अध्यायः 007
युधिष्ठिरस्य परिशोचनम् ॥ 1 ॥
वैशम्पायन उवाच 001
युधिष्ठिरस्तु धर्मात्मा शोकव्याकुलचेतनः । 001a
शुशोच दुःखसन्तप्तः स्मृत्वा कर्णं महारथम् ॥ 001c
आविष्टो दुःखशोकाभ्यां निःश्वसंश्च पुनः पुनः । 002a
दृष्ट्वार्जुनमुवाचेदं वचनं शोककर्शितः ॥ 002c
युधिष्ठिर उवाच 003
यद्भैक्ष्यमाचरिष्याम वृष्ण्यन्धकपुरे वयम् । 003a
ज्ञातीन्निष्पुरुषान्कृत्वा नेमां प्राप्स्याम दुर्गतिम् ॥ 003c
अमित्रा नः समृद्धार्था वृत्तार्थाः कुरवः किल । 004a
आत्मानमात्मना हत्वा किं धर्मफलमाप्नुमः ॥ 004c
धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम् । 005a
धिगस्तु चार्थं येनेमामापदं गमिता वयम् ॥ 005c
साधु क्षमा दमः शौचमविरोधो विमत्सरः । 006a
अहिंसा सत्यवचनं नित्यानि वनचारिणाम् ॥ 006c
वयं तु लोभान्मोहाच्च दम्भं मानं च संश्रिताः । 007a
इमामवस्थां सम्प्राप्ता राज्यक्लेशबुभुक्षया ॥ 007c
त्रैलोक्यस्यापि राज्येन नास्मान्कश्चित्प्रहर्षयेत् । 008a
बान्धवान्निहतान्दृष्ट्वा पृथिव्यामामिषैषिणः ॥ 008c
ते वयं पृथिवीहेतोरवध्यान्पृथिवीतले । 009a
सम्परित्यज्य जीवामो हीनार्था हतबान्धवाः ॥ 009c
आमिषे गृध्यमानानामशुभं वै शुनामिव । 010a
आमिषं चैव नो नष्टमामिषस्य च भोजिनाम् ॥ 010c
न पृथिव्या सकलया न सुवर्णस्य राशिभिः । 011a
न गजाश्वेन सर्वेण ते त्याज्या य इमे हताः ॥ 011c
काममन्युपरीतास्ते क्रोधामर्षसमन्विताः । 012a
मृत्युयानं समारुह्य गता वैवस्वतक्षयम् ॥ 012c
बहुकल्याणमिच्छन्त ईहन्ते पितरः सुतान् । 013a
तपसा ब्रह्मचर्येण वन्दनेन तितिक्षया ॥ 013c
उपवासैस्तथेज्याभिर्व्रतकौतुकमङ्गलैः । 014a
लभन्ते मातरो गर्भांस्तान्मासान्दश बिभ्रति ॥ 014c
यदि स्वस्ति प्रजायन्ते जाता जीवन्ति वा यदि । 015a
सम्भाविता जातबला विदध्युर्यदि नः सुखम् । 015c
इह चामुत्र चैवेति कृपणाः फलहेतवः ॥ 015e
तासामयं समुद्योगो निर्वृत्तः केवलोऽफलः । 016a
यदासां निहताः पुत्रा युवानो मृष्टकुण्डलाः ॥ 016c
अभुक्त्वा पार्थिवान्भोगानृणान्यनपहाय च । 017a
पितृभ्यो देवताभ्यश्च गता वैवस्वतक्षयम् ॥ 017c
यदैषामम्ब पितरौ जातकर्मकराविह । 018a
सञ्जातबालरूपेषु तदैव निहता नृपाः ॥ 018c
संयुक्ताः काममन्युभ्यां क्रोधामर्षसमन्विताः । 019a
न ते जयफलं किञ्चिद्भोक्तारो जातु कर्हिचित् ॥ 019c
पाञ्चालानां कुरूणां च हता एव हि ये हताः । 020a
