श्रीः अध्यायः 022 गान्धार्या कृष्णम् प्रति बाह्लिकादीनां तथा तत्स्त्रीणां च प्रदर्शनम् ॥ 1 ॥ गान्धार्युवाच 001
आवन्त्यं भीमसेनेन भक्षयन्ति निपातितम् । 001a
गृध्रगोमायवः शूरं दूरबन्धुमबन्धुवत् ॥ 001c
तं पश्य कदनं कृत्वा शूराणां मधुसूदन । 002a
शयानं वीरशयने रुधिरेण समुक्षितम् ॥ 002c
तं सृगालाश्च कङ्काश्च क्रव्यादाश्च पृथग्विधाः । 003a
तेनतेन विकर्षन्ति पश्य कालस्य पर्ययम् ॥ 003c
शयानं वीरशयने शूरमाक्रन्दकारिणम् । 004a
आवन्त्यमभितो नार्यो रुदत्यः पर्युपासते ॥ 004c
प्रातिपेयं महेष्वासं हतं भीमेन बाह्लिकम् । 005a
प्रसुप्तमिव शार्दूलं पश्य कृष्णमनस्विनम् ॥ 005c
अतीव मुखवर्णोऽस्य निहतस्यापि शोभते । 006a
सोमस्येवाभिपूर्णस्य पौर्णमास्यां समुद्यतः ॥ 006c
पुत्रशोकाभितप्तेन प्रतिज्ञां चाभिरक्षता । 007a
पाकशासनिना सङ्ख्ये वार्धक्षत्रिर्निपातितः ॥ 007c
एकादशचमूर्भित्त्वा रक्ष्यमाणं महात्मभिः । 008a
सत्यं चिकीर्षता पश्य हतमेनं जयद्रथम् ॥ 008c
सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम् । 009a
भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम् ॥ 009c
संरक्ष्यमाणं भार्याभिरनुरक्ताभिरच्युत । 010a
भीषयन्त्यो विकर्षन्ति गहनं निम्नमन्तिकात् ॥ 010c
तमेताः पर्युपासन्ते वीक्षमाणा महाभुजम् । 011a
सिन्धुसौवीरकाम्भोजगान्धारयवनस्त्रियः ॥ 011c
यदा कृष्णामुपादाय प्राद्रवत्केकयैः सह । 012a
तदैव वध्यः पाण्डूनां जनार्दन जयद्रथः ॥ 012c
दुःशलां मानयद्भिस्तु तदा मुक्तो जयद्रथः । 013a
कथमद्य न तां कृष्ण मानयन्ति स्म ते पुनः ॥ 013c
सैन्धवं मे सुता बाला प्रस्खलन्तीव दुःखिता । 014a
प्रमापयन्ती चात्मानमाक्रोशन्तीव पाण्डवान् ॥ 014c
किन्नु दुःखतरं कृष्ण परं मम भविष्यति । 015a
यत्सुता विधवा बाला स्नुषाश्च निहतेश्वराः ॥ 015c
हाहा धिग्दुःशलां पश्य वीतशोकभयामिव । 016a
भर्तुः शिर अपश्यन्तीं धावमानामितस्ततः ॥ 016c
वारयामास यः सर्वान्पाण्डवान्पुत्रगृद्धिनः । 017a
स हत्वा विपुलाः सेनाः स्वयं मृत्युवशं गतः ॥ 017c
तं मत्तमिव मातङ्गं वीरं परमदुर्जयम् । 018a
परिवार्य रुदन्त्येताः स्त्रियश्चन्द्रोपमाननाः ॥ 018c

इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि द्वाविंशोऽध्यायः ॥ 22 ॥

11-22-7 बार्धक्षत्रिर्जयद्रथः ॥ द्वाविंशोऽध्यायः ॥