श्रीः अध्यायः 023 कृष्णं प्रति गान्धार्या भीष्मद्रोणादिगुणानुवर्णनपूर्वकं तत्तच्छरीराणां विलपन्तीनां तत्तत्स्त्रीणां च प्रदर्शनम् ॥ 1 ॥ गान्धार्युवाच 001
एष शल्यो हतः शेते साक्षान्नकुलमातुलः । 001a
धर्मज्ञेन हतस्तात धर्मराजेन संयुगे ॥ 001c
यस्त्वया स्पर्धते नित्यं सर्वत्र पुरुषर्षभ । 002a
स एष निहतः शेते मद्रराजो महाबलः ॥ 002c
'जयद्रथे यदि ब्रूयुरुपरोधं कथञ्चन । 003a
मद्रपुत्रे कथं ब्रूयुरपराधं विवक्षवः ॥' 003c
येन सङ्गृह्णता तात रथमाधिरथेर्युधि । 004a
जयार्थं पाण्डुपुत्राणां तदा तेजोवधः कृतः ॥ 004c
अहो धिक्पश्य शल्यस्य पूर्णचन्द्रसुदर्शनम् । 005a
मुखं पद्मपलाशाक्षं काकैरादष्टमव्रणम् ॥ 005c
एषा चामीकराभस्य तप्तकाञ्चनसप्रभा । 006a
आस्याद्विनिःसृता जिह्वा भक्ष्यते कृष्ण पक्षिभिः ॥ 006c
युधिष्ठिरेण निहतं शल्यं समितिशोभनम् । 007a
रुदन्त्यः पर्युपासन्ते मद्रराजं कुलाङ्गनाः ॥ 007c
एताः सुसूक्ष्मवसना मद्रराजं नरर्षभम् । 008a
क्रोशन्त्योऽथ समासाद्य क्षत्रियाः क्षत्रियर्षभम् ॥ 008c
शल्यं निपतितं नार्यः परिवार्याभितः स्थिताः । 009a
वासिता गृष्टयः पङ्के परिमग्नमिवर्षभम् ॥ 009c
शल्यं शरणदं शूरं पश्येमं वृष्णिनन्दन । 010a
शयानं वीरशयने शरैर्विशकलीकृतम् ॥ 010c
एष शैलालयो राजा भगदत्तः प्रतापवान् । 011a
गजाङ्कुशधरः श्रीमाञ्शेते भुवि निपातितः ॥ 011c
यस्य रुक्ममयी माला शिरस्येषा विराजते । 012a
श्वापदैर्भक्ष्यमाणस्य शोभयन्तीव मूर्धजान् ॥ 012c
एतेन किल पार्थस्य युद्धमासीत्सुदारुणम् । 013a
रोमहर्षणमत्युग्रं शक्रस्य त्वहिना यथा ॥ 013c
योधयित्वा माहाबाहुरेष पार्थं धनञ्जयम् । 014a
संशयं गमयित्वा च कुन्तीपुत्रेण पातितः ॥ 014c
यस्य नास्ति समो लोके शौर्ये वीर्ये च कश्चन । 015a
स एष निहतः शेते भीष्मो भीष्मकृदाहवे ॥ 015c
पश्य शान्तनवं कृष्ण शयानं सूर्यवर्चसम् । 016a
युगान्त इव कालेन पातितं सूर्यमम्बरात् ॥ 016c
एष तप्त्वा रणे शत्रूञ्शस्त्रतापेन वीर्यवान् । 017a
नरसूर्योऽस्तमभ्येति सूर्योऽस्तमिव केशव ॥ 017c
शरतल्पगतं भीष्ममूर्ध्वरेतसमच्युतम् । 018a
शयानं वीरशयने पश्य शूरनिषेविते ॥ 018c
कर्णिनालीकनाराचैरास्तीर्य शयनोत्तमम् । 019a
आविश्य शेते भगवान्स्कन्दः शरवणं यथा ॥ 019c
अतूलपूर्णं गाङ्गेयस्त्रिभिर्बाणैः समन्वितम् । 020a
उपधायोपधानाग्र्यं दत्तं गाण्डीवधन्वना ॥ 020c
पालयानः पितुः शास्त्रमूर्ध्वरेता महायशाः । 021a
एष शान्तनवः शेते माधवाप्रतिमो युधि ॥ 021c
धर्मात्मा तात सर्वज्ञः पारावर्येण निर्णये । 022a
अमर्त्य इव मर्त्यः सन्नेष प्राणानधारयत् ॥ 022c
नास्ति युद्धे कृती कश्चिन्न विद्वान्न पराक्रमी । 023a
यत्र शान्तनवो भीष्मः शेतेऽद्य निहतः परैः ॥ 023c
स्वयमेतेन शूरेण पृच्छ्यमानेन पाण्डवैः । 024a
धर्मज्ञेनाहवे मृत्युरादिष्टः सत्यवादिना ॥ 024c
