शान्तिपर्व अध्यायः 001 गङ्गातीरे बन्धूनां कृतोदकं युधिष्ठिरम् प्रति व्यासनारदादिमहर्षीणां समागमनम् ॥ 1 ॥ युधिष्ठिरेण तत्र नारदम् प्रति कर्णवृत्तान्तकथनप्रार्थना ॥ 2 ॥ श्रीवेदव्यासाय नमः नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । 001
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ 001
वैशम्पायन उवाच 001
कृत्वोदकं ते सुहृदां सर्वेषां पाण्डुनन्दनाः । 001a
विदुरो धृतराष्ट्रश्च सर्वाश्च भरतस्त्रियः ॥ 001c
तत्र ते सुमहात्मानो न्यवसन्कुरुनन्दनाः । 002a
शौचं निर्वर्तयिष्यन्तो मासमात्रं बहिः पुरात् ॥ 002c
कृतोदकं तु राजानं धर्मात्मानं युधिष्ठिरम् । 003a
अभिजग्मुर्महात्मानः सिद्धा ब्रह्मर्षिसत्तमाः ॥ 003c
द्वैपायनो नारदश्च देवलश्च महानृषिः । 004a
देवस्थानश्च कण्वश्च तेषां शिष्याश्च सत्तमाः ॥ 004c
अन्ये च वेदविद्वांसः कृतप्रज्ञा द्विजातयः । 005a
गृहस्थाः स्नातकाः सन्तो ददृशुः कुरुसत्तमम् ॥ 005c
तेऽभिगम्य महात्मानं पूजिताश्च यथाविधि । 006a
आसनेषु महार्हेषु विविशुः परमर्षयः ॥ 006c
प्रतिगृह्य ततः पूजां तत्कालसदृशीं तदा । 007a
पर्युपांसन्यथान्यायं परिवार्य युधिष्ठिरम् ॥ 007c
पुण्ये भागीरथीतीरे शोकव्याकुलचेतसम् । 008a
आश्वासयन्तो राजेन्द्रं विप्राः शतसहस्रशः ॥ 008c
नारदस्त्वब्रवीत्काले धर्मपुत्रं युधिष्ठिरम् । 009a
सम्भाष्य मुनिभिः सार्धं कृष्णद्वैपायनादिभिः ॥ 009c
नारद उवाच 010
पार्थस्य बाहुवीर्येण प्रसादान्माधवस्य च । 010a
जिता सेयं मही कृत्स्ना धर्मेण च युधिष्ठिर ॥ 010c
दिष्ट्या मुक्ताः स्थ सङ्ग्रामादस्माल्लोकभयङ्करात् । 011a
क्षत्रधर्मरतश्चासि कच्चिन्मोदसि पाण्डव ॥ 011c
कच्चिच्च निहतामित्रः प्रीणासि सुहृदो नृप । 012a
कच्चिच्छ्रियमिमां प्राप्य न त्वां शोकः प्रबाधते ॥ 012c
युधिष्ठिर उवाच 013
विजितेयं मही कृत्स्ना कृष्णबाहुबलाश्रयात् । 013a
ब्राह्मणानां प्रसादेन भीमार्जुनबलेन च ॥ 013c
इदं तु मे महद्दुःखं वर्तते हृदि नित्यदा । 014a
कृत्वा ज्ञातिक्षयमिमं महान्तं घोरदर्शनम् ॥ 014c
सौभद्रं द्रौपदेयांश्च घातयित्वा सुतान्प्रियान् । 015a
जयोऽयमजयाकारो भगवन्प्रतिभाति मे ॥ 015c
किन्नु वक्ष्यति वार्ष्णेयी वधूर्मे मधुसूदनम् । 016a
द्वारकावासिनी कृष्णमितः प्रतिगतं हरिम् ॥ 016c
द्रौपदी हतपुत्रेयं कृपणा हतबान्धवा । 017a
अस्मत्प्रियहिते युक्ता भूयः पीडयतीव माम् ॥ 017c
इदमन्यच्च भगवन्यत्त्वां वक्ष्यामि नारद । 018a
मन्त्रसंवरणेनास्मि कुन्त्या दुःखेन योजितः ॥ 018c
यः स नागायुतप्राणो लोकेऽप्रतिरथो रणे । 019a
सिंहविक्रान्तगामी च जितकाशी यतव्रतः ॥ 019c
आश्रयो धार्तराष्ट्राणां मानी तीक्ष्णपराक्रमः । 020a
अमर्षी नित्यसंरम्भी क्षेप्ताऽस्माकं रणेरणे ॥ 020c
शीघ्रास्त्रश्चित्रयोधी च कृती चाद्भुतविक्रमः । 021a
गूढोत्पन्नः सुतः कुन्त्या भ्राताऽस्माकमसौ किल || 021c
तोयकर्मणि तं कुन्ती कथयामास मे तदा । 022a
पुत्रं सर्वगुणोयेतं कर्णं त्यक्तं जले पुरा ॥ 022c
मञ्जूषायां समाधाय गङ्गास्रोतस्यमज्जयत् । 023a
यं सूतपुत्रं लोकोऽयं राधेयं चाभ्यमन्यत ॥ 023c
स सूर्यपुत्रः कुन्त्या वै भ्राताऽस्माकं च मातृतः । 024a
अजानता मया सङ्ख्ये राज्यलुब्धेन घातितः । 024c
