श्रीः अध्यायः 015 युधिष्ठिरादिभिर्गान्धारीकुन्त्योरभिवादनम् ॥ 1 ॥ सकुन्त्या गान्धार्या द्रौपदीसमाश्वासनम् ॥ 2 ॥ वैशम्पायन उवाच 001
तमेवमुक्त्वा गान्धारी युधिष्ठिरमपृच्छत । 001a
क्व स राजेति सक्रोधा पुत्रपौत्रवधार्दिता ॥ 001c
तामभ्यगच्छत्कौन्तेयो वेपमानः कृताञ्जलिः । 002a
युधिष्ठिरस्तु गान्धारीं मधुरं वाक्यमब्रवीत् ॥ 002c
पुत्रहन्ता नृशंसोऽहं तव देवि युधिष्ठिरः । 003a
शापार्हः पृथिवीनाशे हेतुभूतः शपस्व माम् ॥ 003c
नहि मे जीवितेनार्थो न राज्येन सुखेन वा । 004a
तादृशान्सुहृदो हत्वा प्रमूढस्य सुहृद्द्रुहः ॥ 004c
तमेवंवादिनं भीतं सन्निकर्षागतं तदा । 005a
नोवाच किञ्चिद्गान्धारी निःश्वासपरमा नृप ॥ 005c
तस्यावनतदेहस्य पादयोर्निपतिष्यतः । 006a
युधिष्ठिरस्य नृपतेर्धर्मज्ञा दीर्घदर्शिनी ॥ 006c
अङ्गुल्यग्राणि ददृशे देवी पट्टान्तरेण सा । 007a
ततः स कुनखीभूतो दर्शनीयनखो नृपः ॥ 007c
तं दृष्ट्वा चार्जुनोऽगच्छद्वासुदेवस्य पृष्ठतः ॥ 008ac
एवं सञ्चेष्टमानांस्तानितश्चेतश्च भारत । 009a
गान्धारी विगतक्रोधा सान्त्वयामास मातृवत् ॥ 009c
ते पाण्डवा अनुज्ञाता मातरं वीतमत्सराः । 010a
अभ्यगच्छन्त सहिताः पृथां पृथुवलक्षसः ॥ 010c
चिरस्य दृष्ट्वा पुत्रान्सा पुत्राधिभिरभिप्लुता । 011a
बाष्पमाहारयद्देवी वस्त्रेणावृत्य वै मुखम् ॥ 011c
ततो बाष्पं समुत्सृज्य सह पुत्रैस्तदा पृथा । 012a
अपश्यदेनाञ्शस्त्रौघैर्बहुधा परिविक्षतान् ॥ 012c
सा तानेकैकशः पुत्रान्संस्पृशन्ती पुनःपुनः । 013a
अन्वशोचत दुःखार्ता द्रौपदीं निहतात्मजाम् । 013c
रुदन्तीमथ पाञ्चालीं ददर्श पतितां भुवि ॥ 013e
द्रौपद्युवाच 014
आर्ये पौत्रास्तु ते सर्वे सौभद्रसहिता गताः । 014a
न त्वां तेऽद्याभिगच्छन्ति चिरं दृष्ट्वा अनिन्दिते । 014c
किन्नु राज्येन मे कार्यं विहीनायाः सुतैर्वरैः ॥ 014e
तां समाश्वासयामास पृथा पृथुललोचना । 015a
उत्थाप्याङ्केन सुदतीं रुदतीं शोककर्शिताम् ॥ 015c
तयैव सहिता चापि पुत्रैरनुगता पृथा । 016a
अभ्यगच्छत गान्धारीमार्तामार्ततरा स्वयम् ॥ 016c
वैशम्पायन उवाच 017
तामुवाचाथ गान्धारी सह कुन्त्या यशस्विनीम् । 017a
मैवं पुत्रीति शोकार्ता पश्य मामपि दुःखिताम् ॥ 017c
मन्ये लोकविनाशोऽयं कालपर्यायनोदितः । 018a
अवश्यभावी सम्प्राप्तः स्वभावाद्रोमहर्षणः ॥ 018c
इदं तत्समनुप्राप्तं विदुरस्य वचो महत् । 019a
असिद्धानुनये कृष्णे यदुवाच महामतिः ॥ 019c
तस्मिन्नपरिहार्येऽर्थे व्यतीते च विशेषतः । 020a
मा शुचो न हि शोच्यास्ते सङ्ग्रामे निधनं गताः ॥ 020c
यथैवाहं तथैव त्वं को वामाश्वासयिष्यति । 021a
ममैव ह्यपराधेन कुलमग्र्यं विनाशितम् ॥ 021c

इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि पञ्चदशोऽध्यायः ॥ 15 ॥

11-15-7 कुनखीभूतो हस्तदेश इति शेषः ॥ 11-15-14 आर्ये पौत्रा हृताः सर्वे इति क. छ. पाठः ॥ 11-15-21 वाम् आवाम् ॥ समाप्तं जलप्रदानिकं पर्व ||पञ्चदशोऽध्यायः ॥