श्रीः अध्यायः 026 शोकाद्भुवि पतिताया गान्धार्याः कृष्णेनाश्वासनम् ॥ 1 ॥ युधिष्ठिराज्ञया विदुरसञ्जयादिभिर्मृतानां दाहक्रियाकरणम् ॥ 2 ॥ श्रीभगवानुवाच 001
उत्तिष्ठोत्तिष्ठ गान्धारि मा च शोके मनः कृथाः । 001a
तवैव ह्यपराधेन कुरवो निधनं गताः ॥ 001c
यत्त्वं पुत्रं दुरात्मानमीर्षुमत्यन्तमानिनम् । 002a
दुर्योधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे ॥ 002c
निष्ठुरं वैरपुरुषं वृद्धानां शासनातिगम् । 003a
कथमात्मकृतं दोषं मय्याधातुमिहेच्छसि ॥ 003c
मृतं वा यदि वा नष्टं योऽतीतमनुशोचति । 004a
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते ॥ 004c
तपोर्थीयं ब्राह्मणी धत्त गर्भं गौर्वोढारं धावितारं तुरङ्गी । 005a
शूद्रा दासं पशुपालं च वैश्या वधार्थीयं त्वद्विधा राजपुत्री ॥ 005c
वैशम्पायन उवाच 006
तच्छ्रुत्वा वासुदेवस्य पुनरुक्तं वचोऽप्रियम् । 006a
तूष्णीं बभूव गान्धारी शोकव्याकुललोचना ॥ 006c
धृतराष्ट्रस्तु राजर्षिर्निगृह्याबुद्धिजं तमः । 007a
पर्यपृच्छत धर्मज्ञो धर्मराजं युधिष्ठिरम् ॥ 007c
जीवतां परिमाणज्ञः सैन्यानामसि पाण्डव । 008a
हतानां यदि जानीषे परिमाणं वदस्व मे ॥ 008c
युधिष्ठिर उवाच 009
दशायुतसहस्राणि सहस्राणि च विंशतिः । 009a
कोट्यः षष्टिश्च षट् चैव ह्यस्मिन्राजन्मृधे हताः ॥ 009c
आलक्षाणां च वीराणां सहस्राणि चतुर्दश । 010a
दश चान्यानि राजेन्द्र शतं षष्टिश्च भारत ॥ 010c
धृतराष्ट्र उवाच 011
युधिष्ठिरगतिं कां ते गताः पुरुषसत्तम । 011a
आचक्ष्व मे महाबाहो सर्वज्ञो ह्यसि मे मतः ॥ 011c
युधिष्ठिर उवाच 012
यैर्हुतानि शरीराणि हृष्टैः परमसंयुगे । 012a
देवराजसमाँल्लोकान्गतास्ते सत्यविक्रमाः ॥ 012c
ये त्वहृष्टेन मनसा मर्तव्यमिति भारत । 013a
युध्यमाना हताः सङ्ख्ये गन्धर्वैः सह सङ्गताः ॥ 013c
ये च सङ्ग्रामभूमिष्ठा याचमानाः पराङ्मुखाः । 014a
शस्त्रेण निधनं प्राप्ता गतास्ते गुह्यकान्प्रति ॥ 014c
पात्यमानाः परैर्ये तु हीयमाना निरायुधाः । 015a
ह्रीनिषेवा महात्मानः परानभिमुखा रणे ॥ 015c
छिद्यमानाः शितैः शस्त्रैः क्षत्रधर्मपरायणाः । 016a
हतास्ते ब्रह्मसदनं गता वीराः सुवर्चसः ॥ 016c
ये त्वत्र निहता राजन्नन्तरायोधनं प्रति । 017a
यथाकथञ्चित्पुरुषास्ते गता ह्युत्तरां गतिम् ॥ 017c
धृतराष्ट्र उवाच 018
केन ज्ञानबलेनैव पुत्र पश्यसि सिद्धवत् । 018a
तन्मे वद महाबाहो श्रोतव्यं यदि वै मया ॥ 018c
युधिष्ठिर उवाच 019
निदेशाद्भवतः पूर्वं वने विचरता मया । 019a
तीर्थयात्राप्रसङ्गेन सम्प्राप्तोऽयमनुग्रहः ॥ 019c
देवर्षिर्लोमशो दृष्टस्ततः प्राप्तोऽस्म्यनुस्मृतिम् । 020a
दिव्यं चक्षुरपि प्राप्तं ज्ञानयोगेन वै पुरा ॥ 020c
धृतराष्ट्र उवाच 021
ये त्वनाथा जनास्तात नाथवन्तश्च पाण्डव । 021a
कच्चित्तेषां शरीराणि धक्ष्यन्ति विधिपूर्वकम् ॥ 021c
युधिष्ठिर उवाच 022
न येषां शान्तिकर्तारो न च येऽत्राहिताग्नयः । 022a
वयं च तेषां कुर्यामो बहुत्वात्तात कर्मणाम् ॥ 022c
यान्सुपर्णाश्च गुध्राश्च विकर्षन्ति ततस्ततः । 023a
तेषां सङ्कर्षणा लोका भविष्यन्ति न संशयः ॥ 023c
