श्रीः अध्यायः 017 गान्धार्या दुर्योधनमालिङ्ग्य परिदेवनम् ॥ 1 ॥ वैशम्पायन उवाच 001
दुर्योधनं हतं दृष्ट्वा गान्धारी शोककर्शिता । 001a
सहसा न्यपतद्भूमौ छिन्नेव कदली वने ॥ 001c
सा तु लब्ध्वा पुनः सञ्ज्ञां विक्रुश्य च विलप्य च । 002a
दुर्योधनमभिप्रेक्ष्य शयानं रुधिरोक्षितम् ॥ 002c
परिष्वज्याथ गान्धारी कृपणं पर्यदेवयत् । 003a
हाहापुत्रेति शोकार्ता विललापाकुलेन्द्रिया ॥ 003c
सुगूढजत्रु विपुलं हारनिष्कविभूषितम् । 004a
वारिणा नेत्रजेनोरः सिञ्चन्ती शोकतापिता ॥ 004c
समीपस्थं हृषीकेशमिदं वचनमब्रवीत् । 005a
उपस्थितेऽस्मिन्सङ्ग्रामे ज्ञातीनां सङ्क्षये विभो ॥ 005c
मामयं प्राह वार्ष्णेय प्राञ्जलिर्नृपसत्तमः । 006a
अस्मिञ्ज्ञातिसमुद्धर्षे जयमम्बा ब्रवीतु मे ॥ 006c
इत्युक्ते जानती सर्वमहं स्वव्यसनागमम् । 007a
अब्रुवं पुरुषव्याघ्र यतो धर्मस्ततो जयः ॥ 007c
तथा तु युध्यमानस्त्वं सम्प्रगृह्य सुपुत्रक । 008a
ध्रुवं शस्त्रजिताल्ँलोकान्प्राप्स्यस्यमरवत्प्रभो ॥ 008c
इत्येवमब्रुवं पूर्वं नैनं शोचामि वै प्रभो । 009a
धृतराष्ट्रं तु शोचामि कृपणं हतबान्धवम् ॥ 009c
अमर्षणं युधां श्रेष्ठं कृतास्त्रं युद्धदुर्मदम् । 010a
शयानं वीरशयने पश्य माधव मे सुतम् ॥ 010c
योऽयं मूर्धावसिक्तानामग्रे याति परन्तपः । 011a
सोऽयं पांसुषु शेतेऽद्य पञ्च कालस्य पर्ययम् ॥ 011c
ध्रुवं दुर्योधनो वीरो गतिं न सुलभां गतः । 012a
तथा ह्यभिमुखः शेते शयने वीरसेविते ॥ 012c
यं पुरा पर्युपासीना रमयन्ति वरस्त्रियः । 013a
तं वीरशयने सुप्तं रमयन्त्यशिवाः शिवाः ॥ 013c
यं पुरा पर्युपासीना रमयन्ति महीक्षितः । 014a
महीतलस्थं निहतं गृध्रास्तं पर्युपासते ॥ 014c
यं पुरा व्यजनैरम्यैरुपवीजन्ति योषितः । 015a
तमद्य पक्षव्यजनैरुपवीजन्ति पक्षिणः ॥ 015c
एष शेते महाबाहुर्बलवान्सत्यविक्रमः । 016a
सिंहेनेव द्विपः सङ्ख्ये भीमसेनेन पातितः ॥ 016c
पश्य दुर्योधनं कृष्ण शयानं रुधिरोक्षितम् । 017a
निहतं भीमसेनेन गदां सम्मृज्य भारत ॥ 017c
अक्षौहिणीर्महाबाहुर्दश चैकां च केशव । 018a
आनयद्यः पुरा सङ्ख्ये सोऽनयान्निधनं गतः ॥ 018c
एष दुर्योधनः शेते महेष्वासो महाबलः । 019a
शार्दूल इव सिंहेन भीमसेनेन पातितः ॥ 019c
विदुरं ह्यवमत्यैष पितरं चैव मन्दभाक् । 020a
बालो वृद्धावमानेन मन्दो मृत्युवशं गतः ॥ 020c
निःसपत्ना मही यस्य त्रयोदशसमाः स्थिता । 021a
स शेते निहतो भूमौ पुत्रो मे पृथिवीपतिः ॥ 021c
अपश्यं कृष्ण पृथिवीं धार्तराष्ट्रानुशासिताम् । 022a
पूर्णां हस्तिगवाश्वैश्च वार्ष्णेय न तु तच्चिरम् ॥ 022c
तामेवाद्य महाबाहो पश्याम्यन्यानुशासिताम् । 023a
हीनां हस्तिगवाश्वेन किन्नु जीवामि माधव ॥ 023c
इदं कष्टतरं पश्य पुत्रस्यापि वधान्मम । 024a
या इमाः पर्युपासन्ते हताञ्शूरान्रणे स्त्रियः ॥ 024c
प्रकीर्णकेशां सुश्रोणीं दुर्योधनभुजाङ्कगाम् । 025a
रुक्मवेदिनिभां पश्य कृष्ण लक्ष्मणमातरम् ॥ 025c
नूनमेषा पुरा बाला जीवमाने महाभुजे । 026a
भुजावाश्रित्य रमते सुभुजस्य मनस्विनी ॥ 026c
कथं तु शतधा नेदं हृदयं मम दीर्यते । 027a
पश्यन्त्या निहतं पुत्रं पौत्रेण सहितं रणे ॥ 027c
पुत्रं रुधिरसंसिक्तमुपजिघ्रत्यनिन्दिता । 028a
दुर्योधनं तु वामोरूः पाणिना परिमार्जती ॥ 028c
किन्नु शोचति भर्तारं हतपुत्रं मनस्विनी । 029a
तथा ह्यवस्थिता भाति पुत्रं चाप्यभिवीक्ष्य सा ॥ 029c
स्वशिरः पञ्चशाखाभ्यामभिहत्यायतेक्षणा । 030a
पतत्युरसि वीरस्य कुरुराजस्य माधव ॥ 030c
पुण्डरीकनिभा भाति पुण्डरीकान्तरप्रभा । 031a
मुखं प्रमृज्य पुत्रस्य भर्तुश्चैव तपस्विनी ॥ 031c
यदि सत्यागमाः सन्ति यदि वै श्रुतयस्तथा । 032a
ध्रुवं लोकानवाप्तोऽयं नृपो बाहुबलार्जितान् ॥ 032c

इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि सप्तदशोऽध्यायः ॥ 17 ॥

11-17-27 पुत्रेण सहितं रणे इति झ. पाठः ॥ 11-17-30 पञ्चशाखाभ्यां पञ्चाङ्गुलिभ्यां पाणिभ्याम् ॥ सप्तदशोऽध्यायः ॥