अध्यायः 003
कदाचन रामे कर्णोत्सङ्गे शिरो निधाय निद्राणे केनचित्क्रिमिणा कर्णस्योरुभेदनम् ॥ 1 ॥ तदूरोः प्रस्रुतरुधिरक्लेदात्प्रबुद्धेन रामेण कर्णस्य शापदानम् ॥ 2 ॥ रामाज्ञया कर्णस्य स्वदेशगमनम् ॥ 3 ॥
नारद उवाच 001
कर्णस्य बाहुवीर्येण प्रश्रयेण दमेन च । 001a
तुतोष भृगुशार्दूलो गुरुशुश्रूषया तथा ॥ 001c
ततस्तस्मै महातेजा ब्रह्मास्त्रं सनिवर्तनम् । 002a
प्रोवाच सुमहाप्रज्ञः स तपस्वी तपस्विने ॥ 002c
विदितास्त्रस्ततः कर्णो रममाणोऽऽश्रमे भृगोः । 003a
चकार वै धनुर्वेदे यत्नमद्भुतविक्रमः ॥ 003c
ततः कदाचिद्रामस्तु चरन्नाश्रममन्तिकात् । 004a
कर्णेन सहितो धीमानुपवासेन कर्शितः ॥ 004c
सुष्वाप जामदग्न्यस्तु विस्रम्भोत्पन्नसौहृदः । 005a
तस्योत्सङ्गे समाधाय शिरः क्लान्तमना गुरुः ॥ 005c
अथ क्रिमिः श्लेष्ममयो मांसशोणितभोजनः । 006a
दारुणो दारुणाकारः कर्णस्याभ्याशमागतः ॥ 006c
स तस्योरुमथासाद्य बिभेद रुधिराशनः । 007a
न चैनमशकत्क्षेप्तुं वक्तुं वाऽपि गुरोर्भयात् ॥ 007c
स दश्यमानोऽपि तथा कृमिणा तेन भारत । 008a
गुरोः प्रबोधनाकाङ्क्षी तमुपैक्षत सूर्यजः ॥ 008c
कर्णस्तु वेदनां धैर्यादसह्यां विनिगृह्य ताम् । 009a
अकम्पयन्नव्यथयन्धारयामास भार्गवम् ॥ 009c
यदा स रुधिरेणाङ्गे परिस्पृष्टोऽभवद्गुरुः । 010a
तदाऽबुध्यत तेजस्वी संरब्धश्चैनमब्रवीत् ॥ 010c
अहोऽस्म्यशुचितां प्राप्तः किमिदं च कृतं त्वया । 011a
कथयस्व भयं त्यक्त्वा याथातथ्यमिदं मम ॥ 011c
तस्य कर्णस्तदाचष्ट कृमिणा परिभक्षणम् । 012a
ददर्श रामस्तं चापि कृमिं सूकरसंस्थितम् ॥ 012c
अष्टपादं तीक्ष्णदंष्ट्रं सूचीभिः परिसंवृतम् । 013a
रोमभिः सन्निरुद्धाङ्गमलर्कं नाम नामतः ॥ 013c
स दृष्टमात्रो रामेण क्रिमिः प्राणानवासृजत् । 014a
तस्मिन्नेवासृजि क्लिन्नस्तदद्भुतमिवाभवत् ॥ 014c
ततोऽन्तरिक्षे ददृशे विश्वरूपः करालवान् । 015a
राक्षसो लोहितग्रीवः कृष्णाङ्गो मेघवाहनः ॥ 015c
स रामं प्राञ्जलिर्भूत्वा बभाषे पूर्णमानसः । 016a
स्वस्ति ते भृगुशार्दूल गमिष्येऽहं यथागतम् ॥ 016c
मोक्षितो नरकादस्माद्भवता मुनिसत्तम । 017a
भद्रं च तेऽस्तु सिद्धिश्च प्रियं मे भवता कृतम् || 017c
तमुवाच महाबाहुर्जामदग्न्यः प्रतापवान् । 018a
कस्त्वं कस्माच्च नरकं प्रतिपन्नो ब्रवीहि तत् ॥ 018c
सोऽब्रवीदहमासं प्राग्दंशो नाम महासुरः । 019a
पुरा देवयुगे तात भृगोस्तु सवया इव ॥ 019c
सोऽहं भृगोः सुदयितां भार्यामपहरं बलात् । 020a
महर्षेरभिशापेन क्रिमिभूतोऽपतं भुवि ॥ 020c
अब्रवीद्धि स मां क्रुद्धस्तव पूर्वपितामहः । 021a
मूत्रश्लेष्माशनः पाप निरयं प्रतिपत्स्यसे ॥ 021c
शापस्यान्तो भवेद्ब्रह्मन्नित्येवं तमथाब्रवम् । 022a
