अध्यायः 006 कुन्त्या कर्णवधानुशोचिनो युधिष्टिरस्याश्वासनम् ॥ 1 ॥ युधिष्ठिरेण कुन्तीम् प्रति स्त्रीणां मन्त्रगोपनं माभूदिति शापदानम् ॥ 2 ॥ वैशम्पायन उवाच 001
एतावदुक्त्वा देवर्षिर्विरराम स नारदः । 001a
युधिष्ठिरस्तु राजर्षिर्दध्यौ शोकपरिप्लुतः ॥ 001c
तं दीनमनसं वीरमधोवदनमातुरम् । 002a
निःश्वसन्तं यथा नागं पर्यश्रुनयनं तथा ॥ 002c
कुन्ती शोकपरीताङ्गी दुःखोपहतचेतना । 003a
अब्रवीन्मधुराभाषा काले वचनमर्थवत् ॥ 003c
युधिष्ठिर महाबाहो नैनं शोचितुमर्हसि । 004a
जहि शोकं महाप्राज्ञ शृणु चेदं वचो मम ॥ 004c
याचितः स मया पूर्वं भ्राता ज्ञापयितुं तव । 005a
भास्करेण च देवेन पित्रा धर्मभृतां वरः ॥ 005c
यद्वाच्यं हितकामेन सुहृदां भूतिमिच्छता । 006a
तथा दिवाकरेणोक्तः स्वप्नान्ते मम चाग्रतः ॥ 006c
न चैनमशकद्भानुरहं वा स्नेहकारणैः । 007a
पुरा प्रत्यनुनेतुं वा नेतुं वाऽप्येकतां त्वया ॥ 007c
ततः कालपरीतः स वैरस्योद्धरणे रतः । 008a
प्रतीपकारी युष्माकमिति चोपेक्षितो मया ॥ 008c
इत्युक्तो धर्मराजस्तु मात्रा बाष्पाकुलेक्षणः । 009a
उवाच वाक्यं धर्मात्मा शोकव्याकुललोचनः ॥ 009c
भवत्या गूढमन्त्रत्वाद्वञ्चिताःस्म तदा भृशम् ॥ 010ac
शशाप च महातेजाः सर्वलोकेषु योषितः । 011a
न गुह्यं धारयिष्यन्तीत्येवं दुःखसमन्वितः ॥ 011c
स राजा पुत्रपौत्राणां सम्बन्धिसुहृदां तदा । 012a
स्मरन्नुद्विग्नहृदयो बभूवोद्विग्नचेतनः ॥ 012c
ततः शोकपरीतात्मा सधूम इव पावकः । 013a
निर्वेदमगमद्धीमान्राज्ये सन्तापपीडितः ॥ 013c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षष्ठोऽध्यायः ॥ 6 ॥

12-6-1 दध्यौ भ्रातृवधजं दोषं चिन्तितवान् ॥ 12-6-5 यातितः स मया पूर्वं भ्रात्र्यमिति झ. पाठः । तत्र यातितः प्रवर्तितस्तव तुभ्यं भ्रात्र्यं भ्रातुः कर्म कनिष्ठानां परिपालनं ज्ञापयितुं त्वया सौभ्रात्रं युधिष्ठिरादिभ्यः प्रदर्शनीयमित्यभ्यर्थित इत्यर्थः ॥ 12-6-7 प्रत्यनुनेतुं शमयितुम् ॥ 12-6-8 कालपरीतो मृत्युग्रस्तः । उद्धरणे शत्रूणां निःशेषनाशेनोन्मूलने ॥ 12-6-12 कर्मणिषष्ठ्यौ ॥ 12-6-13 निर्वेदं राज्यादौ वैराग्यम् ॥