अध्यायः 005
कर्णपराक्रमवर्णनम् ॥ 1 ॥
नारद उवाच 001
आविष्कृतबलं कर्णं दृष्ट्वा राजा स मागधः । 001a
आह्वयद्द्वैरथेनाजौ जरासन्धो महीपतिः ॥ 001c
तयोः समभवद्युद्धं दिव्यास्त्रविदुषोर्द्वयोः । 002a
युधि नानाप्रहरणैरन्योन्यमभिवर्षतोः ॥ 002c
क्षीणबाणौ विधनुषौ भग्नखड्गौ महीं गतौ । 003a
बाहुभिः समसज्जेतामुभावतिबलान्वितौ ॥ 003c
[बाहुकण्टकयुद्धेन तस्य कर्णोऽथ युध्यतः ।] 004a
विभेदं सन्धिं देहस्य जरया श्लेषितस्य हि ॥ 004c
स विकारं शरीरस्य दृष्ट्वा नृपतिरात्मनः । 005a
प्रीतोऽस्मीत्यब्रवीत्कर्णं वैरमुत्सृज्य दूरतः ॥ 005c
प्रीत्या ददौ स कर्णाय मालिनीं नगरीमनु । 006a
अङ्गेषु नरशार्दूल स राजाऽऽसीत्सपत्नजित् ॥ 006c
पालयामास वर्णांस्तु कर्णः परबलार्दनः । 007a
दुर्योधनस्यानुमते तवापि विदितं तथा ॥ 007c
एवं शस्त्रप्रतापेन प्रथितः सोऽभवत्क्षितौ । 008a
त्वद्धितार्थं सुरेन्द्रेण भिक्षितो वर्मकुण्डले ॥ 008c
स दिव्ये सहजे प्रादात्कुण्डले परमार्चिते । 009a
सहजं कवचं चापि मोहितो देवमायया ॥ 009c
विमुक्तः कुण्डलाभ्यां च सहजेन च वर्मणा । 010a
निहतो विजयेनाजौ वासुदेवस्य पश्यतः ॥ 010c
ब्राह्मणस्यापि शापेन रामस्य च महात्मनः । 011a
कुन्त्याश्च वरदानेन मायया च शतक्रतोः ॥ 011c
भीष्मावमानात्सङ्ख्यायां रथानामर्धकीर्तनात् । 012a
शल्यतेजोवधाच्चापि वासुदेवनयेन च || 012c
रुद्रस्य देवराजस्य यमस्य वरुणस्य च । 013a
कुबेरद्रोणयोश्चैव कृपस्य च महात्मनः ॥ 013c
अस्त्राणि दिव्यान्यादाय युधि गाण्डीवधन्वना । 014a
हतो वैकर्तनः कर्णो दिवाकरसमद्युतिः ॥ 014c
एवं शप्तस्तव भ्राता बहुभिश्चापि वञ्चितः । 015a
न शोच्यः पुरुषव्याघ्र युद्धे हि निधनं गतः ॥ 015c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥
12-5-4 बाहुकण्टकयुद्धेन बाहुकण्टकं केतकपत्रं तद्वद्यत्र बलिना दुर्बलस्य शरीरं पाट्यते तद्बाहुकण्टकं नाम युद्धम् ॥ 12-5-5 विकारं पाटनरूपम् ॥ 12-5-7 पालयामास चम्पां चेति झ. पाठः ॥