प्रनष्टः कुरुवंशश्च पुनर्येन समुद्धृतः । 025a
स गतः कुरुभिः सार्धं महाबुद्धिः पराभवम् ॥ 025c
धर्मेण कुरवः केन परिद्रक्ष्यन्ति माधव । 026a
हते देवव्रते भीष्मे देवकल्पे नरर्षभे ॥ 026c
अर्जुनस्य विनेतारमाचार्यं सात्यकेस्तथा । 027a
तं पश्य पतितं द्रोणं कुरूणां गुरुमुत्तमम् ॥ 027c
अस्त्रं चतुर्विधं वेद यथैव त्रिदशेश्वरः । 028a
भार्गवो वा महावीर्यस्तथा द्रोणोऽपि माधव ॥ 028c
यस्य प्रसादाद्बीभत्सुः पाण्डवः कर्म दुष्करम् । 029a
चकार स हतः शेते नैनमस्त्राण्यपालयन् ॥ 029c
यं पुरोधाय कुरव आह्वयन्ति स्म पाण्डवान् । 030a
सोऽयं शस्त्रभृतां श्रेष्ठो द्रोणः शस्त्रपृथक्कृतः ॥ 030c
यस्य निर्दहतः सेनां गतिरग्नेरिवाभवत् । 031a
स भूमौ निहतः शेते शान्तार्चिरिव पावकः ॥ 031c
धनुर्मुष्टिरशीर्णश्च हस्तावापश्च माधव । 032a
द्रोणस्य निहतस्यापि दृश्यते जीवतो यथा ॥ 032c
वेदा यस्माच्च चत्वारः सर्वाण्यस्त्राणि केशव । 033a
अनपेतानि वै शूराद्यथैवादौ प्रजापतेः ॥ 033c
चन्दनार्हाविमौ तस्य वन्दिभिर्वन्दितौ शुभौ । 034a
गोमायवो विकर्षन्ति पादौ शिष्यशतार्चितौ ॥ 034c
द्रोणं द्रुपदपुत्रेण निहतं मधुसूदन । 035a
कृपी कृपणमन्वास्ते दुःखोपहतचेतना ॥ 035c
तां पश्य रुदतीमार्तां मुक्तकेशीमधोमुखीम् । 036a
हतं पतिमुपासन्तीं द्रोणं शस्त्रभृतां वरम् ॥ 036c
बाणैर्भिन्नतनुत्राणं धृष्टद्युम्नेन केशव । 037a
उपास्ते वै मृधे द्रोणं जटिला ब्रह्मचारिणी ॥ 037c
प्रेतकृत्ये च यतते कृपी कृपणमातुरा । 038a
हतस्य समरे भर्तुः सुकुमारी यशस्विनी ॥ 038c
अग्नीनाधाय विविधवच्चितां प्रज्वाल्य सर्वतः । 039a
द्रोणमाधाय गायन्ति त्रीणि सामानि सामगाः ॥ 039c
कुर्वन्ति च चितामेते जटिला ब्रह्मचारिणः । 040a
धनुर्भिः शक्तिभिश्चैव रथनीडैश्च माधव ॥ 040c
शरैश्च विविधैरन्यैर्धक्ष्यन्ते भूरितेजसम् । 041a
त एते द्रोणमादाय गायन्ति च रुदन्ति च ॥ 041c
सामभिस्त्रिभिरन्तस्थैरनुशंसन्ति चापरे । 042a
अग्नावग्निं समाधाय द्रोणं हुत्वा हुताशने ॥ 042c
गच्छन्त्यभिमुखा गङ्गां द्रोणशिष्या द्विजातयः । 043a
अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपीं तथा ॥ 043c

इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि त्रयोविंशोऽध्यायः ॥ 23 ॥

11-23-9 परिमग्निमिव द्विपमिति झ. पाठः ॥ 11-23-13 अहिना वृत्रासुरेण ॥ 11-23-15 भीष्मकृत् भयङ्करकर्मकृत् ॥ 11-23-21 शास्त्रम् आज्ञाम् ॥ 11-23-22 निर्णये पारावर्येण । परावरौ परलोकेहलोकौ तद्विषयेण ज्ञानेन । तत्त्वज्ञानबलेन प्राणानधारयदित्यर्थः । पारम्पर्येऽथ निर्णय इति छ. पाठः । पाराशर्यस्य निर्णये इति क. ट. पाठः ॥ 11-23-26 धर्मेषु कुरवः कं नु परिप्रक्ष्यन्ति माधव । गते देवव्रते स्वर्गं देवकल्पे नरर्षभे इति झ. पाठः ॥ 11-23-34 शिष्यशरार्चिताविति क. पाठः ॥ त्रयोविंशोऽध्यायः ॥