अध्यायः 002
ब्रह्मास्त्रलाभाय द्रोणमुपगतेन कर्णेन तेन त्रैवर्णिकान्यत्वकथनेन प्रत्याख्याने परशुराममेत्य स्वस्य ब्राह्मण्यकथनपूर्वकमस्त्रार्थं तदन्तेवासित्वपरिग्रहः ॥ 1 ॥ तत्र प्रमादेन विप्रगोवत्सघातिनः कर्णस्य विप्राच्छापप्राप्तिः ॥ 2 ॥
वैशम्पायन उवाच 001
स एवमुक्तस्तु तदा नारदो वदतांवरः । 001a
कथयामास तत्सर्वं यथा शप्तः स सूतजः ॥ 001c
नारद उवाच 002
एवमेतन्महाबाहो यथा वदसि भारत । 002a
न कर्णार्जुनयोः किञ्चिदविषह्यं भवेद्रणे ॥ 002c
गुह्यमेतत्तु देवानां कथयिष्यामि ते नृप । 003a
तन्निबोध महाबाहो यथावृत्तमिदं पुरा ॥ 003c
क्षत्रं स्वर्गं कथं गच्छेच्छस्त्रपूतमिति प्रभो । 004a
सङ्घर्षजननस्तस्मात्कन्यागर्भो विसर्जितः ॥ 004c
स बालस्तेजसा युक्तः सूतपुत्रत्वमागतः । 005a
चकाराङ्गिरसां श्रेष्ठे धनुर्वेदं गुरौ तव ॥ 005c
स बलं भीमसेनस्य फल्गुनस्यास्त्रलाघवम् । 006a
बुद्धिं च तव राजेन्द्र यमयोर्विनयं तथा ॥ 006c
सख्यं च वासुदेवेन बाल्ये गाण्डीवधन्वनः । 007a
प्रजानामनुरागं च चिन्तयानो व्यदह्यत ॥ 007c
स सख्यमगमद्बाल्ये राज्ञा दुर्योधनेन च । 008a
युष्माभिर्नित्यसङ्घृष्टो दैवाच्चापि स्वभावतः ॥ 008c
विद्याधिकमथालक्ष्य धनुर्वेदे धनञ्जयम् । 009a
द्रोणं रहस्युपागम्य कर्णो वचनमब्रवीत् ॥ 009c
ब्रह्मास्त्रं वेत्तुमिच्छामि सरहस्यनिवर्तनम् । 010a
अर्जुनेन समो युद्धे भवेयमिति मे मतिः ॥ 010c
समः पुत्रेषु च स्नेहः शिष्येषु च तव ध्रुवम् । 011a
त्वत्प्रसादान्न मा ब्रूयुरकृतास्त्रं विचक्षणाः ॥ 011c
द्रोणस्तथोक्तः कर्णेन सापेक्षः फल्गुनं प्रति । 012a
दौरात्म्यं चैव कर्णस्य विदित्वा तमुवाच ह ॥ 012c
ब्रह्मास्त्रं ब्राह्मणो विद्याद्यथावच्चरितव्रतः । 013a
क्षत्रियो वा तपस्वी यो नान्यो विद्यात्कथञ्चन ॥ 013c
इत्युक्तोऽङ्गिरसां श्रेष्ठमामन्त्र्य प्रतिपूज्य च । 014a
जगाम सहसा राजन्महेन्द्रं पर्वतं प्रति ॥ 014c
स तु राममुपागम्य शिरसाऽभिप्रणम्य च । 015a
ब्राह्मणो भार्गवोऽस्मीति गौरवेणाभ्यवन्दत ॥ 015c
रामस्तं प्रतिजग्राह पृष्ट्वा गोत्रादि सर्वशः । 016a
उष्यतां स्वागतं चेति प्रीतिमांश्चाभवद्भृशम् ॥ 016c
तत्र कर्णस्य वसतो महेन्द्रे स्वर्गसम्मिते । 017a