न सकामा वयं ते च न चास्माभिर्न तैर्जितम् ॥ 020c
न तैर्भुक्तेयमवनिर्न नार्यो गीतवादितम् । 021a
नामात्यसुहृदां वाक्यं न च श्रुतवतां श्रुतम् । 021c
न रत्नानि परार्ध्यानि न भूर्न द्रविणागमः ॥ 021e
न च धर्म्यानिमाल्ँलोकान्प्रपद्याम स्वकर्मभिः । 022a
वयमेवास्य लोकस्य विनाशे कारणं स्मृताः । 022c
धृतराष्ट्रस्य पुत्रेण निकृतिप्रीतिसंयुताः ॥ 022e
सदैव निकृतिप्रज्ञो द्वेष्टा विद्वेषजीवनः । 023a
मिथ्यावृत्तश्च सततमस्मास्वनपराधिषु ॥ 023c
ऋद्धिमस्मासु तां दृष्ट्वा विवर्णो हरिणः कृशः । 024a
धृतराष्ट्रश्च नृपतिः सौबलेन निवेदितः ॥ 024c
तं पिता पुत्रगृध्नुत्वादनुमेनेऽनये स्थितम् । 025a
अनपेक्ष्यैव पितरं गाङ्गेयं विदुरं तथा ॥ 025c
असंशयं त्वयं राजा यथैवाहं तथा गतः । 026a
अनियम्याशुचिं लुब्धं पुत्रं कामवशानुगम् ॥ 026c
यशसः पतितो दीप्ताद्घातयित्वा सहोदरान् । 027a
इमौ हि वृद्धौ शोकाग्नौ प्रक्षिप्य स सुयोधनः । 027c
अस्मत्प्रद्वेषसन्तप्तः पापबुद्धिः सदैव ह ॥ 027e
को हि बन्धुः कुलीनः संस्तथा ब्रूयात्सुहृज्जने । 028a
यथाऽसाववदद्वाक्यं युयुत्सुः कृष्णसन्निधौ ॥ 028c
आत्मनो हि वयं दोषाद्विनष्टाः शाश्वतीः समाः । 029a
प्रदहन्तो दिशः सर्वा भास्वरा इव तेजसा ॥ 029c
सोऽस्माकं वैरपुरुषो दुर्मतिः प्रग्रहं गतः । 030a
दुर्योधनकृते ह्येतत्कुलं नो विनिपातितम् ॥ 030c
अवध्यानां वधं कृत्वा लोके प्राप्ताः स्म वाच्यताम् ॥ 031ac
कुलस्यास्यान्तकरणं दुर्मतिं पापपूरुषम् । 032a
राजा राष्ट्रेश्वरं कृत्वा धृतराष्ट्रोऽद्य शोचति ॥ 032c
हताः शूराः कृतं पापं विषयोऽसौ विनाशितः । 033a
हत्वा नो विगतो मन्युः शोको मां दारयत्ययम् ॥ 033c
धनञ्जय कृतं पापं कल्याणेनोपहन्यते । 034a
[ख्यापनेनानुतापेन दानेन तपसाऽपि वा । 034c
निवृत्त्या तीर्थगमनाच्छ्रुतिस्मृतिजपेन वा ॥] 034e
त्यागवांश्च पुनः पापं नालं कर्तुमिति श्रुतिः । 035a
त्यागवाञ्जन्ममरणे नाप्नोतीति श्रुतिर्यतः । 035c
प्राप्तवर्त्मा कृतमतिर्ब्रह्म सम्पद्यते तदा ॥ 035e
स धनञ्जय निर्द्वन्द्वो मुनिर्ज्ञानसमन्वितः । 036a
वनमामन्त्र्य वः सर्वान्गमिष्यामि परन्तप ॥ 036c
न हि कृत्स्नतमो धर्मः शक्यः प्राप्तुमिति श्रुतिः । 037a
परिग्रहवता तन्मे प्रत्यक्षमरिसूदन ॥ 037c
मया निसृष्टं पापं हि परिग्रहमभीप्सता । 038a
जन्मक्षयनिमित्तं च प्राप्तुं शक्यमिति श्रुतिः ॥ 038c
