श्रीः
अध्यायः 016
गान्धार्या व्यासप्रसादलब्धदिव्यचक्षुषा रणाङ्कणदर्शनम् ॥ 1 ॥ धृतराष्ट्रयुधिष्ठिरादीनां स्त्रीभिः सह रणभूमिप्रवेशः ॥ 2 ॥ स्त्रीणां विलापः ॥ 3 ॥ गान्धार्या कृष्णाय विलपत्स्नुषादिप्रदर्शनम् ॥ 4 ॥
वैशम्पायन उवाच 001
एवमुक्त्वा तु गान्धारी कुरूणामवकर्तनम् । 001a
अपश्यत्तत्र तिष्ठन्ती सर्वं तत्र यथास्थितम् ॥ 001c
पतिव्रता महाभागा समानव्रतचारिणी । 002a
उग्रेण तपसा युक्ता सततं सत्यवादिनी ॥ 002c
वरदानेन कृष्णस्य महर्षेः पुण्यकर्मणः । 003a
दिव्यज्ञानबलोपेता विविधं पर्यदेवयत् ॥ 003c
ददर्श सा बुद्धिमती दूरादपि यथाऽन्तिके । 004a
रणाजिरं तद्वीराणामद्भुतं रोमहर्षणम् ॥ 004c
अस्थिकेशवसाकीर्णं शोणितौघपरिप्लुतम् । 005a
शरीरैर्बहुसाहस्रैर्विनिकीर्णं समन्ततः ॥ 005c
गजाश्वरथयोधानामावृतं रुधिराविलैः । 006a
शरीरैरशिरस्कैश्च विदेहैश्च शिरोगणैः ॥ 006c
गजाश्वनरवीराणां निःसत्वैरभिसंवृतम् । 007a
सृगालवलगोमायुकङ्ककाकनिषेवितम् ॥ 007c
रक्षसां पुरुषादानां मोदनं कुरराकुलम् । 008a
अशिवाभिः शिवाभिश्च नादितं गृध्रसेवितम् ॥ 008c
ततो व्यासाभ्यनुज्ञातो धृतराष्ट्रो महीपतिः । 009a
पाण्डुपुत्राश्च ते सर्वे युधिष्ठिरपुरोगमाः ॥ 009c
वासुदेवं पुरस्कृत्य हतबन्धुं च पार्थिवम् । 010a
कुरुस्त्रियः समादाय जग्मुरायोधनं प्रति ॥ 010c
समासाद्य कुरुक्षेत्रं ताः स्त्रियो निहतेश्वराः । 011a
अपश्यन्त हतांस्तत्र पुत्रान्भ्रातॄन्पितॄन्पतीन् ॥ 011c
क्रव्यादैर्भक्ष्यमाणांश्च गोमायुवलवायसैः । 012a
भूतैः पिशाचै रक्षोभिर्विविधैश्च निशाचरैः ॥ 012c
रुद्राक्रीडनिभं दृष्ट्वा तदा विशसनं स्त्रियः । 013a
कुरर्य इव शोकार्ता विक्रोशन्त्यो निपेतिरे ॥ 013c
अदृष्टपूर्वं पशन्त्यो दुःखार्ता भरतस्त्रियः । 014a
शरीरेषु स्खलन्त्यश्च न्यपतंश्च परासुवत् ॥ 014c
श्रान्तानां चाप्यनाथानां क्रन्दन्तीनां भृशं तदा । 015a
पाञ्चालकुरुयोषाणां कृपणं तदभून्महत् ॥ 015c
दुःखोपहतचित्ताभिः समन्तादनुनादितम् । 016a
दृष्ट्वाऽऽयोधनमत्युग्रं धर्मज्ञा सुबलात्मजा ॥ 016c
ततः सा पुण्डरीकाक्षमामन्त्र्य पुरुषोत्तमम् । 017a
कुरूणां वैशसं दृष्ट्वा इदं वचनमब्रवीत् ॥ 017c
पश्यैताः पुण्डरीकाक्ष स्नुषा मे निहतेश्वराः । 018a
प्रकीर्णकेशाः क्रोशन्तीः कुररीरिव माधव ॥ 018c
अमूस्त्वभिसमागम्य स्मरन्त्यो भरतर्षभान् । 019a
पृथगेवानुपद्यन्ते पुत्रान्भ्रातॄन्पितॄन्पतीन् ॥ 019c
वीरसूभिर्महाबाहो हतपुत्राभिरावृतम् । 020a
क्वचिच्च वीरपत्नीभिर्हतवीराभिरावृतम् ॥ 020c
शोभितं पुरुषव्याघ्रैः कर्णभीष्माभिमन्युभिः । 021a
