श्रीः
अध्यायः 011
युधिष्ठिरेण कृष्णादिभिः सह धृतराष्ट्रसमीपमेत्याभिवादनम् ॥ 1 ॥ धृतराष्ट्रेण युधिष्ठिरं मृदुलमालिङ्घ्य पश्चाद्भावज्ञेन कृष्णेन पुरतः स्थापितलोहभीमस्य दृढालिङ्गनेन भञ्जनम् ॥ 2 ॥
वैशम्पायन उवाच 001
हतेषु सर्वसैन्येषु धर्मराजो युधिष्ठिरः । 001a
शुश्रुवे पितरं वृद्धं निर्यान्तं गजसाह्वयात् ॥ 001c
सोऽभ्ययात्पुत्रशोकार्तं पुत्रशोकपरिप्लुतः । 002a
शोचमानो महाराज भ्रातृभिः सहितस्तदा ॥ 002c
अन्वीयमानो वीरेण दाशार्हेण महात्मना । 003a
युयुधानेन च तथा तथैव च युयुत्सुना ॥ 003c
तमन्वगात्सुदुःखार्ता द्रौपदीशोककर्शिता । 004a
सह पाञ्चालयोषिद्भिर्यास्तत्रासन्समागताः ॥ 004c
सङ्ग्राममनु वृन्दानि स्त्रीणां भरतसत्तम । 005a
कुररीणामिवार्तानां क्रोशन्तीनां ददर्श ह ॥ 005c
ताभिः परिवृतो राजा क्रोशन्तीभिः सहस्रशः । 006a
ऊर्ध्वबाहुभिरार्ताभी रुदतीभिः प्रियाप्रियैः ॥ 006c
क नु धर्मज्ञता राज्ञः क्व नु साद्यानृशंसता । 007a
यच्चावधीत्पितॄन्भ्रातॄन्गुरुपुत्रान्सखीनपि ॥ 007c
घातयित्वा कथं द्रोणं भीष्मं चापि पितामहम् । 008a
मनस्तेऽभून्महाबाहो हत्वा चापि जयद्रथम् ॥ 008c
किं नु राज्येन ते कार्यं पितॄन्भ्रातॄनपश्यतः । 009a
अभिमन्युं च दुर्धर्षं द्रौपदेयांश्च भारत ॥ 009c
वैशम्पायन उवाच 010
अतीत्य ता महाबाहुः क्रोशन्तीः कुररीरिव । 010a
ववन्दे पितरं ज्येष्ठं धर्मराजो युधिष्ठिरः ॥ 010c
ततोऽभिवाद्य पितरं क्रमेणामित्रकर्शनाः । 011a
न्यवेदयन्त नामानि पाण्डवास्तेऽपि सर्वशः ॥ 011c
तमात्मजान्तकरणं पिता पुत्रवधार्दितः । 012a
अप्रीयमाणः शोकार्तः पाण्डवं परिषस्वजे ॥ 012c
धर्मराजं परिष्वज्य सान्त्वयित्वा च भारत । 013a
दुष्टात्मा भीममन्वैच्छद्दिधक्षुरिव पावकः ॥ 013c
स कोपपावकस्तस्य शोकवायुसमीरितः । 014a
भीमसेनमयं दावं दिधक्षुरिव दृश्यते ॥ 014c
तस्य सङ्कल्पमाज्ञाय भीमं प्रत्यशुभं हरिः । 015a
भीममाक्षिप्य पाणिभ्यां प्रददौ भीममायसम् ॥ 015c
प्रागेव तु महाबुद्धिर्बुद्ध्वा तस्येङ्गितं हरिः । 016a
संविधानं महाप्राज्ञस्तत्र चक्रे जनार्दनः ॥ 016c
उपगुह्यैव पाणिभ्यां भीमसेनमयस्मयम् । 017a
बभञ्ज बलवान्राजा मन्यमानो वृकोदरम् ॥ 017c
नागायुतसमप्राणः स राजा भीममायसम् । 018a
भङ्क्त्वा विमथितोरस्कः सुस्राव रुधिरं मुखात् ॥ 018c
ततः पपात मेदिन्यां तथैव रुधिरोक्षितः । 019a
प्रपुष्पिताग्रशिखरः पारिजात इव द्रुमः ॥ 019c
प्रत्यगृह्णाच्च तं विद्वान्सूतो गावल्गणिस्तदा । 020a
मैवमित्यब्रवीच्चैनं शमयन्सान्त्वयन्निव ॥ 020c
हतो भीम इति ज्ञात्वा गतमन्युर्महामनाः । 021a
हाहाभीमेति चुक्रोश नृपः शोकसमन्वितः ॥ 021c
तं विदित्वा गतक्रोधं भीमसेनवधार्दितम् । 022a
वासुदेवो वरः पुंसामिदं वचनमब्रवीत् ॥ 022c
मा शुचो धृतराष्ट्र त्वं नैव भीमस्त्वया हतः । 023a
आयसी प्रतिमा ह्येषा त्वया निष्पातिता विभो ॥ 023c
त्वां क्रोधवशमापन्नं विदित्वा भरतर्षभ । 024a
मयाऽपकृष्टः कौन्तेयो मृत्योर्दंष्ट्रान्तरं गतः ॥ 024c
न हि ते राजशार्दूल बले तुल्योऽस्ति कश्चन । 025a
कः सहेत महाबाहो बाह्वोर्विग्रहणं नरः ॥ 025c
यथान्तकमनुप्राप्य जीवन्कश्चिन्न मुच्यते । 026a
एवं बाह्वन्तरं प्राप्य तव जीवेन्न कश्चन ॥ 026c
तस्मात्पुत्रेण या तेऽसौ प्रतिमा कारिताऽऽयसी । 027a
भीमस्य सेयं कौरव्य तवैवोपहृता मया ॥ 027c
पुत्रशोकाभिसन्तप्तं धर्मादपकृतं मनः । 028a
तव राजेन्द्र तेन त्वं भीमसेनं जिघांससि ॥ 028c
न त्वेतत्ते क्षमं राजन्हन्यास्त्वं यद्वृकोदरम् । 029a
न हि पुत्रा महाराज जीवेयुस्ते कथञ्चन ॥ 029c
तस्माद्यत्कृतमस्माभिर्मन्यमानैः शमं प्रति । 030a
अनुमन्यस्व तत्सर्वं मा च शोके मनः कृथाः ॥ 030c
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि एकादशोऽध्यायः ॥ 11 ॥
11-11-5 स गङ्गामन्विति झ. पाठः ॥ 11-11-6 प्रियाप्रियैः पाण्डवानां प्रियाः अभिमन्युप्रभृतयः अप्रियाः दुर्योधनादयः तैर्हेतुभिः क्रोशन्तीभिरिति सम्बन्धः ॥ 11-11-15 आक्षिप्य निवार्य । आयसं लोहमयम् ॥ 11-11-21 स तु कोपं समुत्सृज्येति झ. पाठः ॥ 11-11-28 पुत्रेति धर्मादपकृतमालिङ्गनच्छलेन भीमवधः कर्तव्य इत्याशया ॥ एकादशोऽध्यायः ॥