अध्यायः 004
दुर्योधनेन स्वयंवरमण्टपे कलिङ्गराजकन्याहरणम् ॥ 1 ॥ कर्णेन तमनुद्रुतवतां राज्ञां पराजयः ॥ 2 ॥
नारद उवाच 001
कर्णस्तु समवाप्यैवमस्त्रं भार्गवनन्दनात् । 001a
दुर्योधनेन सहितो मुमुदे भरतर्षभ ॥ 001c
ततः कदाचिद्राजानः समाजग्मुः स्वयंवरे । 002a
कलिङ्गविषये राजन्राज्ञश्चित्राङ्गदस्य च ॥ 002c
श्रीमद्राजपुरं नाम नगरं तत्र भारत । 003a
राजानः शतशस्तत्र कन्यार्थे समुपागमन् ॥ 003c
श्रुत्वा दुर्योधनस्तत्र समेतान्सर्वपार्थिवान् । 004a
रथेन काञ्चनाङ्गेन कर्णेन सहितो ययौ ॥ 004c
ततः स्वयंवरे तस्मिन्नानादेश्या महारथाः । 005a
समाजग्मुर्नृपतयः कन्यार्थे नृपसत्तम ॥ 005c
शिशुपालो जरासन्धो भीष्मको वक्र एव च । 006a
कपोतरोमा नीलश्च रुक्मी च दृढविक्रमः ॥ 006c
सृगालश्च महाराजः स्त्रीराज्याधिपतिश्च यः । 007a
विशोकः शतधन्वा च भोजो वीरश्च नामतः ॥ 007c
एते चान्ये च बहवो दक्षिणां दिशमाश्रिताः । 008a
म्लेच्छाश्चार्याश्च राजानः प्राच्योदीच्यास्तथैव च ॥ 008c
काञ्चनाङ्गदिनः सर्वे शुद्धजाम्बूनदप्रभाः । 009a
सर्वे भास्वरदेहाश्च व्याघ्रा इव बलोत्कटाः ॥ 009c
ततः समुपविष्टेषु तेषु राजसु भारत । 010a
विवेश रङ्गं सा कन्या धात्रीवर्षवरान्विता ॥ 010c
ततः संश्राव्यमाणेषु राज्ञां नामसु भारत । 011a
अत्यक्रामद्धार्तराष्ट्रं सा कन्या वरवर्णिनी ॥ 011c
दुर्योधनस्तु कौरव्यो नामर्षयत लङ्घनम् । 012a
प्रत्यषेधच्च तां कन्यामसत्कृत्य नराधिपान् ॥ 012c
स वीर्यमदमत्तत्वाद्भीष्मद्रोणावुपाश्रितः । 013a
रथमारोप्य तां कन्यामाजुहाव नराधिपान् ॥ 013c
तमन्वगाद्रथी खड्गी बद्धगोधाङ्गुलित्रवान् । 014a
कर्णः शस्त्रभृतां श्रेष्ठः पृष्ठतः पुरुषर्षभ ॥ 014c
ततो विमर्दः सुमहान्राज्ञामासीद्युयुत्सताम् । 015a
सन्नह्यतां तनुत्राणि रथान्योजयतामपि || 015c
तेऽभ्यधावन्त सङ्क्रुद्धाः कर्णदुर्योधनावुभौ । 016a
शरवर्षाणि मुञ्चन्तो मेघाः पर्वतयोरिव ॥ 016c
कर्णस्तेषामापततामेकैकेन शरेण ह । 017a
धनूंषि च शरव्रातान्पातयामास भूतले ॥ 017c
ततो विधनुषः कांश्चित्कांश्चिदुद्यतकार्मुकान् । 018a
कांश्चिदुत्सृजतो बाणान्रथशक्तिगदास्तथा ॥ 018c
लाघवाद्व्याकुलीकृत्य कर्णः प्रहरतां वरः । 019a
हतसूतांश्च भूयिष्ठान्स विजिग्ये नराधिपान् ॥ 019c
ते स्वयं वाहयन्तोऽश्वान्याहि याहीति वादिनः । 020a
व्यपेयुस्ते रणं हित्वा राजानो भग्नमानसाः ॥ 020c
दुर्योधनस्तु कर्णेन पाल्यमानोऽभ्ययात्तदा । 021a
हृष्टः कन्यामुपादाय नगरं नागसाह्वयम् ॥ 021c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुर्थोऽध्यायः ॥ 4 ॥
12-4-2 विषये देशे ॥ 12-4-6 भीष्मको बक एव चेति थ. पाठः ॥ 12-4-7 त्रैलोक्याधिपतिश्च य इति ट. ड. पाठः । त्रैराज्येति थ. पाठ ॥ 12-4-10 वर्षवरः षण्ढः ॥ 12-4-17 शिरांसि सशरांश्चापानिति ट. ड. थ. पाठः ॥ 12-4-20 व्यपेयुः व्यपगताः ॥