गन्धर्वै राक्षसैर्यक्षैर्देवैश्चासीत्समागमः ॥ 017c
स तत्रेष्वस्त्रमकरोद्भृगुश्रेष्ठाद्यथाविधि । 018a
प्रियश्चाभवदत्यर्थं देवदानवरक्षसाम् ॥ 018c
स कदाचित्समुद्रान्ते विचरन्नाश्रमान्तिके । 019a
एकः खड्गधनुष्पाणिः परिचक्राम सूतजः ॥ 019c
सोऽग्निहोत्रप्रसक्तस्य कस्यचिद्ब्रह्मवादिनः । 020a
जघानाज्ञानतः पार्थ होमधेनुं यदृच्छया ॥ 020c
तदज्ञानकृतं मत्वा ब्राह्मणाय न्यवेदयत् । 021a
कर्णः प्रसादयंश्चैनमिदमित्यब्रवीद्वचः ॥ 021c
अबुद्धिपूर्वं भगवन्धेनुरेषा हता तव । 022a
मया तत्र प्रसादं मे कुरुष्वेति पुनः पुनः ॥ 022c
तं स विप्रोऽब्रवीत्क्रुद्धो वाचा निर्भर्त्सयन्निव । 023a
दुराचार वधार्हस्त्वं फलं प्राप्स्यसि दुर्मते ॥ 023c
येन विस्पर्धसे नित्यं यदर्थं घटसेऽनिशम् । 024a
युध्यतस्तेन ते पाप भूमिश्चक्रं ग्रसिष्यति ॥ 024c
ततश्चक्रे महीग्रस्ते मूर्धानं ते विचेष्टतः । 025a
पातयिष्यति विक्रम्य शत्रुर्गच्छ नराधम ॥ 025c
यथेयं गौर्हता मूढ प्रमत्तस्य त्वया मम । 026a
प्रमत्तस्यैव मे वाचा शिरस्ते पातयिष्यति ॥ 026c
शप्तः प्रसादयामास कर्णस्तं द्विजसत्तमम् । 027a
गोभिर्धनैश्च रत्नैश्च स चैनं पुनरब्रवीत् ॥ 027c
नेदमव्याहृतं कुर्याद्ब्रह्मलोकेऽपि केवलम् । 028a
गच्छ वा तिष्ठ वा यद्वा कार्यं यत्तत्समाचर ॥ 028c
इत्युक्तो ब्राह्मणेनाथ कर्णो दैन्यादधोमुखः । 029a
राममभ्यागमद्भीतस्तदेव मनसा स्मरन् ॥ 029c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥
12-2-4 सङ्घर्षजननो वैराग्न्युद्दीपकः । सञ्चिन्त्य जनितस्तस्मादिति ट. ड. पाठः । कन्यागर्भो विनिर्मित इति झ. पाठः । तत्र कन्यागर्भो देवैः क्षत्रस्य स्वर्गमनाय निर्मित इत्यर्थः ॥ 12-2-5 चकाराऽधीतवान् । अङ्गिरसां श्रेष्ठे द्रोणे ॥ 12-2-8 दैवाद्देवानां सङ्कल्पात् ॥ 12-2-10 रहस्यं तत्प्रसादनविधिर्निवर्तनमुपसंहारस्ताभ्यां सहितं सरहस्यनिवर्तनम् ॥ 12-2-15 गुरुरेव पितेत्यभिसन्धिः 12-2-19 समुद्रान्ते दक्षिणसमुद्रसमीपे ॥ 12-2-20 होमधेनुं कर्णपर्वोक्तदिशा वत्सवध एवात्र धेनुवधो ज्ञेयः ॥ 12-2-26 प्रमत्तेन त्वया मम । प्रमत्तस्य तथाऽरातिरिति झ. पाठ ॥ 12-2-28 नेदं मद्वचनं कुर्याद्ब्रह्मलोकेऽपि चान्यथा इति ट. पाठः ॥