श्रीः
अध्यायः 006
पूर्वाध्याये कान्तारादित्वेन रूपितानां संसारादीनां स्वस्वशब्दैः प्रतिपादनम् ॥ 1 ॥
धृतराष्ट्र उवाच 001
अहो खलु महद्दुःखं कृच्छ्रवासं वसत्यसौ । 001a
कथं तस्य रतिस्तत्र तुष्टिर्वा वदतां वर ॥ 001c
स देशः क्वनु यत्रासौ वसते धर्मसङ्कटे । 002a
कथं वा स विमुच्येत नरस्तस्मान्महाभयात् ॥ 002c
एतन्मे सर्वमाचक्ष्व साधु चेष्टामहे तदा । 003a
कृपा मे महती जाता तस्याभ्युद्धरणेन हि ॥ 003c
विदुर उवाच 004
उपाख्यानमिदं राजन्मोक्षविद्भिरुदाहृतम् । 004a
सुगतिं विन्दते येन परलोकेषु मानवः ॥ 004c
उच्यते यत्तु कान्तारं महासंसार एव सः । 005a
वनं दुर्गं हि यच्चैतत्संसारगहनं हि तत् ॥ 005c
ये च ते कथिता व्याला व्याधयस्ते प्रकीर्तिताः ॥ 006ac
या सा नारी बृहत्काया अध्यतिष्ठत तत्र वै । 007a
तामाहुस्तु जरां प्राज्ञा रूपवर्णविनाशिनीम् ॥ 007c
स यस्तु कूपो नृपते स तु देहः शरीरिणाम् । 008a
यस्तत्र वसतेऽधस्तान्महाहिः काल एव सः । 008c
अन्तकः सर्वभूतानां देहिनां प्राणाहार्यसौ ॥ 008e
कूपमध्ये च या जाता वल्ली यत्र स मानवः । 009a
प्रोतो ययाऽभवल्लग्नो जीविताशा शरीरिणाम् ॥ 009c
स यस्तु कूपपीनाहे तं वृक्षं परिसर्पति । 010a
षड्वक्त्रः कुञ्जरो राजन्स तु संवत्सरः स्मृतः ॥ 010c
मुखानि ऋतवो मासाः पादा द्वादशा कीर्तिताः । 011a
ये तु वृक्षं निकृन्तन्ति मूषिकाः पन्नगास्तथा ॥ 011c
रात्र्यहानि तु तान्याहुर्भूतानां परिचिन्तकाः । 012a
ये ते मधुकरास्तत्र कामास्ते परिकीर्तिताः ॥ 012c
यास्तु ता बहुशो धाराः स्रवन्ति मधुनिस्रवम् । 013a
तांस्तु कामरसान्विन्द्याद्यत्र सज्जन्ति मानवाः ॥ 013c
एवं संसारचक्रस्य परिवृत्तिं विदुर्बुधाः । 014a
येन संसारचक्रस्य पाशांश्छिन्दन्ति सर्वथा ॥ 014c
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥
11-6-4 उपमानमिदं राजन्निति झ. पाठः ॥ षष्ठोऽध्यायः ॥