श्रीः
अध्यायः 025
कृष्णम् प्रति गान्धार्या कुरुपाण्डवसङ्क्षयस्य कृष्णोपेक्षणहेतुकत्वकथनपूर्वकं सर्वबन्धुसङ्क्षयाय शापदानम् ॥ 1 ॥
गान्धार्युवाच 001
काम्भोजं पश्य दुर्धर्षं काम्भोजास्तरणोचितम् । 001a
शयानमृषभस्कन्धं हतं पांसुषु माधव ॥ 001c
अस्य क्षतजसन्दिग्धौ बाहू चन्दनरूषितौ । 002a
अवेक्ष्य कृपणं भार्या विलपत्यतिदुःखिता ॥ 002c
इमौ तौ परिघप्रख्यौ बाहू चन्दनरूषितौ । 003a
ययोर्विवरमापन्नां न रतिर्मां पुराऽजहात् ॥ 003c
कां गतिं तु गमिष्यामि त्वया हीना जनेश्वर । 004a
दूरबन्धुरनाथा च वेपन्ती मधुरस्वरा ॥ 004c
आतपे क्लाम्यमानानां विविधानामिव स्रजाम् । 005a
क्लान्तानामपि नारीणां जहाति श्रीर्न वै तनूः ॥ 005c
शयानमभितः शूरं कालिङ्गं मधुसूदन । 006a
पश्य दीप्ताङ्गदयुतं प्रतिमानं धनुष्मताम् ॥ 006c
मागधानामधिपतिं जयत्सेनं जनार्दन । 007a
परिवार्य प्ररुदिता मागध्यः पश्य योषितः ॥ 007c
हरिणायतनेत्राणां सुस्वराणां जनार्दन । 008a
मनःश्रुतिहरो नादो मनो मोहयतीव मे ॥ 008c
प्रकीर्णवस्त्राभरणा रुदत्यः शोककर्शिताः । 009a
स्वास्तीर्णशयनोपेता मागध्यः शेरते भुवि ॥ 009c
कोसलानामधिपतिं राजपुत्रं बृहद्बलम् । 010a
भर्तारं परिवार्यैताः पृथक्प्ररुदिताः स्त्रियः ॥ 010c
अस्य गात्रगतान्बाणान्कार्ष्णिबाहुबलेरितान् । 011a
उद्धरन्त्यसुखाविष्टा मूर्च्छमानाः पुनः पुनः ॥ 011c
आसां सर्वानवद्यानामातपेन परिश्रमात् । 012a
प्रम्लाननलिनाभानि भान्ति वक्त्राणि माधव ॥ 012c
द्रोणेन निहताः शूरा शेरते रुचिराङ्गदाः । 013a
धृष्टद्युम्नसुताः सर्वे शिशवो हेममालिनः ॥ 013c
रथाग्न्यगारं चापार्चिं शरशक्तिगदेन्धनम् । 014a
द्रोणमासाद्य निर्दग्धाः शलभा इव पावकम् ॥ 014c
तथैव निहताः शूराः शेरते रुचिराङ्गदाः । 015a
द्रोणेनाभिमुखाः सङ्ख्ये भ्रातरः पञ्च केकयाः ॥ 015c
तप्तकाञ्चनवर्माणस्तालध्वजरथव्रजाः । 016a
भासयन्ति महीं भासा ज्वलिता इव पावकाः ॥ 016c
द्रोणेन द्रुपदं सङ्ख्ये पश्य माधव पातितम् । 017a
महाद्विपमिवारण्ये सिंहेन महता हतम् ॥ 017c
पाञ्चालराज्ञो विमलं पुण्डरीकाक्ष पाण्डुरम् । 018a
आतपत्रं समाभाति शरदीव निशाकरः ॥ 018c
एतास्तु द्रुपदं वृद्धं स्नुषा भार्याश्च दुःखिताः । 019a
दग्ध्वा गच्छन्ति पाञ्चालराजानमपसव्यतः ॥ 019c
धृष्टकेतुं महात्मानं चेदिपुङ्गवमङ्गनाः । 020a
द्रोणेन निहतं शूरं हरन्ति हृतचेतसः ॥ 020c
द्रोणास्त्रमभिहत्यैष विमर्दे मधुसूदन । 021a
महेष्वासो हतः शेते वज्राहत इव द्रुमः ॥ 021c
एष चेदिपतिः शूरो धृष्टकेतुर्महारथः । 022a
शेते विनिहतः सङ्ख्ये हत्वा शत्रून्सहस्रशः ॥ 022c
वितुद्यमानं विहगैस्तं भार्याः पर्युपाश्रिताः । 023a
चेदिराजं हृषीकेश हतं सबलबान्धवम् ॥ 023c
दाशार्हपुत्रजं वीरं शयानं सत्यविक्रमम् । 024a
आरोप्याङ्के रुदन्त्येताश्चेदिराज वराङ्गनाः ॥ 024c
अस्य पुत्रं हृषीकेश सुवक्त्रं चारुकुण्डलम् । 025a
द्रोणेन समरे पश्य निकृत्तं बहुधा शरैः ॥ 025c
पितरं नूनमाजिस्थं युध्यमानं परैः सह । 026a
नाजहात्पितरं वीरमद्यापि मधुसूदन ॥ 026c
एवं ममापि पुत्रस्य पुत्रः पितरमन्वगात् । 027a
दुर्योधनं महाबाहो लक्ष्मणः परवीरहा ॥ 027c
विन्दानुविन्दावावन्त्यौ पतितौ पश्य माधव । 028a
हिमान्ते पुष्पितौ शालौ मरुता गलिताविव ॥ 028c
काञ्चनाङ्गदवर्माणौ बाणखड्गधनुर्धरौ । 029a
