श्रीः
अध्यायः 018
कृष्णम् प्रति गान्धारीवचनम् ॥ 1 ॥
गान्धार्युवाच 001
पश्य माधव पुत्रान्मे शतसङ्ख्याञ्जितक्लमान् । 001a
गदया भीमसेनेन भूयिष्ठं निहतान्रणे ॥ 001c
इदं दुःखतरं मेऽद्य यदिमा मुक्तमूर्धजाः । 002a
हतपुत्रा रणे बालाः परिधावन्ति मे स्नुषाः ॥ 002c
प्रासादतलचारिण्यश्चरणैर्भूषणान्वितैः । 003a
कायेनाद्य स्पृशन्तीमां रुधिरार्द्रां वसुन्धराम् ॥ 003c
कृच्छ्रादुत्सारयन्ति स्म गृध्रगोमायुवायसान् । 004a
दुःखेनार्ता विघूर्णन्त्यो मत्ता इव चरन्त्युत ॥ 004c
एषाऽन्या त्वनवद्याङ्गी करसम्मितमध्यमा । 005a
घोरमायोधनं दृष्ट्वा निपतत्यतिदुःखिता ॥ 005c
दृष्ट्वा मे पार्थिवसुतामेतां लक्ष्मणमातरम् । 006a
राजपुत्रीं महाबाहो मनो न ह्युपशाम्यति ॥ 006c
भ्रातॄंश्चान्याः पितॄंश्चान्याः पुत्रांश्च निहतान्भुवि । 007a
दृष्ट्वा परिपतन्त्येषाः प्रगृह्य सुमहाभुजान् ॥ 007c
मध्यमानां तु नारीणां वृद्धानां चापराजित । 008a
आक्रन्दं हतबन्धूनां दारुणे वैशसे शृणु ॥ 008c
रथनीडानि देहांश्च हतानां गजवाजिनाम् । 009a
आश्रित्य श्रममोहार्ताः स्थिताः पश्य महाभुज ॥ 009c
अन्या चापहृतं कायाच्चारुकुण्डलमुन्नसम् । 010a
स्वस्य बन्धोः शिरः कृष्ण गृहीत्वा पश्य तिष्ठति ॥ 010c
पूर्वजातिकृतं पापं मन्ये नाल्पमिवानघ । 011a
एताभिर्निरवद्याभिर्मया चैवाल्पपुण्यया । 011c
यदिदं धर्मराजेन घातितं नो जनार्दन ॥ 011e
न हि नाशोऽस्ति वार्ष्णेय कर्मणोः शुभपापयोः ॥ 012ac
प्रत्यग्रवयसः पश्य दर्शनीयकुचाननाः । 013a
कुलेषु जाता ह्रीमत्यः कृष्णपक्ष्माक्षिमूर्धजाः ॥ 013c
हंसगद्गदभाषिण्यो दुःखशोकप्रमोहिताः । 014a
सारस्य इव वाशन्त्यः पतिताः पश्य माधव ॥ 014c
फुल्लपद्मप्रकाशानि पुण्डरीकाक्ष योषिताम् । 015a
अनवद्यानि वक्त्राणि तापयत्येष रश्मिवान् ॥ 015c
सेर्ष्याणां मम पुत्राणां वासुदेवावरोधनम् । 016a
मत्तमातङ्गदर्पाणां पश्यन्त्यद्य पृथग्जनाः ॥ 016c
शतचन्द्राणि चर्माणि ध्वजांश्चादित्यवर्चसः । 017a
रौक्माणि चैव वर्माणि निष्कानपि च काञ्चनान् ॥ 017c
शिरस्त्राणानि चैतानि पुत्राणां मे महीतले । 018a
पश्य दीप्तानि गोविन्द पावकान्सुहुतानिव ॥ 018c
एष दुःशासनः शेते शूरेणामित्रघातिना । 019a
पीतशोणितसर्वाङ्गो युधि भीमेन पातितः ॥ 019c
गदया भीमसेनेन पश्य माधव मे सुतम् । 020a
द्यूतक्लेशाननुस्मृत्य द्रौपदीचोदितेन च ॥ 020c
उक्ता ह्यनेन पाञ्चाली सभायां द्यूतनिर्जिता । 021a
प्रियं चिकीर्षता भ्रातुः कर्णस्य च जनार्दन ॥ 021c
सहैव सहदेवेन नकुलेनार्जुनेन च । 022a
दासीभूताऽसि पाञ्चालि क्षिप्रं प्रविश नो गृहान् ॥ 022c
ततोऽहमब्रुवं कृष्ण तदा दुर्योधनं नृपम् । 023a
मृत्युपाशपरिक्षिप्तां द्रौपदीं पुत्र वर्जय ॥ 023c
निबोधैनं सुदुर्बुद्धिं मातुलं कलहप्रियम् । 024a
क्षिप्रमेनं परित्यज्य पुत्र संशाम्य पाण्डवैः ॥ 024c
न बुद्ध्यसे त्वं दुर्बुद्धे भीमसेनममर्षणम् । 025a
वाङ्नाराचैस्तुदंस्तीक्ष्णैरुल्काभिरिव कुञ्जरम् ॥ 025c
तानेवं रहसि क्रुद्धो वाक्शल्यानवधारयन् । 026a
उत्ससर्ज विषं तेषु सर्पो गोवृषभेष्विव ॥ 026c
एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ । 027a
निहतो भीमसेनेन सिंहेनेव महागजः ॥ 027c
अत्यर्थमकरोद्रौद्रं भीमसेनोऽत्यमर्षणः । 028a
दुःशासनस्य यत्क्रुद्धोऽपिबच्छोणितमाहवे ॥ 028c
इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि अष्टादशोऽध्यायः ॥ 18 ॥
11-18-5 करसम्मितमध्यमा मुष्टिप्रमितमध्या ॥ 11-18-23 क्षिप्तं शकुनिं पुत्र वजेयेति झ. पाठः ॥ अष्टादशोऽध्यायः ॥