वैशम्पायन उवाच 024
एवमुक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः । 024a
आदिदेश सुधर्माणं धौम्यं सूतं च सञ्जयम् ॥ 024c
विदुरं च महाबुद्धिं युयुत्सुं चैव कौरवम् । 025a
इन्द्रसेनमुखान्भृत्यान्सूतांश्चैव सहस्रशः ॥ 025c
भवन्तः कारयन्त्वेषां प्रेतकार्याण्यशेषतः । 026a
यथा नाथवतां किञ्चिच्छरीरं न विनश्यति ॥ 026c
शासनाद्धर्मराजस्य क्षत्ता सूतश्च सञ्जयः । 027a
सुधर्मा धौम्यसहित इन्द्रसेनादयस्तथा ॥ 027c
चन्दनागुरुकाष्ठानि तथा कालीयकान्युत । 028a
घृतं तैलं च गन्धांश्च क्षौमाणि वसनानि च ॥ 028c
समाहृत्य महार्हाणि दारुणां चैव सञ्चयान् । 029a
रथांश्च मृदितांस्तत्र नानाप्रहरणानि च ॥ 029c
चिताः कृत्वा प्रयत्नेन यथामुख्यान्नराधिपान् । 030a
दाहयामासुरव्यग्राः शास्त्रदृष्टेन कर्मणा ॥ 030c
दुर्योधनं च राजानं भ्रातॄंश्चास्य महारथान् | 031a
शल्यं शलं च राजानं भूरिश्रवसमेव च ॥ 031c
जयद्रथं च राजानमभिमन्युं च भारत । 032a
दौःशासनिं लक्ष्मणं च धृष्टकेतुं च पार्थिवम् ॥ 032c
बृहद्बलं सोमदत्तं सृञ्जयं च महारथम् । 033a
राजानं क्षेमधन्वानं विराटद्रुपदौ तथा ॥ 033c
शिखण्डिनं च पाञ्चाल्यं धृष्टद्युम्नं च पार्षतम् । 034a
युधामन्युं च विक्रान्तमुत्तमौजसमेव च ॥ 034c
कौसल्यं द्रौपदेयांश्च शकुनिं चापि सौबलम् । 035a
अचलं वृषकं चैव भगदत्तं च पार्थिवम् ॥ 035c
कर्णं वैकर्तनं चैव सहपुत्रममर्षणम् । 036a
केकयांश्च महेष्वासांस्त्रिगर्तांश्च महारथान् ॥ 036c
घटोत्कचं राक्षसेन्द्रं बकभ्रातरमेव च । 037a
अलम्बुसं राक्षसेन्द्रं जलसन्धं च पार्थिवम् ॥ 037c
एतांश्चान्यांश्च सुबहून्पार्थिवांश्च सहस्रशः । 038a
घृतधाराहुतैर्दीप्तैः पावकैः समदाहयन् || 038c
पितृमेधाश्च केषाञ्चित्प्रावर्तन्त महात्मनाम् । 039a
सामभिश्चाप्यगायन्त तेऽन्वशासत चापरैः ॥ 039c
साम्नामृचां च नादेन स्त्रीणां च रुदितस्वनैः । 040a
कश्मलं सर्वभूतानां निशायां समपद्यत ॥ 040c
हुताश्च तत्प्रदीप्ताश्च दीप्यमानाश्च पावकाः । 041a
नभसीवान्वदृश्यन्त ग्रहास्तन्वभ्रसंवृताः ॥ 041c
ये चाप्यनाथास्तत्रासन्नानादेशसमागताः । 042a
तांश्च सर्वान्समानीय राशीकृत्वा सहस्रशः ॥ 042c
चित्वा दारुभिरव्यग्रैः प्रभूतैः स्नेहपाचितैः । 043a
दाहयामास तान्सर्वान्विदुरो राजशासनात् ॥ 043c
कारयित्वा क्रियास्तेषां कुरुराजो युधिष्ठिरः । 044a
धृतराष्ट्रं पुरस्कृत्य गङ्गामभिमुखोऽगमत् ॥ 044c

इति श्रीमन्महाभारते स्त्रीपर्वणि श्राद्धपर्वणि षड्विंशोऽध्यायः ॥ 26 ॥

11-26-2 दुष्कृतं दुराचरितं स्वकीयम् ॥ 11-26-3 वैरप्रियं पुरुषं वैरपुरुषम् ॥ 11-26-4 द्वौ पूर्वापरदुःखद्वयरूपौ ॥ 11-26-5 तपोरूपायार्थाय उत्पन्नं तपोर्थीयम् । त्वद्विधा वधार्थीयमेव गर्भं धत्ते । अन्या तु जयार्थीयं कीर्त्याद्यर्थीयमपीति भावः । तपोर्थिनं, वधार्थिनम् इति क. पाठः ॥ 11-26-17 ते गतास्तूत्तरान्कुरूनिति छ. पाठः । ते गतास्तूत्तमां गतिमिति ट. पाठः । ते गता ह्यधमां गतिमिति क. पाठः ॥ 11-26-24 सुधर्माणं दुर्योधनपुरोहितम् ॥ 11-26-43 स्नेहपाचितैः स्नेहसंयुक्तैः ॥ षड्विंशोऽध्यायः ॥