श्रीः अध्यायः 027 मृतानामुदकदानाय धृतराष्ट्रयुधिष्ठिरादिभिर्गङ्गातीरगमनम् ॥ 1 ॥ उदकदानारम्भे कुन्त्या युधिष्ठिरम् प्रति कर्णस्य स्वपुत्रत्वकथनपूर्वकं तस्या उदकदानचोदना ॥ 2 ॥ धृतराष्ट्रयुधिष्ठिरादिभिर्बन्धुभ्यो जलदानम् ॥ 3 ॥ वैशम्पायन उवाच 001
ते समासाद्य गङ्गां तु शिवां पुण्यजलान्विताम् । 001a
ह्लादिनीं च प्रसन्नां च महारूपां महावनाम् ॥ 001c
भूषणान्युत्तरीयाणि वेष्टनान्यवमुच्य च । 002a
'कवचानि विचित्राणि गङ्गामवजगाहिरे ॥' 002c
ततः पितॄणां भ्रातॄणां पौत्राणां स्वजनस्य च । 003a
पुत्राणामार्यकाणां च पतीनां च कुरुस्त्रियः ॥ 003c
उदकं चक्रिरे सर्वा रुदन्त्यो भृशदुःखिताः । 004a
सुहृदां चापि धर्मज्ञाः प्रचक्रुः सलिलक्रियाम् ॥ 004c
उदके क्रियमाणे तु वीराणां विरपत्निभिः । 005a
सूपतीर्थाऽभवद्गङ्गा भूयो विप्रससार च ॥ 005c
तन्महोदधिसङ्काशं निरानन्दमनुत्सवम् । 006a
वीरपत्नीभिराकीर्णं गङ्गातीरमशोभत ॥ 006c
ततः कुन्ती महाराज रुदन्ती शोककर्शिता । 007a
व्रीडया मन्दया वाचा पुत्रान्वचनमब्रवीत् ॥ 007c
यः स वीरो महेष्वासो रथयूथपयूथपः । 008a
अर्जुनेन हतः सङ्ख्ये वीरलक्षणलक्षितः ॥ 008c
यं सूतपुत्रं मन्यध्वं राधेयमिति पाण्डवाः । 009a
यो व्यराजच्चमूमध्ये दिवाकर इव प्रभुः ॥ 009c
प्रत्ययुध्यत वः सर्वान्पुरा यः सपदानुगान् । 010a
दुर्योधनबलं सर्वं यः प्रकर्षन्व्यरोचत ॥ 010c
यस्य नास्ति समो वीर्ये पृथिव्यामपि कश्चन । 011a
यो वृणीत यशः शूरः प्राणैरपि सदा भुवि ॥ 011c
कर्णस्य सत्यसन्धस्य सङ्ग्रामेष्वपलायिनः । 012a
कुरुध्वमुदकं तस्य भ्रातुरक्लिष्टकर्मणः ॥ 012c
स हि वः पूर्वजो भ्राता भास्करान्मय्यजायत । 013a
कुण्डली कवची शूरो दिवाकरसमप्रभः ॥ 013c
श्रुत्वा तु पाण्डवाः सर्वे मातुर्वचनमप्रियम् । 014a
कर्णमेवानुशोचन्तो भूयश्चात्यातुरा भवन् ॥ 014c
ततः स पुरुषव्याघ्रः कुन्तीपुत्रो युधिष्ठिरः । 015a
उवाच मातरं वीरो निःश्वसन्निव पन्नगः ॥ 015c
यः शरोर्मिर्ध्वजावर्तो महाभुजमहाग्रहः । 016a
तलशब्दप्रणुदितो महारथमहाह्रदः ॥ 016c
यस्येषुपातमासाद्य कोऽन्यस्तिष्ठेद्धनञ्जयात् । 017a
कथं पुत्रो भवत्याः स देवगर्भः पुराऽभवत् । 017c
'कुण्डली कवची शूरो दिवाकरसमप्रभः ॥ 017e
यस्य बाहुप्रतापेन तापिताः सर्वतो वयम् । 018a
