शैलादभिनदी यथा ॥ 023c
यः कृशार्थः कृशगवः कृशभृत्यः कृशातिथिः । 024a
स वै राजन्कृशो नाम न शरीरकृशः कृशः ॥ 024c
अवेक्षस्व यथान्यायं पश्य देवासुरं यथा । 025a
राजन्किमन्यज्ज्ञातीनां वधाद्गृध्यन्ति देवताः ॥ 025c
न चेद्धर्तव्यमन्यस्य कथं तद्धर्ममारभेत् । 026a
एतावानेव वेदेषु निश्चयः कविभिः कृतः ॥ 026c
अध्येतव्या त्रयी नित्यं भवितव्यं विपश्चिता । 027a
सर्वथा धनमाहार्यं यष्टव्यं चापि यत्नतः ॥ 027c
द्रोहाद्देवैरवाप्तानि दिवि स्थानानि सर्वशः । 028a
द्रोहात्किमन्यज्ज्ञातीनां गृध्यन्ते येन देवताः ॥ 028c
इति देवा व्यवसिता वेदवादाश्च शाश्वताः । 029a
अधीयन्तेऽध्यापयन्ते यजन्ते याजयन्ति च ॥ 029c
कृत्स्नं तदेव तच्छ्रेयो यदप्याददतेऽन्यतः । 030a
न पश्यामोऽनपकृतं धनं किञ्चित्क्वचिद्वयम् ॥ 030c
एवमेव हि राजानो यजन्ति पृथिवीमिमाम् । 031a
जित्वा ममेयं ब्रुवते पुत्रा इव पितुर्धनम् ॥ 031c
राजर्षयोऽपि ते स्वर्ग्या धर्मो ह्येषां निरुच्यते ॥ 032ac
यथैव पूर्णादुदधेः स्यन्दन्त्यापो दिशो दश । 033a
एवं राजकुलाद्वित्तं पृथिवीं प्रतितिष्ठति ॥ 033c
आसीदियं दिलीपस्य नृगस्य नहुषस्य च । 034a
अम्बरीषस्य मान्धातुः पृथिवी सा त्वयि स्थिता ॥ 034c
स त्वां द्रव्यमयो यज्ञः सम्प्राप्तः सर्वदक्षिणः । 035a
तं चेन्न यजसे राजन्प्राप्तस्त्वं राज्यकिल्बिषम् ॥ 035c
येषां राजाऽश्वमेधेन यजते दक्षिणावता । 036a
उपेत्य तस्यावभृथे पूताः सर्वे भवन्ति ते ॥ 036c
विश्वरूपो महादेवः सर्वमेधे महामखे । 037a
जुहाव सर्वभूतानि तथैवात्मानमात्मना ॥ 037c
शाश्वतोऽयं भूतिपथो नास्त्यन्तमनुशुश्रुम । 038a
महाजनपथं गन्ता मा राजन्कुपथं गमः ॥ 038c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टमोऽध्यायः ॥ 8 ॥
12-8-1 दृढौ युक्तिशक्त्युपेतौ वादपराक्रमावुक्तिविक्रमौ यस्य स तथा ॥ 12-8-2 दर्शयन्नैन्द्रमात्मानमिति ड. थ. द. पाठः ॥ 12-8-5 क्लीबस्य स्वीयवधे कातरस्य । दीर्घसूत्रस्य परवधे अलसस्य ॥ 12-8-6 यः पुमान्हतस्वस्तिर्नष्टकल्याणः । अकिञ्चनो दरिद्रः । अतएव कमात्सर्वलोकेषु न विख्यातः । पुत्रपशुसंहितः पुत्रादिभिराश्लिष्टश्च न भवति । स भैक्षम् आजिजीविषेदुपजीवितुमिच्छेत् । स कर्मणा पौरुषेण कस्यचिदपि परस्य । समारभ्यन्त इति समारम्भा अर्थास्तान्नैव बुभूषेत नैव प्राप्तुमिच्छेत् । त्वं तु प्राप्तकल्याणः सम्पन्नः ख्यातः पुत्राद्याश्लिष्टश्च पौरुषेणार्थांल्लब्ध्वा भैक्ष्येण जीवितुमिच्छसीति विपर्यस्तबुद्धिरसीति भावः | यो नाजिजीविषेद्भैक्षं कर्मणा येन केनचित् । समारम्भाद्वुभूषेत हतस्वस्तिरकिञ्चनः । इति ट. ड. पाठः । यो ह्याजिजीविषेद्भैक्षं कर्मणा नैव केनचित् । इति थ. पाठः । यो सर्वलोकेन विख्यातो न पुत्रपशुसंहितः । कापालीं नृप पापिष्ठां वृत्तिमास्थाय जीवतीति ट. ड. थ. द. पाठः ॥ 12-8-7 कापालीं भिक्षापात्रवतीम् । सन्त्यज्य राज्यमृद्धिं त्वां लोकोऽयं प्रवदिष्यतीति ट. ड. पाठः ॥ 12-8-8 सर्वारम्भान्सर्वार्थान्धर्मादीन् प्राकृतवन्मूढवत् ॥ 12-8-11 आकिञ्चन्यं मुनीनां च राज्यादप्यधिकं मतमिति यद्वाक्यं तदुद्दिश्य नहुषो राजा अधनतामिह धिगस्त्वित्यब्रवीत् । अधने धनाभावे निमित्ते सति पुरुषो नृशंसं कर्म कृत्वा जीवतीति दारिद्र्यं पापहेतुत्वान्निन्दितवानित्यर्थः । आकिञ्चन्यमहीनस्य मृत्यवे इति ट. ड. थ. पाठः ॥ 12-8-25 यत्तूक्तं ज्ञातीनां परस्परं युद्धे हतानां हन्तॄणां च श्रेयो नास्तीति तच्छिष्टाचारदर्शनेन दूषयति । अवेक्षस्वेत्यादिना ॥ 12-8-26 अन्यस्य परस्य धनं चेन्न हर्तव्यं तत्तर्हि राजा कथं धर्ममाचरेत् । तस्य वृत्त्यन्तराभावान्न कथञ्चिदित्यर्थः ॥ 12-8-32 निरुच्यते उत्कृष्टत्वेन कीर्त्यते ॥ 12-8-33 स्यन्दन्ति प्रस्रवन्ति ॥