श्रीः
अध्यायः 019
कृष्णम् प्रति गान्धारीवचनम् ॥ 1 ॥
गान्धार्युवाच 001
एष माधव पुत्रो मे विकर्णः पाज्ञसम्मतः । 001a
भूमौ विनिहतः शेते भीमेन शतधा कृतः ॥ 001c
गजमध्ये हतः शेते विकर्णो मधुसूदन । 002a
नीलमेघपरिक्षिप्तः शरदीव निशाकरः ॥ 002c
अस्य चापग्रहेणैव पाणिः कृतकिणो महान् । 003a
कथञ्चिच्छिद्यते गृध्रैरत्तुकामैस्तलत्रवान् ॥ 003c
अस्य भार्याऽऽमिषप्रेप्सून्गृध्रकाकांस्तपस्विनी । 004a
वारयत्यनिशं बाला न च शक्नोति माधव ॥ 004c
युवा वृन्दारकसमो विकर्णः पुरुषर्षभ । 005a
सुखोषितः सुखार्हश्च शेते पांसुषु माधव ॥ 005c
कर्णिनालीकनाराचैर्भिन्नमर्माणमाहवे । 006a
अद्यापि न जहात्येनं लक्ष्मीर्भरतसत्तमम् ॥ 006c
एष सङ्ग्रामशूरेण प्रतिज्ञां पालयिष्यता । 007a
दुर्मुखोऽभिमुखः शेते हतोऽरिगणहा रणे ॥ 007c
तस्यैतद्वदनं कृष्ण श्वापदैरर्धभक्षितम् । 008a
विभात्यभ्यधिकं तात सप्तम्यामिव चन्द्रमाः ॥ 008c
शूरस्य हि रणे कृष्ण पश्याननमथेदृशम् । 009a
स कथं निहतोऽमित्रैः पांसून्ग्रसति मे सुतः ॥ 009c
यस्याहवमुखे सौम्य स्थाता नैवोपपद्यते । 010a
स कथं दुर्मुखोऽमित्रैर्हतो विबुधलोकजित् ॥ 010c
चित्रसेनं हतं भूमौ शयानं मधुसूदन । 011a
धार्तराष्ट्रमिमं पश्य प्रतिमानं धनुष्मताम् ॥ 011c
तं चित्रमाल्याभरणं युवत्यः शोककर्शिताः । 012a
क्रव्यादसङ्घैः सहिता रुदन्त्यः पर्युपासते ॥ 012c
स्त्रीणां रुदितनिर्घोषः श्वापदानां च गर्जितम् । 013a
चित्ररूपमिदं कृष्ण विमृश्य प्रतिभाति मे ॥ 013c
युवा वृन्दारको नित्यं प्रवरस्त्रीनिषेवितः । 014a
विविंशतिरसौ शेते ध्वस्तः पांसुषु माधव ॥ 014c
शरसङ्कृत्तवर्माणं वीरं विशसने हतम् । 015a
परिवार्यासते गृध्राः परिविंशं विविंशतिम् ॥ 015c
प्रविश्य समरे शूरः पाण्डवानामनीकिनीम् । 016a
स वीरशयने शेते परः सत्पुरुषोचिते ॥ 016c
स्मितोपपन्नं सुनसं सुभ्रु ताराधिपोपमम् । 017a
अतीव सौम्यवदनं कृष्ण पश्य विविंशतेः ॥ 017c
यं स्म तं पर्युपासन्ते बहुधा वरयोषितः । 018a
क्रीडन्तमिव गन्धर्वं देवकन्याः सहस्रशः ॥ 018c
हन्तारं परसैन्यानां शूरं समितिशोभनम् । 019a
निबर्हणममित्राणां दुःसहं विषहेत कः ॥ 019c
दुःसहस्यैतदाभाति शरीरं संवृतं शरैः । 020a
गिरिरात्मरुहैः फुल्लैः कर्णिकारैरिवाचितः ॥ 020c
शातकौम्भ्या स्रजा भाति कवचेन च भास्वता । 021a
अग्निनेव गिरिः श्वेतो गतासुरपि दुःसहः ॥ 021c
इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि एकोनविंशोऽध्यायः ॥ 19 ॥