तन्मे दहति गात्राणि तूलराशिमिवानलः ॥ 024e
न हि तं वेद पार्थोऽपि भ्रातरं श्वेतवाहनः । 025a
नाहं न भीमो न यमौ स त्वस्मान्वेद तत्वतः ॥ 025c
गता किल पृथा तस्य सकाशमिति नः श्रुतम् । 026a
अस्माकं शमकामा वै त्वं च पुत्रो ममेत्यथ ॥ 026c
पृथाया न कृतः कामस्तेन चापि महात्मना । 027a
अतीवानुचितं मातरवोच इति सोऽब्रवीत् ॥ 027c
न हि शक्ष्यामि सन्त्यक्तुमहं दुर्योधनं रणे । 028a
अनार्यत्वं नृशंसत्वं कृतघ्नत्वं च मे भवेत् ॥ 028c
युधिष्ठिरेण सन्धिं हि यदि कुर्यां मते तव । 029a
भीतो रणे श्वेतवाहादिति मां मंस्यते जनः ॥ 029c
सोऽहं निर्जित्य समरे विजयं सहकेशवम् । 030a
सन्धास्ये धर्मपुत्रेण पश्चादिति च सोऽब्रवीत् ॥ 030c
तमवोचत्किल पृथा पुनः पृथुलवक्षसम् । 031a
चतुर्णामभयं देहि कामं युध्यस्व फल्गुनम् ॥ 031c
सोऽब्रवीन्मातरं धीमान्वेपमानां कृताञ्जलिः । 032a
प्राप्तान्विषह्यांश्चतुरो न हनिष्यामि ते सुतान् ॥ 032c
पञ्चैव हि सुता देवि भविष्यन्ति तव ध्रुवाः । 033a
सार्जुना वा हते कर्णे सकर्णा वा हतेऽर्जुने ॥ 033c
तं पुत्रगृद्धिनी भूयो माता पुत्रमथाब्रवीत् । 034a
भ्रातॄणां स्वस्ति कुर्वीथा येषां स्वस्ति चिकीर्षसि ॥ 034c
एवमुक्त्वा किल पृथा विसृज्योपययौ गृहान् । 035a
सोऽर्जुनेन हतो वीरो भ्रात्रा भ्राता सहोदरः ॥ 035c
न चैव निःसृतो मन्त्रः पृथायास्तस्य वा मुने । 036a
अथ शूरो महेष्वासः पार्थेनाजौ निपातितः ॥ 036c
अहं त्वज्ञासिषं पश्चात्स्वसोदर्यं द्विजोत्तम । 037a
पूर्वजं भ्रातरं कर्णं पृथाया वचनात्प्रभो ॥ 037c
तेन मे दूयते तीव्रं हृदयं भ्रातृघातिनः । 038a
कर्णार्जुनसहायोऽहं जयेयमपि वासवम् ॥ 038c
सभायां क्लिश्यमानस्य धार्तराष्ट्रैर्दुरात्मभिः । 039a
सहसोत्पतितः क्रोधः कर्णं दृष्ट्वा प्रशाम्यति ॥ 039c
यदा ह्यस्य गिरो रूक्षाः शृणोमि कटुकोदयाः । 040a
सभायां गदतो द्यूते दुर्योधनहितैषिणः ॥ 040c
तदा नश्यति मे रोषः पादौ तस्य निरीक्ष्य ह । 041a
कुन्त्या हि सदृशौ पादौ कर्णस्येति मतिर्मम ॥ 041c
सादृश्यहेतुमन्विच्छन्पृथायास्तस्य चैव ह । 042a
कारणं नाधिगच्छामि कथञ्चिदपि चिन्तयन् ॥ 042c
कथं नु तस्य सङ्ग्रामे पृथिवी चक्रमग्रसत् । 043a
कथं नु शप्तो भ्राता मे तत्त्वं वक्तुमिहार्हसि ॥ 043c
श्रोतुमिच्छामि भगवंस्त्वत्तः सर्वं यथातथम् । 044a
भवान्हि सर्वविद्विद्वाल्ँलोके वेद कृताकृतम् ॥ 044c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि प्रथमोऽध्यायः ॥ 1 ॥

12-1-1 कृतोदकास्ते इति झ. पाठः ॥ 12-1-2 तत्र गङ्गातीरे ॥ 12-1-8 आश्वासयन्तः हेतौ शतृप्रत्ययः । आश्वासनार्थं पर्युपासन्नित्यर्थः ॥ 12-1-16 वधूः कनिष्ठभ्रातृभार्यात्वात्स्नुषाभूता । वार्ष्णेयी सुभद्रा ॥ 12-1-18 मन्त्रसंवरणेन गूढोत्पन्नस्यास्मद्भ्रातुः कर्णस्याप्रकाशेन ॥ 12-1-20 अमर्षी परोत्कर्षासहिष्णुः । नित्यसंरम्भी सदा क्रोधवान् ॥ 12-1-24 मातृतः मातृसम्बन्धेन ॥ 12-1-26 पाण्डववत् त्वं च पुत्रो ममेत्यब्रवीदिति शेषः ॥ 12-1-27 कामोऽभिलषितम् ॥ 12-1-32 वध्यान्विषबह्यानिति थ. पाठः । विषह्यान्वशगान् ॥ 12-1-35 विसृज्य कर्णमिति शेषः ॥ 12-1-43 चक्रं रथचक्रम् ॥ 12-1-44 कृतं कार्यम् । अकृतं कारणम् ॥