श्रीः अध्यायः 012 कृष्णवाक्याद्गतमन्युना धृतराष्ट्रेण भीमादीनामालिङ्गनम् ॥ 1 ॥ वैशम्पायन उवाच 001
तत एनमुपातिष्ठञ्शौचार्थं परिचारकाः । 001a
कृतशौचं पुनश्चैनं ओवाच मधुसूदनः ॥ 001c
राजन्नधीता वेदास्ते शास्त्राणि विविधानि च । 002a
श्रुतानि च पुराणानि राजधर्माश्च केवलाः ॥ 002c
एवं विद्वान्महाप्राज्ञः समर्थः सन्बलाबले । 003a
आत्मापराधात्कस्मात्त्वं कुरुषे कोपमीदृशम् ॥ 003c
उक्तवांस्त्वां तदैवाहं भीष्मद्रोणौ च भारत । 004a
विदुरः सञ्जयश्चैव वाक्यं राजन्न तत्कृथाः ॥ 004c
स वार्यमाणो नास्माकमकार्षीर्वचनं तदा । 005a
पाण्डवानधिकाञ्जानन्बले शौर्ये च कौरव ॥ 005c
राजा हि यः स्थिरप्रज्ञः स्वयं दोषानवेक्षते । 006a
देशकालविभागं च परं श्रेयो स विन्दति ॥ 006c
उच्यमानस्तु यः श्रेयो गृह्णीते नो हिताहिते । 007a
आपदः समनुप्राप्य सोऽभ्येति विलयं किल ॥ 007c
ततोऽन्यवृत्तमात्मानं समवेक्षस्व भारत । 008a
राजंस्त्वं ह्यविधेयात्मा दुर्योधनवशे स्थितः ॥ 008c
आत्मापराधादापन्नस्तत्किं भीमं जिघांससि । 009a
तस्मात्संयच्छ कोपं त्वं स्वमनुस्मृत्य दुष्कृतम् ॥ 009c
यस्तु तां स्पर्धया क्षुद्रः पाञ्चालीमानयत्सभाम् । 010a
स हतो भीमसेनेन वैरं प्रतिजिहीर्षता ॥ 010c
आत्मनोऽतिक्रमं पश्य पुत्रस्य च दुरात्मनः । 011a
यदनागसि पाण्डूनां परित्यागस्त्वया कृतः ॥ 011c
वैशम्पायन उवाच 012
एवमुक्तः स कृष्णेन सर्वं सत्यं जनाधिप । 012a
उवाच देवकीपुत्रं धृतराष्ट्रो महीपतिः ॥ 012c
एवमेतन्महाबाहो यथा वदसि माधव । 013a
पुत्रस्नेहस्तु बलवान्धर्मान्मां समचालयत् ॥ 013c
दिष्ट्या तु पुरुषव्याघ्रो बलवान्सत्यविक्रमः । 014a
त्वद्गुप्तो नागमत्कृष्ण भीमो बाह्वन्तरं मम ॥ 014c
इदानीं त्वहमव्यग्रो गतमन्युर्गतज्वरः । 015a
मध्यमं पाण्डवं वीरं स्प्रष्टुमिच्छामि माधव ॥ 015c
हतेषु पार्थिवेन्द्रेषु पुत्रेषु निहतेषु च । 016a
पाण्डुपुत्रेषु मे धर्मः प्रीतिश्चाप्यवतिष्ठते ॥ 016c
ततः स भीमं च धनञ्जयं च माद्र्याश्च पुत्रौ पुरुषप्रवीरौ । 017a
पस्पर्श गात्रैः प्ररुदन्सुगात्रानाश्वास्य कल्याणमुवाच चैनान् ॥ 017c

इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि द्वादशोऽध्यायः ॥ 12 ॥

11-12-4 न तत्कृथाः तन्न कृतवानसि । अडभाव आर्षः ॥ 11-12-7 श्रेयो हिताहिते उच्यमानो न गृह्णीत इत्यन्वयः ॥ 11-12-10 वैरं प्रतिचिकीर्षतेति क. पाठः ॥ 11-12-11 अनागसि अपराधाभावे । परित्यागो राज्याप्रदानेन तिरस्कारः ॥ द्वादशोऽध्यायः ॥