स परिग्रहमुत्सृज्य कृत्स्नं राज्यं सुखानि च । 039a
गमिष्यामि विनिर्मुक्तो विशोको निर्ममः क्वचित् || 039c
प्रशासध्वमिमामुर्वीं क्षेमां निहतकण्टकाम् । 040a
न ममार्थोऽस्ति राज्येन भोगैर्वा कुरुनन्दन ॥ 040c
एतावदुक्त्वा वचनं कुरुराजो युधिष्ठिरः । 041a
उपारमत्ततः पार्थः कनीयान्प्रत्यभाषत ॥ 041c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्तमोऽध्यायः ॥ 7 ॥
12-7-2 दुःखं देहेन्द्रियादीनां तापः । शोकस्तत्कृतं वैकल्यम् ॥ 12-7-3 यद्यदि भैक्ष्यमाचीर्णं स्यात्तर्हि ज्ञातिवधाज्जाता दुर्गतिर्न प्राप्ता स्यादित्यर्थः । लिङ्निमित्ते लृङ्क्रियातिपत्तौ ॥ 12-7-8 पृथिव्यां विजयैषिण इति झ. पाठः ॥ 12-7-10 अमिषे गृध्यमानानामशुभं वै शुनामिव । आमिषं चैव नोहीष्टमामिषस्य विवर्जनमिति झ. पाठः । तत्र आमिषे राज्यनिमित्ते । अशुभं ज्ञातिद्रोहाख्यम् । शुनामिवेतरेषां भवति नो ह्यस्माकं त्वामिषं चाऽऽमिषस्य विवर्जनं चेति द्वयमपीष्टमित्यर्थः ॥ 12-7-11 बन्धूनामर्थे सर्वं त्याज्यमित्यर्थः ॥ 12-7-14 व्रतानि गौरीव्रतादीनि । कौतुकानि दुर्गोत्सवादीनि । मङ्गलानि लक्ष्मीनारायणशिलादीनि तैः ॥ 12-7-16 यदा सन्निहिताः पुत्रा इति थ. द. पाठः ॥ 12-7-17 अनपहाय अपरिहृत्य । अनवदायेति पाठे अपरिशोध्य । पितृभ्य इति षष्ठ्यर्थे चतुर्थी ॥ 12-7-18 अर्जुनेन सह वदन्नपि सन्निहितां मातरं सम्बोधयति हे अम्बेति । पितरौ मातापितरौ गान्धारीधृतराष्ट्रौ यदैव जातकर्मकरौ तदैव ते नृपा दुर्योधनप्रभृतयो हताः ॥ 12-7-19 न ते जन्मफलं किञ्चिदिति द. पाठः ॥ 12-7-21 श्रुतवतां पण्डितानाम् । रत्नानीत्यादौ भुक्तानीत्यादिर्यथालिङ्गं शेषः । नामात्यसमितौ कथ्यम् इति ट. ड. थ. पाठः ॥ 12-7-24 हरिणः पाण्डुरः । धृतराष्ट्रस्य नृपतेरिति ड.थ. द. पाठः ॥ 12-7-27 पापबुद्धिः सुहृज्जनैरिति ट. ड. थ. पाठः ॥ 12-7-29 भास्करस्येव तेजसेति ट. ड. थ. पाठः ॥ 12-7-30 प्रग्रहं दृढबन्धनम् । गतः प्राप्तः । नोऽत्माभिः ॥ 12-7-33 विषयः आमिषम् । नोऽस्माकम् । तान्हत्वा विगतः ॥ 12-7-34 कल्याणेनोपकारेण । निवृत्त्या त्यागेन ॥ 12-7-35 श्रुतिस्त्यागेनैके अमृतत्वमानशुरिति । प्राप्तवर्त्मा लब्धयोगमार्गः । त्यागे यदा कृतमतिरिति ट. ड. द. पाठः ॥ 12-7-37 नहि कश्चिद्गृहे धर्म इति ड. द. पाठः । परिग्रहवता गृहस्थेन नहि प्राप्तुं शक्यः ॥