द्रोणद्रुपदशल्यैश्च ज्वलद्भिरिव पावकैः ॥ 021c
काञ्चनैः कवचैर्निष्कैर्मणिभिश्च महाधनैः । 022a
अद्भुतैर्हस्तकेयूरैः स्रग्भिश्च समलङ्कृतम् ॥ 022c
वीरबाहुविसृष्टाभिः शक्तिभिः परिघैरपि । 023a
खड्गैश्च विविधैस्तीक्ष्णैः सशरैश्च शरासनैः ॥ 023c
क्रव्यादसङ्घैर्मुदितैस्तिष्ठद्भिः सहितैः क्वचित् । 024a
क्वचिदाक्रीडमानैश्च शयानैश्चापरैः क्वचित् ॥ 024c
एतदेवंविधं वीर सम्पश्यायोधनं विभो । 025a
'त्वया तु श्रावितं कर्म पुष्कराक्ष महाद्युते ।' 025c
पश्यमाना हि दह्यामि शोकेनाहं जनार्दन ॥ 025e
पाञ्चालानां कुरूणां च विनाशं मधुसूदन । 026a
पञ्चानामपि भूतानामहं वधमचिन्तयम् ॥ 026c
तान्सुपर्णाश्च गृध्राश्च कर्षयन्त्यसृगुक्षितान् । 027a
विगृह्य चरणैर्गृध्रा भक्षयन्ति सहस्रशः ॥ 027c
जयद्रथस्य कर्णस्य तथैव द्रोणभीष्मयोः । 028a
अभिमन्योर्विनाशं च कश्चिन्तयितुमर्हति ॥ 028c
अवध्यकल्पान्निहतान्गतसत्वानचेतसः । 029a
गृध्रकङ्कवलश्येनश्वसृगालसमावृतान् ॥ 029c
अमर्षवशमापन्नान्दुर्योधनवशे स्थितान् । 030a
पश्येमान्पुरुषव्याघ्रान्संशान्तान्पावकानिव ॥ 030c
शयनान्युचिताः सर्वे मृदूनि विमलानि च । 031a
विपन्नास्तेऽद्य वसुधां विवृतामधिशेरते ॥ 031c
बन्दिभिः सततं काले स्तुवद्भिरभिनन्दिताः । 032a
शिवानामशिवा घोराः शृण्वन्ति विविधा गिरः ॥ 032c
ये पुरा शेरते वीराः शयनेषु यशस्विनः । 033a
चन्दनागुरुदिग्धाङ्गास्तेऽद्य पांसुषु शेरते ॥ 033c
तेषामाभरणान्येते गृध्रगोमायुवायसाः । 034a
आक्षिपन्ति शिवा घोरा विनदन्त्यः पुनः पुनः ॥ 034c
बाणान्विनिशितान्पीतान्निस्त्रिंशान्विमला गदाः । 035a
युद्धाभिमानिनः सर्वे जीवन्त इव बिभ्रति ॥ 035c
सुरूपवर्णा बहवः क्रव्यादैरवघट्टिताः । 036a
ऋषभप्रतिरूपाक्षाः शेरते च सहस्रशः ॥ 036c
अपरे पुनरालिङ्ग्य गदाः परिघबाहवः । 037a
शेरतेऽभिमुखाः शूरा दयिता इव योषितः ॥ 037c
बिभ्रतः कवचान्यन्ये विमलान्यायुधानि च । 038a
न धर्षयन्ति क्रव्यादा जीवन्तीति जनार्दन ॥ 038c
क्रव्यादैः कृष्यमाणानामपरेषां महात्मनाम् । 039a
शातकौम्भ्यः स्रजश्चित्रा विप्रकीर्णाः समन्ततः ॥ 039c
एते गोमायवो भीमा निहतानां यशस्विनाम् । 040a
कण्ठान्तरगतान्हारानाक्षिपन्ति सहस्रशः ॥ 040c
सर्वेष्वपररात्रेषु यानवन्दन्त वन्दिनः । 041a
स्तुतिभिश्च परार्ध्याभिरुपचारैश्च शिक्षिताः ॥ 041c
तानद्य परिदेवन्ति दुःखार्ताः परमाङ्गनाः । 042a
कृपणा वृष्णिशार्दूल दुःखशोकार्दिता भृशम् ॥ 042c
रक्तोत्पलवनानीव विभान्ति रुचिराणि च । 043a
मुखानि परमस्त्रीणां परिशुष्काणि केशव ॥ 043c