तमग्निमिव वस्त्रेण कथं छादितवत्यसि ॥ 018c
यस्य बाहुप्रभावेन वैरमस्मास्वरोचयत् । 019a
सुयोधनस्तु तं ज्येष्ठं कथं नोदितवत्यसि ॥ 019c
तथा कर्णं महेष्वासं धार्तराष्ट्रैरुपासितम् । 020a
उपासितं यथाऽस्माभिर्बलं गाण्डीवधन्वनः ॥ 020c
भूमिपानां च सर्वेषां बलं बलवतां वरः । 021a
नान्यः कुन्तीसुतात्कर्णादगृह्णाद्रथिनो रथी ॥ 021c
स नः प्रथमजो भ्राता सर्वशस्त्रभृतां वरः । 022a
असूत तं भवत्यग्रे कथमद्भुतविक्रमम् ॥ 022c
अहो भवत्या मन्त्रस्य गूहनेन वयं हताः । 023a
निधनेन हि कर्णस्य पीडितास्तु सबान्धवाः ॥ 023c
अभिमन्योर्विनाशेन द्रौपदेयवधेन च । 024a
पाञ्चालानां विनाशेन कुरूणां घातनादपि ॥ 024c
ततः शतगुणं दुःखमिदमापतितं महत् । 025a
कर्णमेवानुशोचामि दह्याम्यग्नाविवाहितः ॥ 025c
नेह स्म किञ्चिदप्राप्यं भवेदपि दिवि स्थितम् । 026a
न चेदं वैशसं घोरकं कौरवान्तकरं भवेत् ॥ 026c
एवं विलप्य बहुलं धर्मराजो युधिष्ठिरः । 027a
व्यरुदच्छनकै राजंश्चकारास्योदकं प्रभुः ॥ 027c
ततो विनेदुः सहसा स्त्रियस्ताः खलु सर्वशः । 028a
अभितो याः स्थितास्तत्र तस्मिन्नुदककर्मणि ॥ 028c
तत आनाययामास कर्णस्य सपरिच्छदाः । 029a
स्त्रियः कुरुपतिर्धीमान्भ्रातुः प्रेम्णा युधिष्ठिरः ॥ 029c
स ताभिः सह धर्मात्मा प्रेतकृत्यमनन्तरम् । 030a
'सर्वं चकार कर्णस्य विधिवद्भूरिदक्षिणम् ॥ 030c
स राजा धृतराष्ट्रश्च कृत्वा जलमतन्द्रितः । 031a
समुत्ततार गङ्गाया भार्यया सह भारत ॥' 031c
[पापेनासौ मया श्रेष्ठो भ्राता ज्ञातिर्निपातितः । 032a
अतो मनसि यद्गुह्यं स्त्रीणां तन्न भविष्यति ॥ 032c
इत्युक्त्वा स तु गङ्गाया उत्तताराकुलेन्द्रियः । 033a
भ्रातृभिः सहितः सर्वैर्गङ्गातीरमुपेयिवान् ॥] 033c

इति श्रीमन्महाभारते शतसाहस्रिकायां संहितायां वैयासिक्यां स्त्रीपर्वणि श्राद्धपर्वणि सप्तविंशोऽध्यायः ॥ 27 ॥

11-27-2 वेष्टनानि उष्णीषकटिबन्धनादीनि ॥ 11-27-5 सूपतीर्था शोभनजलावतरणमार्गा ॥ 11-27-14 भवन् अभवन् । अडभाव आर्षः ॥ 11-27-25 दग्धामग्नाविवाहुतिमिति क. पाठः ॥ 11-27-26 कर्णे भ्रातृत्वेन ज्ञाते सति तदनुसारिणामस्माकमपि दुर्लभं नाभविष्यन्नपि कौरवाणां क्षयोऽभविष्यदित्यर्थः । न च मे किञ्चिदप्राप्यमिति क. पाठः ॥ सप्तविंशोऽध्यायः ॥