श्रीः अध्यायः 014 भीमगान्धारीसंवादः ॥ 1 ॥ वैशम्पायन उवाच 001
तच्छ्रुत्वा वचनं तस्या भीमसेनोऽथ भीतवत् । 001a
गान्धारीं प्रत्युवाचेदं वचः सानुनयं तदा ॥ 001c
अधर्मो यदि वा धर्मस्त्रासात्तत्र मया कृतः । 002a
आत्मानं त्रातुकामेन तन्मे त्वं क्षन्तुमर्हसि ॥ 002c
न हि युद्धेन पुत्रस्ते धर्मेण स महाबलः । 003a
दुःशक्यः केनचिद्धर्तुमतो विषममाचरम् ॥ 003c
अधर्मेण जितः पूर्वं तेन चापि युधिष्ठिरः । 004a
निकृताश्च सदैव स्म तो विषममाचरम् ॥ 004c
सैन्यस्यैकोऽवशिष्टोऽयं गदायुद्धे च वीर्यवान् । 005a
न त्यक्ष्यति हृतं राज्यमिति वै तत्कृतं मया ॥ 005c
एकपत्नीं च पाञ्चालीमेकवस्त्रां रजस्वलाम् । 006a
भवत्या विदितं सर्वमुक्तवान्यत्सुतस्तव ॥ 006c
सुयोधनं त्वसंहृत्य न शक्या भूः ससागरा । 007a
केवला भोक्तुमस्माभिरतश्चैतत्कृतं मया ॥ 007c
तच्चाप्यप्रियमस्माकं पुत्रस्ते समुपाचरत् । 008a
द्रौपद्या यत्सभामध्ये सव्यमूरुमदर्शयत् ॥ 008c
तत्रैव वध्यः सोऽस्माकं दुराचारोऽम्ब ते सुतः । 009a
धर्मराजाज्ञया चैव स्थिताः स्म समये पुरा ॥ 009c
वैरमुद्दीपितं राज्ञि पुत्रेण तव यन्महत् । 010a
क्लेशिताश्च वने नित्यं तत एतत्कृतं मया ॥ 010c
वैरस्यास्य गताः पारं हत्वा दुर्योधनं रणे । 011a
राज्यं युधिष्ठिरे प्राप्ते वयं च गतमन्यवः ॥ 011c
गान्धार्युवाच 012
न तस्यैवं वधस्तात यं प्रशंससि मे सुतम् । 012a
कृतवांश्चापि तत्सर्वं यदिदं भाषसे मयि ॥ 012c
हताश्वे नकुले यत्तु वृषसेनेन भारत । 013a
अपिबः शोणितं सङ्ख्ये दुःशासनशरीरजम् ॥ 013c
सद्भिर्विगर्हितं घोरमनार्यजनसेवितम् । 014a
क्रूरं कर्माकृथास्तस्मात्तदयुक्तं वृकोदर ॥ 014c
भीम उवाच 015
हताश्वं नकुलं दृष्ट्वा वृषसेनेन संयुगे । 015a
शत्रूणां तु प्रहृष्टानां त्रासः सञ्जनितो मया ॥ 015c
'स प्रतिज्ञामकरवं पिबाम्यसृगरेरिति ।' 016a
रुधिरं नातिचक्राम दन्तोष्ठादम्ब मा शुचः ॥ 016c
[अन्यस्यापि न पातव्यं रुधिरं किम्पुनः स्वकम् । 017a
यथैवात्मा तथा भ्राता विशेषो नास्ति कश्चन ॥ 017c
वैवस्वतो हि तद्वेद यथावत्कुलनन्दिनि । 018a
मा कृथा हृदि तन्मातर्न तत्पीतं मयाऽनघे ॥ 018c
केशपक्षपरामर्शे द्रौपद्या द्यूतकारिते । 019a
क्रोधाद्यदब्रवं चाहं तच्च मे हृदि वर्तते ॥ 019c
क्षत्रधर्माच्च्युतो राज्ञि भवेयं शाश्वतीः समाः । 020a
प्रतिज्ञां तामनिस्तीर्य ततस्तत्कृतवानहम् ॥ 020c
अनिगृह्य पुरा पुत्रानस्मास्वनपकारिषु । 021a
न ममार्हसि कल्याणि दोषेण परिशङ्कितुम् ॥ 021c
गान्धार्युवाच 022
वृद्धस्यास्य शतं पुत्रान्निघ्नंस्त्वमपराजितः । 022a
कस्मान्नाशेषयः कञ्चिद्येनाल्पमपराधितम् ॥ 022c
सन्तानमावयोस्तात वृद्धयोर्हृतराज्ययोः । 023a
नाशेषयः कथं यष्टिमेकां वृद्धयुगस्य वै ॥ 023c
शेषे ह्यवस्थिते तात पुत्राणामल्पकेऽपि च । 024a
मन्ददुःखं भवेदद्य यदि त्वं धर्ममाचरेः ॥ 024c

इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि चतुर्दशोऽध्यायः ॥ 14 ॥

11-14-6 उक्तवान् नहि ते पतयः सन्तीत्यादि । राजपुत्रीं च पाञ्चलीमिति झ. पाठः ॥ चतुर्दशोऽध्यायः ॥