रुदित्वा विरता ह्येता ध्यायन्त्यः सपरिक्लमाः । 044a
कुरुस्त्रियोऽभिगच्छन्ति तेन तेनैव दुःखिताः ॥ 044c
एतान्यादित्यवर्णानि तपनीयनिभानि च । 045a
पश्य रोदनताम्राणि वक्त्राणि कुरुयोषिताम् ॥ 045c
श्यामानां वरवर्णानां गौरीणामेकवाससाम् । 046a
दुर्योधनवरस्त्रीणां पश्य वृन्दानि केशव ॥ 046c
आसामपरिपूर्णार्थं निशम्य परिदेवितम् । 047a
इतरेरसङ्क्रन्दान्न विजानन्ति योषितः ॥ 047c
एता दीर्घमिवोच्छ्वस्य विक्रुश्य च विलप्य च । 048a
विस्पन्दमाना दुःखेन वीरा जहति जीवितम् ॥ 048c
बह्व्यो दृष्ट्वा शरीराणि क्रोशन्ति विलपन्ति च । 049a
पाणिभिश्चापरा घ्नन्ति शिरांसि मृदुपाणयः ॥ 049c
शिरोभिः पतितैर्हस्तैः सर्वाङ्गैः खण्डशः कृतैः । 050a
इतरेतरसम्पृक्तैराकीर्णा भाति मेदिनी ॥ 050c
विशिरस्कानथो कायान्दृष्ट्वा ह्येताननिन्दितान् । 051a
मुह्यन्त्यनुचिता नार्यो विदेहानि शिरांसि च ॥ 051c
शिरः कायेन सन्धाय प्रेक्षमाणा विचेतसः । 052a
अपश्यन्त्योऽपरं तत्र नेदमस्येऽति दुःखिताः ॥ 052c
बाहूरुचरणानन्यान्विशिखोन्मथितान्पृथक् । 053a
सन्दधत्योऽसुखाविष्टा मूर्छन्त्येताः पुनःपुनः ॥ 053c
उत्कृत्तशिरसश्चान्यान्विजग्धान्मृगपक्षिभिः । 054a
दृष्ट्वा काश्चिन्न जानन्ति भर्तॄन्भरतयोषितः ॥ 054c
पाणिभिश्चापरा घ्नन्ति शिरांसि मधुसूदन । 055a
प्रेक्ष्य भ्रातॄन्पितॄन्पुत्रान्पतींश्च निहतान्परैः ॥ 055c
बाहुभिश्च सखड्गैश्च शिरोभिश्च सकुण्डलैः । 056a
अगम्यकल्पा पृथिवी मांसशोणितकर्दमा । 056c
बभूव भरतश्रेष्ठ प्राणिभिर्गतजीवितैः ॥ 056e
न दुःखेषूचिताः पूर्वं दुःखं गाहन्त्यनिन्दिताः । 057a
भ्रातृभिः पतिभिः पुत्रैरुपाकीर्णां वसुन्धराम् ॥ 057c
यूथानीव किशोरीणां सुकेशीनां जनार्दन । 058a
स्नुषाणां धृतराष्ट्रस्य पश्य वृन्दान्यनेकशः ॥ 058c
इतो दुःखतरं किन्नु केशव प्रतिभाति मे । 059a
यदिमाः कुर्वते सर्वा रवमुच्चावचं स्त्रियः ॥ 059c
नूनमाचरितं पापं मया पूर्वेषु जन्मसु । 060a
या पश्यामि हतान्पुत्रान्पौत्रान्भ्रातॄंश्च माधव ॥ 060c
एवमार्ता विलपती समाभाष्य जनार्दनम् । 061a
गान्धारी पुत्रशोकार्ता ददर्श निहतं सुतम् ॥ 061c
इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि षोडशोऽध्यायः ॥ 16 ॥
11-16-1 अवकर्तनं युद्धस्थानम् । सर्वं दिव्येन चक्षुषेति झ. पाठः ॥ 11-16-26 पञ्चानां भूतानां पृथिव्यादीनाम् । कुरुपाञ्चालवधात्कृत्स्नं पाञ्चभौतिकं जगन्नष्टमिति भावः ॥ 11-16-31 शयनानि आस्तीर्येति शेषः ॥ 11-16-48 एताः शोचन्तीरभिलक्ष्येति शेषः ॥ 11-16-54 विजग्धान्भक्षितान् ॥ षोडशोऽध्यायः ॥