भविता भार्गवाद्रामादिति मामब्रवीद्भृगुः ॥ 022c
सोऽहमेनां गतिं प्राप्तो यथा नकुशलस्तथा । 023a
त्वया साधो समागम्य विमुक्तः पापयोनितः ॥ 023c
एवमुक्त्वा नमस्कृत्य ययौ रामं महासुरः । 024a
रामः कर्णं तु सक्रोधमिदं वचनमब्रवीत् ॥ 024c
अतिदुःखमिदं मूढ न जातु ब्राह्मणः सहेत् । 025a
क्षत्रियस्येव ते धैर्यं कामया सत्यमुच्यताम् ॥ 025c
तमुवाच ततः कर्णः शापाद्भीतः प्रसादयन् । 026a
ब्रह्मक्षत्रान्तरे जातं सूतं मां विद्धि भार्गव ॥ 026c
राधेयः कर्ण इति मां प्रवदन्ति जना भुवि । 027a
प्रसादं कुरु मे ब्रह्मन्नस्त्रलुब्धस्य भार्गव ॥ 027c
पिता गुरुर्न सन्देहो वेदविद्याप्रदः प्रभुः । 028a
अतो भार्गव इत्युक्तं मया गोत्रं तवान्तिके ॥ 028c
तमुवाच भृगुश्रेष्ठः सरोषः प्रदहन्निव । 029a
भूमौ निपतितं दीनं वेपमानं कृताञ्जलिम् ॥ 029c
यस्मान्मिथ्याविचीर्णोऽहमस्त्रलोभादिह त्वया । 030a
तस्मादेतन्न ते मूढ ब्रह्मास्त्रं प्रतिभास्यति ॥ 030c
अन्यत्र वधकालात्ते सदृशे न समीयुषः । 031a
अब्राह्मणे न हि ब्रह्म चिरं तिष्ठेत्कदाचन ॥ 031c
गच्छेदानीं न ते स्थानमनृतस्येह विद्यते । 032a
न त्वया सदृशो युद्धे भविता क्षत्रियो भुवि ॥ 032c
एवमुक्तः स रामेण न्यायेनोपजगाम ह । 033a
दुर्योधनमुपागम्य कृतास्त्रोऽस्मीति चाब्रवीत् ॥ 033c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि तृतीयोऽध्यायः ॥ 3 ॥
12-3-1 दभेनेन्द्रियजयेन ॥ 12-3-5 विस्रम्भो विश्वासः ॥ 12-3-6 श्लेष्ममेदोमांसेति झ. पाठः ॥ 12-3-7 क्षेप्तुं दूरीकर्तुम् । भयान्निद्राभङ्गभयात् ॥ 12-3-8 प्रबोधनाशङ्कीति झ. पाठः । 12-3-12 सूकरस्येव संस्थितं संस्थानं यस्य तम् । सूकरसन्निभमिति झ. पाठः ॥ 12-3-13 सूचीभिरिव तीक्ष्णै रोमभिः संवृतम् । सन्निरुद्धाङ्गं त्रासेन सङ्कुचिताङ्गं नाम प्रसिद्धम् । नामतो नाम्ना ॥ 12-3-14 असृजि शोणिते ॥ 12-3-19 यास्को नामेति ड. पाठः । ग्रस्तो नामेति थ. पाठः । देवयुगे सत्ययुगे ॥ 12-3-23 नकुशलः अभद्रः ॥ 12-3-25 कामया स्वरसेन । कामये सत्यमुच्यतामिति ट. ड. पाठः ॥ 12-3-26 ब्रह्मक्षत्रयोरन्तरे अन्यत्र जातम् ॥ 12-3-29 प्रहसन्निवेति थ. पाठः ॥ 12-3-30 तस्मादिति । हे मूढ ते तव वधकालादन्यत्र ब्रह्मास्त्रं न प्रतिभास्यतीति न किन्तु वधकालएव न प्रतिभास्यति । कालान्तरे तु प्रतिभास्यत्येवेत्यर्थ इत्युत्तरेण सम्बन्धः ॥ 12-3-31 सदृशेऽर्जुनादौ शूरे ते पुरतः स्थिते समीयुषः युध्यमानस्य । समित्याजिसमिद्युध इति सम्पूर्वस्य इणो युद्धार्थत्वदर्शनात् । चिरं मरणावधि न तिष्ठेद्ब्रह्म ब्रह्मास्त्रम् ॥ 12-3-33 न्यायेनाभिवन्दनादिपूर्वकम् उपजगाम । इष्टं देशमिति शेषः ॥