ऋषभप्रतिरूपाक्षौ शयानौ विमलस्रजौ ॥ 029c
अवध्याः पाण्डवाः कृष्ण सर्व एव त्वया सह । 030a
ये मुक्ता द्रोणभीष्माभ्यां कर्णाद्वैकर्तनात्कृपात् ॥ 030c
दुर्योधनाद्द्रोणसुतात्सैन्धवाच्च जयद्रथात् । 031a
सोमदत्ताद्विकर्णाच्च शूराच्च कृतवर्मणः ॥ 031c
ये हन्युः शस्त्रवेगेन देवानपि नरर्षभाः । 032a
त इमे निहताः सङ्ख्ये पश्य कालस्य पर्ययम् ॥ 032c
नातिभारोऽस्ति दैवस्य ध्रुवं माधव कश्चन । 033a
यदिमे निहताः शूराः क्षत्रियैः क्षत्रियर्षभाः । 033c
'शूराश्च कृतविद्याश्च मम पुत्रा मनस्विनः ॥' 033e
तदैव निहताः कृष्ण मम पुत्रास्तरस्विनः । 034a
यदैवाकृतकामस्त्वमुपप्लाव्यं गतः पुनः ॥ 034c
शन्तनोश्चैव पुत्रेण प्राज्ञेन विदुरेण च । 035a
तदैवोक्तास्मि मा स्नेहं कुरुष्वात्मसुतेष्विति ॥ 035c
तयोर्हि दर्शनं नैतन्मिथ्या भवितुमर्हति । 036a
अचिरेणैव मे पुत्रा भस्मीभूता जनार्दन ॥ 036c
वैशम्पायन उवाच 037
इत्युक्त्वा न्यपतद्भूमौ गान्धारी शोकमूर्च्छिता । 037a
दुःखोपहतविज्ञाना धैर्यमुत्सृज्य भारत ॥ 037c
ततः कोपपरीताङ्गी पुत्रशोकपरिप्लुता । 038a
जगाद शौरिं दोषेण गान्धारी व्यथितेन्द्रिया ॥ 038c
गान्धार्युवाच 039
पाण्डवा धार्तराष्ट्राश्च क्रुद्धाः कृष्ण परस्परम् । 039a
उपेक्षिता विनश्यन्तस्त्वया कस्माज्जनार्दन ॥ 039c
शक्तेन बहुभृत्येन विपुले तिष्ठता बले । 040a
उभयत्र समर्थेन श्रुतवाक्येन चैव ह ॥ 040c
इच्छतोपेक्षितो नाशः कुरूणां मधुसूदन । 041a
यस्मात्त्वया महाबाहो फलं तस्मादवाप्नुहि ॥ 041c
पतिशुश्रूषया यन्मे तपः किञ्चिदुपार्जितम् । 042a
तेन त्वां दुरवापेन शपे चक्रगदाधरम् ॥ 042c
यस्मात्परस्परं घ्नन्तो ज्ञातयः कुरुपाण्डवाः । 043a
उपेक्षितास्ते गोविन्द तस्माज्ज्ञातीन्वधिष्यसि ॥ 043c
त्वमप्युपस्थिते वर्षे षट्त्रिंशे मधुसूदन । 044a
हतज्ञातिर्हतामात्यो हतपुत्रो वनेचरः ॥ 044c
अनाथवदविज्ञातो लोकेष्वनभिलक्षितः । 045a
कुत्सितेनाभ्युपायेन निधनं समवाप्स्यसि ॥ 045c
तवाप्येवं हतसुता निहतज्ञातिबान्धवाः । 046a
स्त्रियः परिपतिष्यन्ति यथैता भरतस्त्रियः ॥ 046c
वैशम्पायन उवाच 047
तच्छ्रुत्वा वचनं घोरं वासुदेवो महामनाः । 047a
उवाच देवीं गान्धारीमीषदभ्युत्स्मयन्निव ॥ 047c
जानेऽहमेतदप्येवं चीर्णं चरसि क्षत्रिये । 048a
दैवादेव विनश्यन्ति वृष्णयो नात्र संशयः ॥ 048c
संहर्ता वृष्णिचक्रस्य नान्यो मद्विद्यते शुभे । 049a
अवध्यास्ते नरैरन्यैरपि वा देवदानवैः ॥ 049c
परस्परकृतं नाशं यतः प्राप्स्यन्ति यादवाः । 050a
इत्युक्तवति दाशार्हे पाण्डवास्त्रस्तचेतसः । 050c
बभूवुर्भृशसंविग्ना निराशाश्चापि जीविते ॥ 050e
इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि पञ्चविंशोऽध्यायः ॥ 25 ॥
11-25-1 काम्भोजास्तरणं कम्बलविशेषः ॥ 11-25-3 बाहू शुभतलाङ्गुली इति झ. पाठः ॥ 11-25-6 दीप्ताङ्गदयुगप्रतिनद्धमहाभुजमिति झ. पाठः ॥ 11-25-24 दाशार्हपुत्रजमित्यत्र पुत्र्यामपि पुत्रशब्दः ॥ 11-25-26 पितरमिति पितृपदस्यावृत्तिः शोकाकुलत्वान्न दोषाय ॥ 11-25-36 तयोर्भीष्मविदुरयोः दर्शनम् अनागतावेक्षणम् ॥ 11-25-38 जगाद शौरिं रोषेणेति ट .पाठः ॥ 11-25-47 अभ्युत्स्मयन्नीषद्ध्वंसयन् ॥ 11-25-48 चीर्णं चरसि मदनुष्टितमेवानुतिष्ठसि । स्वतपोनाशार्थमिति भावः ॥ पञ्चविंशोऽध्यायः ॥