श्रीः अध्यायः 009 धृतराष्ट्रेण गान्धरीप्रभृतिभिः स्त्रीभिः सह मृतजनावलोकनाय रणाङ्कणम् प्रति प्रयाणम् ॥ 1 ॥ 'जनमेजय उवाच 001
गते व्यासे तु धर्मात्मा धृतराष्ट्रो महीपतिः । 001a
किमचेष्टत विप्रर्षे तन्मे व्याख्यातुमर्हसि ॥ 001c
वैशम्पायन उवाच 002
एतच्छ्रुत्वा नरश्रेष्ठश्चिरं ध्यात्वा त्वचेतनः । 002a
सञ्जयं योजयेत्युक्त्वा विदुरं प्रत्यभाषत ॥ 002c
क्षिप्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः । 003a
कुन्तीं चैव तथा क्षत्तः समानय ममाऽन्तिकम् ॥' 003c
एवमुक्त्वा स धर्मात्मा विदुरं धर्मवित्तमम् । 004a
शोकविप्रहतज्ञानो यानमेवान्वरोहत ॥ 004c
गान्धारी पुत्रशोकार्ता भर्तुर्वचननोदिता । 005a
सह कुन्त्या यतो राजा सह स्त्रीभिरुपाद्रवत् ॥ 005c
ताः समासाद्य राजानं भृशं शोकसमन्विताः । 006a
आमन्त्र्यान्योन्यमायस्ता भृशमुच्चुक्रुशुस्ततः ॥ 006c
ताः समाश्वासयत्क्षत्ता ताभ्यश्चार्ततरः स्वयम् । 007a
अश्रुकण्ठीः समारोप्य ततोऽसौ निर्ययौ पुरात् ॥ 007c
ततः प्रणादः सञ्जज्ञे सर्वेषु कुरुवेश्मसु । 008a
आकुमारं पुरं सर्वमभवच्छोककर्शितम् ॥ 008c
अदृष्टपूर्वा या नार्यः पुरा देवगणैरपि । 009a
पृथग्जनेन दृश्यन्ते तास्तदा निहतेश्वराः ॥ 009c
प्रकीर्य केशान्सुशुभान्भूषणान्यवमुच्य च । 010a
एकवस्त्रधरा नार्यः परिपेतुरनाथवत् ॥ 010c
श्वतेपर्वतरूपेभ्यो गृहेभ्यस्ता निराक्रमन् । 011a
गुहाभ्य इव शैलानां पृषत्यो हतयूथपाः ॥ 011c
तान्युदीर्णानि नारीणां तदा वृन्दान्यनेकशः । 012a
शोकार्तान्यद्रवन्राजन्किशोरीणामिवाङ्गणे ॥ 012c
प्रगृह्य बाहून्क्रोशन्त्यः पुत्रान्भ्रातॄन्पितॄनपि । 013a
दर्शयन्ति हता हि स्म युगान्ते लोकसङ्क्षयम् ॥ 013c
विलपन्त्यो रुदन्त्यश्च धावमानास्ततस्ततः । 014a
शोकेनोपहतज्ञानाः कर्तव्यं न प्रजज्ञिरे ॥ 014c
व्रीडां जग्मुः पुरा याः स्म सखीनामपि योषितः । 015a
ता एकवस्त्रा निर्लज्जाः श्वश्रूणां पुरतोऽभवन् ॥ 015c
परस्परं सुसूक्ष्मेषु शोकेष्वाश्वासयन्ति याः । 016a
ताः शोकविह्वला राजन्नवैक्षन्त परस्परम् ॥ 016c
ताभिः परिवृतो राजा रुदतीभिः सहस्रशः । 017a
निर्ययौ नगराद्दीनस्तूर्णमायोधनं प्रति ॥ 017c
शिल्पिनो वणिजो वैश्याः सर्वे कर्मोपजीविनः । 018a
ते पार्थिवं पुरस्कृत्य निर्ययुर्नगराद्बहिः ॥ 018c
तेषां विक्रोशमानानामार्तानां कुरुसङ्क्षये । 019a
प्रादुरासीन्महाञ्शब्दो व्यथयन्भुवनान्युत ॥ 019c
युगान्तकाले सम्प्राप्ते भूतानां दह्यतामिव । 020a
अभावस्योदयः प्राप्त इति भूतानि मेनिरे ॥ 020c
भृशमुद्विग्नमनसस्ते पौराः कुरुसङ्क्षये । 021a
प्राक्रोशन्त महाराज स्वनुरक्तास्तदा भृशम् ॥ 021c

इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि नवमोऽध्यायः ॥ 9 ॥

11-9-7 समारोप्य वाहनेष्विति शेषः ॥ 11-9-11 पृषत्यश्चित्रहरिण्यः ॥ 11-9-12 किशोरीणाम् अश्वशावकीनाम् | अङ्गणे नृत्यशिक्षाभूमौ ॥ नवमोऽध्यायः ॥