श्रीः
अध्यायः 007
विदुरेण धृतराष्ट्रम् प्रति तत्त्वकथनम् ॥ 1 ॥
धृतराष्ट्र उवाच 001
अहोऽभिहितमाख्यानं भवता तत्त्वदर्शिना । 001a
भूय एव तु मे हर्षः श्रोतुं वागमृतं तव ॥ 001c
विदुर उवाच 002
शृणु भूयः प्रवक्ष्यामि मार्गस्यैतस्य विस्तरम् । 002a
यच्छ्रुत्वा विप्रमुच्यन्ते संसाराद्धि विचक्षणाः ॥ 002c
यथा तु पुरुषो राजन्दीर्घमध्वानमास्थितः । 003a
क्वचित्क्वचिच्छ्रमस्थानं कुरुते वासमेव वा ॥ 003c
एवं संसारपर्याये गर्भवासेषु भारत । 004a
कुर्वन्ति दुर्बुधा वासं मुच्यन्ते तत्र पण्डिताः ॥ 004c
तस्मादध्वानमेवैतमाहुः शास्त्रविदो जनाः । 005a
यत्तत्संसारगहनं वनमाहुर्मनीषिणः ॥ 005c
सोयं लोकसमावर्तो मर्त्यानां भरतर्षभ । 006a
चराणां स्थावराणां च न गृध्येत्तत्र पण्डितः ॥ 006c
शारीरा मानसाश्चैव मर्त्यानां व्याधयश्च ये । 007a
प्रत्यक्षाश्च परोक्षाश्च ते व्यालाः कथिता बुधैः ॥ 007c
क्लिश्यमानाश्च तैर्नित्यं मार्यमाणाश्च भारत । 008a
स्वकर्मभिर्महाव्यालैर्नोद्विजन्त्यल्पबुद्धयः ॥ 008c
अथापि तैर्विमुच्येत व्याधिभिः पुरुषो नृप । 009a
आवृणोत्येव तं पश्चाज्जरा रूपविनाशिनी ॥ 009c
शब्दरूपरसस्पर्शगन्धैश्च विविधैरपि । 010a
मज्जमानं महापङ्के निरालम्बे समन्ततः ॥ 010c
संवत्सरर्तवो मासाः पक्षाहोरात्रसन्धयः । 011a
क्रमेणास्य प्रवृज्जन्ति रूपमायुस्तथैव च ॥ 011c
एते कालस्य विधयो नैताञ्जानन्ति दुर्बुधाः । 012a
धात्राऽभिलिखितान्याहुः सर्वभूतानि कर्मणा ॥ 012c
रथः शरीरं भूतानां सत्वमाहुस्तु सारथिम् । 013a
इन्द्रियाणि हयानाहुः कर्मबुद्धिस्तु रश्मयः ॥ 013c
तेषां हयानां यो वेगं धावतामनु धावति । 014a
सतु संसारचक्रेऽस्मिंश्चक्रवत्परिवर्तते ॥ 014c
यस्तान्संयमते बुद्ध्या संयतो न निवर्तते । 015a
यस्तु संसारचक्रेऽस्मिंश्चक्रवत्परिवर्तते ॥ 015c
[भ्रममाणा न मुह्यन्ति संसारे न भ्रमन्ति ते । 016a
संसारे भ्रमतां राजन्दुःखमेतद्धि जायते ॥ 016c
तस्मादस्य निवृत्त्यर्थं यत्नमेवाचरेद्बुधः । 017a
उपेक्षा नात्र कर्तव्या शतशाखः प्रवर्धते ॥ 017c
यतेन्द्रियो नरो राजन्क्रोधलोभनिराकृतः । 018a
सन्तुष्टः सत्यवादी यः स शान्तिमधिगच्छति ॥] 018c
याम्यमाहू रथं ह्येनं मुह्यन्ते येन दुर्बुधाः । 019a
स चैतत्प्राप्नुयाद्राजन्यत्त्वं प्राप्तो नराधिप ॥ 019c
अनुतर्षुलमेवैतद्दुःखं भवति मारिष । 020a
राज्यनाशः सुहृन्नाशः सुतनाशश्च भारत । 020c
साधुः परमदुःखानां दुःखभैषज्यमारभेत् ॥ 020e
ज्ञानौषधमवाप्येह दूरपारं महौषधम् । 021a
छिन्द्याद्दुःखमहाव्याधिं नरः संयतमानसः ॥ 021c
न विक्रमो न चाप्यर्थो न मित्रं न सुहृज्जनः । 022a
तस्मान्मोचयते दुःखाद्यथात्मा स्थिरनिश्चयः ॥ 022c
तस्मान्मैत्रं समास्थाय शीलमापदि भारत । 023a
दमस्त्यागोऽप्रमादश्च ते त्रयो ब्रह्मणो हयाः ॥ 023c
शीलरश्मिसमायुक्ते स्थितो यो मानसे रथे । 024a
त्यक्त्वा मृत्युभयं राजन्ब्रह्मलोकं स गच्छति ॥ 024c
अभयं सर्वभूतेभ्यो यो ददाति महीपते । 025a
स गच्छति परं स्थानं विष्णोः पदमनामयम् ॥ 025c
न तत्क्रतुसहस्रेण नोपवासैश्च नित्यशः । 026a
अभयस्य च दानेन यत्फलं प्राप्नुयान्नरः ॥ 026c
न ह्यात्मनः प्रियतरं किञ्चिद्भूतेषु निश्चितम् । 027a
अनिष्टं सर्वभूतानां मरणं नाम भारत ॥ 027c
तस्मात्सर्वेषु भूतेषु दया कार्या विपश्चिता ॥ 028ac
नानायोगसमायुक्ता बुद्धिजालेन संवृताः । 029a
असूक्ष्मदृष्टयो मन्दा भ्राम्यन्ते तत्रतत्र ह । 029c
सुसूक्ष्मदृष्टयो राजन्व्रजन्ति ब्रह्मसाम्यताम् ॥ 029e
एवं ज्ञात्वा महाप्राज्ञ स तेषामौर्ध्वदैहिकम् । 030a
कर्तुमर्हति तेनैव फलं प्राप्स्यति वै भवान् ॥ 030c
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि सप्तमोऽध्यायः ॥ 7 ॥
11-7-3 श्रमाच्छ्रान्त इति झ. पाठः ॥ 11-7-8 वार्यमाणाश्च भारतेति झ. पाठः ॥ 11-7-9 अथापि तैर्न मुच्येतेति क. पाठः ॥ 11-7-10 मज्जमांसमहापङ्के इति झ. पाठः ॥ 11-7-17 ये तु संसारचक्रेऽस्मिन्निति झ. पाठः ॥ 11-7-15 शतशाखः संसारवृक्षः ॥ 11-7-17 क्रोधलोभौ निराकृतौ येन सः ॥ 11-7-18 याम्यं यमलोकप्रापकं संसारगहनम् ॥ 11-7-19 अनुतर्षुलं तृष्णाशीलं लक्षीकृत्य । अनुकर्षणमेवैतद्दुःखं न भवति भारतेति क. छ. पाठः ॥ 11-7-20 दूरपारं ब्रह्मज्ञानम् ॥ 11-7-23 ब्रह्मणः ब्रह्मलोकस्य प्रापका इति शेषः ॥ सप्तमोऽध्यायः ॥