श्रीः अध्यायः 021 कृष्णं प्रति गान्धार्या कर्णशरीरस्य विलपन्तीनां तत्स्त्रीणां च प्रदर्शनम् ॥ 1 ॥ गान्धार्युवाच 001
एष वैकर्तनः शेते महेष्वासो महारथः । 001a
ज्वलितानलवत्सङ्ख्ये संशान्तः पार्थतेजसा ॥ 001c
पश्य वैकर्तनं कर्णं निहत्यातिरथान्बहून् । 002a
शोणितौघपरीताङ्गं शयानं पतितं भुवि ॥ 002c
अमर्षी दीर्घरोषश्च महेष्वासो महारथः । 003a
रणे विनिहतः शेते शूरो गाण्डीवधन्वना ॥ 003c
यं स्म पाण्डवसन्त्रासान्मम पुत्रा महारथाः । 004a
प्रायुध्यन्त पुरस्कृत्य मातङ्गा इव यूथपम् ॥ 004c
शार्दूलमिव सिंहेन समरे सव्यसाचिना । 005a
मातङ्गमिव मत्तेन मातङ्गेन निपातितम् ॥ 005c
तमेताः पुरुषव्याघ्र निहतं शूरमाहवे । 006a
प्रकीर्णमूर्धजास्तस्य स्त्रियस्तं पर्युपासते ॥ 006c
उद्विग्नः सततं यस्माद्धर्मराजो युधिष्ठिरः । 007a
त्रयोदशसमा निद्रां चिन्तयन्नाध्यगच्छत ॥ 007c
अनाधृष्यः परैर्युद्धे शत्रुभिर्मघवानिव । 008a
युगान्ताग्निरिवार्चिष्मान्हिमवानिव सुस्थिरः ॥ 008c
स भूत्वा शरणं पूर्वं धार्तराष्ट्रस्य माधव । 009a
भूमौ विनिहतः शेते वातभग्न इव द्रुमः ॥ 009c
पश्य कर्णस्य पत्नीं त्वं वृषसेनस्य मातरम् । 010a
लालप्यमानां करुणं रुदतीं पतितां भुवि ॥ 010c
आचार्यशापोऽनुगतो ध्रुवं त्वां यदग्रसच्चक्रमियं धरित्री । 011a
ततः शरेणापहृतं शिरस्ते धनञ्जयेनाहवचक्रमध्ये ॥ 011c
हाहा धिगेषा पतिता विसञ्ज्ञा समीक्ष्य जाम्बूनदबद्धकक्षम् । 012a
कर्णं महाबाहुमदीनसत्वं सुषेणमाता रुदती भृशार्ता ॥ 012c
अल्पावशेषोऽहि कृतो महात्मा शरीरभक्षैः परिभक्षयद्भिः । 013a
दृष्टुं न सम्प्रीतिकरः शशीव कृष्णस्य पक्षस्य चतुर्दशाहे ॥ 013c
सा वर्तमाना पतिता पृथिव्यामुत्थाय दीना पुनरेव चैषा । 014a
कर्णस्य वक्त्रं परिजिघ्रमाणा रोरूयते पुत्रवधाभितप्ता ॥ 014c

इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि एकविंशोऽध्यायः ॥ 21 ॥

11-21-13 कलावशेषो हि इति क. पाठः ॥ 11-21-14 रोरूयते दुःखचयाभितप्ता इति क. ट. पाठः ॥ एकविंशतितमोऽध्यायः ॥