श्रीः
अध्यायः 010
मृतबन्धुदिदृक्षया समरभूमिं गच्छतो धृतराष्ट्रस्य मध्येमार्गं कृपकृतवर्मद्रौणिभिः समागमः ॥ 1 ॥ तेषां त्रयाणां धृतराष्ट्राश्वासनपूर्वकं स्वाभिमतदेशगमनम् ॥ 2 ॥
वैशम्पायन उवाच 001
क्रोशमात्रं ततो गत्वा ददृशुस्तान्महारथान् । 001a
शारद्वतं कृपं द्रौणिं कृतवर्माणमेव च ॥ 001c
ते तु दृष्ट्वैव राजानं प्रज्ञाचक्षुषमीश्वरम् । 002a
अश्रुकण्ठा विनिःश्वस्य रुदन्तमिदमब्रुवन् ॥ 002c
पुत्रस्तव महाराज कृत्वा कर्म सुदुष्करम् । 003a
गतः सानुचरो राजञ्शक्रलोकं महीपते ॥ 003c
दुर्योधनबलान्मुक्ता वयमेव त्रयो रथाः । 004a
सर्वमन्यत्परिक्षीणं सैन्यं ते भरतर्षभ ॥ 004c
इत्येवमुक्त्वा राजानं कृपः शारद्वतस्ततः । 005a
गान्धारीं पुत्रशोकार्तामिदं वचनमब्रवीत् ॥ 005c
अभीता युध्यमानास्ते घ्नन्तः शत्रुगणान्बहून् । 006a
वीरकर्माणि कुर्वाणाः पुत्रास्ते निधनं गताः ॥ 006c
ध्रवं सम्प्राप्य लोकांस्ते निर्मलाञ्शस्त्रनिर्जितान् । 007a
भास्वरं देहमास्थाय विहरन्त्यमरा इव ॥ 007c
सर्वे ह्यभिमुखा राज्ञि युध्यमाना हता युधि । 008a
न हि कश्चिद्धि शूराणां युध्यमानः पराङ्मुखः । 008c
शस्त्रेण निधनं प्राप्तो न च कश्चित्कृताञ्जलिः ॥ 008e
एतां तां क्षत्रियस्याहुः पुराणाः परमां गतिम् । 009a
शस्त्रेण निधनं सङ्ख्ये तान्न शोचितुमर्हसि ॥ 009c
न चापि शत्रवस्तेषां मुच्यन्ते राज्ञि पाण्डवाः । 010a
शृणु यत्कृतमस्माभिरश्वत्थामपुरोगमैः ॥ 010c
अधर्मेण हतं श्रुत्वा भीमसेनेन ते सुतम् । 011a
सुप्तं शिबिरमासाद्य पाण्डूनां कदनं कृतम् ॥ 011c
पाञ्चाला निहताः सर्वे धृष्टद्युम्नपुरोगमाः । 012a
द्रुपदस्यात्मजाश्चैव द्रौपदेयाश्च पातिताः ॥ 012c
तथा विशसनं कृत्वा पुत्रशत्रुगणस्य ते । 013a
प्राद्रवाम रणे स्थातुं न हि शक्ष्यामहे त्रयः ॥ 013c
ते हि शूरा महेष्वासाः क्षिप्रमेष्यन्ति पाण्डवाः । 014a
अमर्षवशमापन्ना वैरं प्रतिजिहीर्षवः ॥ 014c
ते हतानात्मजाञ्श्रुत्वा प्रमत्ताः पुरुषर्षभाः । 015a
अन्विष्यन्तः पदं शूराः क्षिप्रमेष्यन्ति पाण्डवाः ॥ 015c
तेषां तु किल्बिषं कृत्वा संस्थातुं नोत्सहामहे । 016a
अनुजानीहि नो राज्ञि मा च शोके मनः कृथाः ॥ 016c
राजंस्त्वमनुजानीहि धैर्यमातिष्ठ चोत्तमम् । 017a
दिष्टान्तं पश्य चापि त्वं क्षात्रं धर्मं च केवलम् ॥ 017c
इत्येवमुक्त्वा राजानं कृत्वा चाभिप्रदक्षिणम् । 018a
कृपश्च कृतवर्मा च द्रोणपुत्रश्च भारत ॥ 018c
अवेक्षमाणा राजानं धृतराष्ट्रं मनीषिणम् । 019a
गङ्गामनु महाराज तूर्णमश्वानचोदयन् ॥ 019c
अपक्रम्य तु ते राजन्सर्व एव महारथाः । 020a
आमन्त्र्यान्योन्यमुद्विग्नास्त्रिधा ते प्रययुस्तदा ॥ 020c
जगाम हास्तिनपुरं कृपः शारद्वतस्तदा । 021a
स्वमेव राष्ट्रं हार्दिक्यो द्रौणिर्व्यासाश्रमं ययौ ॥ 021c
एवं ते प्रययुर्वीरा वीक्षमाणाः परस्परम् । 022a
भयार्ताः पाण्डुपुत्राणामागस्कृत्वा महात्मनाम् ॥ 022c
समेत्य वीरा राजानं तदा त्वनुदिते रवौ । 023a
विप्रजग्मुर्महात्मानो यथेष्टकमरिन्दमाः ॥ 023c
[समासाद्याथ वै द्रौणिं पाण्डुपुत्रा महारथाः । 024a
व्यजयंस्ते रणे राजन्विक्रम्य तदनन्तरम् ॥] 024c
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि दशमोऽध्यायः ॥ 10 ॥
11-10-14 वैरं प्रतिचिकीर्षव इति क. पाठः ॥ 11-10-17 दिष्टान्तं मरणम् ॥ 11-10-24 तदनन्तरं कृपाचार्यकृतवर्मभ्यां वियोगानन्तरम् ॥ दशमोऽध्यायः ॥